________________
११/७ ]
क्षणिकपक्षे बुद्ध्यसंचारदोषः
वस्थानादप्रतिपत्तिः परतः तस्मात् तत्त्वतः इष्टानिष्टग्रहत्यागयोः नियोगतः अनुपपत्तेः प्रेक्षावान् कुतः प्रवर्तेत ?]
कचित् परिच्छेद्य कर्मणि नियोजनमिति नियोगि (गः) नित्यं क्षणिकं वा विषयीकुर्विति, न विद्यते नियोगोऽस्य इति अनियोगः स चासौ ग्रहश्च निर्विषयग्रह इत्यर्थः । कयोः ! इत्याह-अनयोः नित्यक्षणिकतत्त्वार्थयोः स्याद् भवेत् । कयोः सतोः ? इत्याह- नित्य ५ इत्यादि । " नित्यादि' नित्यक्षणिकतत्त्वे सर्वोपायो (तत्त्वे एवार्थो ययो ) स्तौ च तौ मिथ्यैकान्तविकल्पौ च तयोः सतोः इति । निर्विकल्पे संति स नियोगग्रहो ऽनयोरि[ ति]
चेत्; अत्राह-अविकल्पाप्रसिद्धिः अविकल्पस्य अविकल्पेन च अप्रसिद्धिः अनयोरिति व्याख्याने । अत्र विवरणम् - यथैव इत्यादि भविष्यति ।
७०७
इदमपरं
व्याख्यानम्-नित्यक्षणिकतत्त्वार्थमिथ्यैकान्तविकल्पयोरन (नि)- १० योगग्रहः । कुतः ? इत्याह- अविकल्पेनाप्रसिद्धिः स्यादनयोः यतः, तदुक्तमंत्र पूर्वम् * "अङ्गीकृतात्मसंवित्ते : " [सिद्धिवि० १।१८] इत्यादि । विवरणम् अत्रापि अन्यथा - नवस्थानात् इत्यादि । तथा इदमपरं तद्विकल्पयोरनियोगग्रहः क्षणिक विकल्प प्रमाणत्वेन स्वीकारो नेतरस्य इति यो नियोगो नियमः तस्य अभावो यस्मिन् तथोक्तो ग्रहः द्वयोर्ग्रहणग्रहणं वा इत्यर्थः । अथ क्षणिकविकल्पस्य वस्तुनि प्रतिबन्धात् तस्याविकल्पेन १५ प्रतिपत्तेः तस्यैव ग्रह इति चेत्; अत्राह - अविकल्प (ल्पा5) प्रसिद्धेः (द्धिः) [५५१ख ] अविकल्पेन तत्त्वस्यासिद्धि: । वृत्ति ( कुत इति ) चेत्; अत्राह - [ अ ] विकल्प इत्यादि । कारिकार्थमुपदिशन्नाह-यथैव इत्यादि । कृत ( कुतः ? ) इत्याह- ह-दृष्टे प्रत्यक्षेण प्रतिपात्र
( पन्ने) क्षणिकत्वादौ प्रमाणान्तरस्य अनुमानस्य वृत्तेः इतरथा तन्न वर्त्तेत ।
स्यान्मतम्यत्र समारोपो नास्ति तस्य निश्चयमन्तरेणापि सिद्धि:, तदाह - असमारोपित २० इत्यादि । अत्रोत्तरमाह-न इत्यादि । परेण यदुक्तं तन्न । कुतः ? इत्याह- समारोप इत्यादि । समारोपस्य व्यवच्छेदो यस्मिन् ज्ञाने तस्यैव व्यवसायात्मकत्वात् इत्युक्तप्रायम् प्रथमप्रस्तावे । एतेन अभ्यासदशापि चिन्तिता तस्यामपि सांशस्यैव प्रवेदनादि [ति ] ; तत्र (तन्न ;) इत्याह- स्वसंवित्तः इत्यादि । व्यवसायस्य या आत्मवित्तिः तस्याः स्वतः आत्मनैव व्यवसायोपपत्तेश्च तत्र अन्यथा स्वतो व्यवसायाभावप्रकारेण अनवस्थानादप्रतिपत्तिः व्यवसायस्व- २५ रूपनिश्चायकस्यापि निश्चयस्य अन्यतो निश्चयात् । अत्र निदर्शनमाह - परत इत्यादि । उपसंहरन्नाह - तस्मात् इत्यादि । सुगमम् ? ततः किं जातम् ? इत्याह- तत्त्वत इत्यादि । परमार्थतः तच्चेष्टमिष्टं (इष्टं च अनिष्टं च) तयोः ग्रहत्यागयोः नियोगतः स्वयमनुपपत्तेः प्रेक्षावान् कुतो नित्यविकल्पाद् अन्यतो वा प्रवर्त्तेत तद्यदि अनेकान्तप्रतिपत्तिरिति । ततः स्थितम् - अक्षरं नित्यमर्थप्रतिपादकं चेति ।
I
३०
नित्यमपि व्यापि स्यादिति मीमांसकः ; तत्राह - नित्यत्वेऽपि इत्यादि ।
(१) 'नित्यादि' इति पुनर्लिखितम् । (२) व्याख्यानम् । ( ३ ) सम्बन्धात् । (४) क्षणिकविकल्पाद्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org