________________
७०६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः कथञ्चिन्नित्यत्वेऽपि पूर्वापरयोः ''यथा नित्यत्वे क्षणक्षय वा परमाणूनां पारिमण्डल्यमजहतामेव स्थूलत्वे स्थूलाकारेणापि नानुपलम्भप्रसङ्गः पारिमण्डल्यवत् । यथा वा ज्ञानस्य संवेदनवत् नीलाद्याकारस्य नाविशेषप्रसङ्गः कथञ्चित्तादात्म्यात् , तथा सर्वस्य स्यात् , हेतुफलयोस्तादात्म्येनैवोपलब्धेः इति]
स्यात् कथंचित् हेतुफलयोः उपादानोपादेययोः तादात्म्ये सति न उभयैकान्तदोषः आदिशब्देन विरोधादिपरिग्रहः । वैशेषिकप्रसिद्धनिदर्शनमाह-महत्स्थूलाणुतत्त्ववत् इति । स्थूलं च तदवयव्यपेक्षया अणु च अवयवापेक्षया तदेव च तत्त्वं महच्च तत् स्थूलाणु [५५०ख] तत्रेव तद्वदिति । यथा अवयवावयविनोः कथंचित्तादात्म्ये स न दोषः,
तथा अन्यत्रापि । चिन्तितमेतत् । बौद्धप्रसिद्धं[निदर्शन]माह-वेद्य इत्यादि। १० कारिकाविवरणमाह-कथंचिद् इत्यादि । यथा इत्यादिना दृष्टान्तद्वयं व्याचष्टे । क्षण
क्षयेति नित्यत्वे क्षणक्षय वा परमाणूनां पारिमण्डल्यं निरंशवर्तुलत्वमजहतामेव [त]त्परित्यागे अभागोऽवयवी सकलावरणादिदोषभाग् भवेत् । स्थूलत्वे स्थूलपरिणात्मकत्वेऽपि नानुपलम्भप्रसङ्गः। केन ? स्थूलाकारेणापि । केनेव ? इत्याह-पारिमण्डल्येनेव तद्वदिति स्थूलाकारवद्वा तेषां न पारिमण्डल्योपलब्धिः । निदर्शनान्तरमाह-यथा चा (वा) १५ ज्ञानस्य चित्रबोधस्य यो नीलादिराकारः तस्य नाविशेषप्रसङगः। कस्य वा ? इत्याह
संवेदनवत् संवेद[न]स्येव । एतदुक्तं भवति-यथा ज्ञानस्य स्वनीलाद्याकारे संवेदनमविशिष्टं नैव (व)नीलादिः (देः)चित्रर्वा (चित्रत्वा) भावप्रसङ्गादिति । संवित्तेर्वा नीलवदचेतनत्वम् । यथा वा न तात्पर्य (ताद्र प्य)संवित्ति[:]नीलेन नीलाकारतया समानापि न जडतया समा इति । कुतः ?
इत्यत्राह-कथंचित्तादात्म्यात् । कथंचिदिति, संवित्तेर्वा कथंचित्ता (त) दात्मना कील (नील). २० सदृशात्मकत्वात् ।
ननु यदि नाम दृष्टान्तत्वेनोपात्ते वस्तुनि कथंचिदभेदः तथोपलब्धेः पूर्वापरयोः किमायातम् , येनोच्यते कथंचिन्नित्यत्वेऽपि इति चेत् ; अत्राह-स्यात् कथंचित् हेतुफलयोः यत्ता[दा]त्म्यं तेनैव उपलब्धेः सर्वस्य इति । तत्र (तन्न) बहिस्तत्त्वम् अन्तस्तत्त्वं [५५१ क] वा अविकल्पे निरंशक्षणिकतया चकास्ति । ____'विपरीतप्रतिभासस्तु मिथ्याविकल्प इति चेत् ; अत्राह-नित्यक्षणिकतत्त्वार्थ . इत्यादि ।
[नित्यक्षणिकतत्त्वार्थमिथ्यैकान्तविकल्पयोः ।
अविकल्पाप्रसिद्धिः स्यादनियोगग्रहोऽनयोः ॥७॥ यथैव दृष्टे प्रमाणान्तरवृत्तेः । असमारोपित 'न' 'समारोपव्यवच्छेदस्यैव ३० व्यवसायात्मकत्वात् इत्युक्तप्रायम् । स्वसंवित्तेः स्वतः व्यवसायोपपत्तेश्च, अन्यथा अन
(१) उदाहरणमाह । (२) क्षणक्षयेति पुनलिखितं भाति । (३) 'वा' इवार्थे । (१) कथञ्चिन्नित्यानित्यतया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org