________________
१६]
क्षणिकपक्षे बुद्ध्यसंचारदोषः दर्शयन्नाह-ध्वनिभ्योऽर्था [५४८ क, ख ५४९ क, ख इति द्वे पत्रे अलिखिते एव वर्तेते] ... 'कर्षमन्तरेण प्रत्ययहेतुः स्यात् तन्न गोत्वं भिन्नं विनियतं सिद्ध्यति । राजपुरुषवत् स्यादिति चेत; न; तत्रोपकारभावात् । अन्यत्रापि तथाकल्पनायां सूक्तम् न च इत्यादि । ___ननु यदुक्तं 'केनचित् किंचिद् [क्रियमाणं] वक्ष्यमानं (व्यज्यमानं) वा तत्कृतोपकारमपेक्षते नाम' इति ; तदयुक्तम् ; ज्ञानस्यैव तेन तत्र ज[न]नात् । इदमत्र चिन्त्यते-सामान्यं स्वविज्ञान- ५ जनन योग्यम्, अन्यथा वा ? योग्यं चेत् ; व्यक्त्यभावेऽपि जनयेत् । शेषं च चिन्तितमत्र। .
प्रकृतं निगमयन्नाह-ततो न सद् विद्यमानं कूटस्थ (स्थं) नाम । कुतः ? इत्यत्राहतबुद्धेरसंचारप्रसङ्गात् । कूटस्थस्य बुद्धेः तद्वद्धः संचरणं देशकालान्तरगमनं संचारः न संचारोऽसंचारः तस्य प्रसङ्गात् । तथाहि-यदा एकस्मिन् क्षणे देशे वा तस्य सत्त्वम् ; ततः कालान्तरादितत्सम्बन्धस्य एकान्तेन अभेदे तावन्मात्रं तदिति द्वितीयादिक्षणानां तच्छून्यत्वमिति १० न तत्रं तबुद्ध्यवतागे निर्विषयत्वभयात् । भेदे वा क्षणिकत्वम् । यदि वा, येन स्वभावेन कचिद् देशादौ स्वज्ञानं जनयति तत् तेनैव, अन्यत्र अन्यदा तजनने सर्वतत्कार्यस्यैकदा एकत्र प्रसव इति न कालादैादिप्रतीतिः । नन्वेवम्-प्रज्ञा क रिणै व (क रे णे व) भवतापि क्षणिकत्वं कक्षीकृतं स्यात्, त च्च नक्षमृते अत्यक्षा (तच्च न क्षमते अध्यक्षा) दात्मानं क्षणमात्रमपि भेदेन व्यवस्थापयितुम् ; इत्याह-ननु इत्यादि । न केवलं कूटस्थे किन्तु क्षणिकत्वेऽपि समानः तस्य १५ क्षणिकत्वस्य बुद्धिः तस्याः असंचारः स एव दोषः तबुद्ध्यसंचारदोषः । कुतः ? इत्यत्राह[५५०क] तदभावाविशेषादिति । तयोः कूटस्थक्षणिकत्वयोः अभावस्य अविशेषात् । यथैव हि कूटस्थस्य पूर्वापरसत्त्वयोर्मध्यसत्त्वाभेदभावः, तथाहि निरंशक्षणिकपरमाणुसंवेदनस्य पुरुषाद्यसंवेदनादभेदादभावः । कल्पनया उभयसत्त्वम् । यदि वा, क्षणिकेतरपक्षयोः बुद्धिसंचार (रा)भावात् । यथैव हि कूटस्थे समर्थे एकत्र क्षणे सकलबुद्ध्य त्पादः तथा क्षणिकेऽपि तत्काल एव २० बुद्धिभावात् सन्तानसंचरणाभावः। द्वितीयक्षणे तत्कार्यमिति चेत् ; अत्राह-अनन्तरक्षणवत इत्यादि । कारणक्षणाद् द्वितीयः क्षणः अनन्तरक्षणः तत्र इव तद्वत् अन्यदापि कालान्तरेऽपि प्रसङ्गात् कार्यस्य पारतन्त्र्याभावात् । अन्यत्रापि प्रसङ्गोऽस्त्येव जाग्रदर्शनात् प्रबोधभावादिति चेत् ; न ; तदनन्तरं तन्निश्चयानुदयप्रसङ्गेन क्षणक्षयादिवत् तद्व्यवहारोच्छेद इत्युक्तमिति । अत्रोत्तरमाह-सत्यम् इत्यादि । यदुक्तं कूटस्थवत् क्षणिकत्वेऽपि बुद्ध्यसंचार इति सत्यमेव- २५ मुक्तप्रकारेणे(ण)तत, उभयात्मकतत्त्वोपगमादिति भावः ।
तत्रापि उभयदोषप्रसङ्गः । नहि चौरसमुदायोऽ[चौर]इष्ट इति चेत् ; अत्राह-स्याद्धेतुफलतादात्म्ये इत्यादि ।
[स्या तुफलतादात्म्ये महत्स्थूलाणुतत्त्ववत् । उभयैकान्तादिदोषा न वेद्यवेदकज्ञानवत् ॥६॥
३० (१) कूटस्थस्य । (२).द्वितीयादिक्षणे ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org