________________
७०४
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः [अनपायोपजनमविकारमविशेषतः ॥३॥ तादृशां नियमेन नित्यत्वे निष्कलत्वे अभिव्यक्तौ घटादेस्तथाभावः किन्न कल्प्येत अविशेषात् । ध्वनिभ्योऽर्थाः 'न च ततो न सत् कूटस्थं नाम तबुद्धेरसञ्चारप्रसङ्गात् । ननु क्षणिकत्वेऽपि तद्बुद्ध्यसंचारदोपः तदभावाविशेषात् अनन्तर५ क्षणवत् अन्यदापि प्रसङ्गात् । सत्यम् , एवमेतत् ।।
___ आपायो विनाश उपजननम् उपजनः जन्म, न विद्यते अपायोपजनौ यस्य स तथोक्तः । स (न) विकारो यस्य तदपि तथोक्तम् अविकारम् इत्यर्थः । तत्प्रतिध्वनीनाम् अकिञ्चित्करत्वात् कथं व्यञ्जकत्वं तेषामिति ? किं च तस्य तैयॊगपद्य नाभिव्यक्तौ घेनं एकेन सर्वात्मनाभिव्यक्तत्वात् टकारादीनां वैयर्थ्यम् , प्रकाशितप्रकाशनदोषात् । क्रमेण इति चेत् ; १० अत्राह-अविशेषत इत्यादि । स्पष्टम् ।
अत्रैव दोषान्तरमाह-तादृशाम् इत्यादि । तादृशां ध्वनिव्यापारात् पूर्वम् एकान्तेनानुपलभ्यमानानां तद्वयापारे च उपलभ्यमानानां नियमेन नित्यत्वे निष्कलत्वे निरंशत्वे अङ्गीक्रियमाणे तादृशां स्फोटादीनामभिव्यक्तौ च चाङ्गीक्रियमाणायां घटादेः [५४७ क] तथा
नित्यत्वनिष्कलत्वाभिव्यङ्ग्यत्वप्रकारेण भावः सत्ता किन्न कल्पे(ल्प्ये)त ? कुतः ? इत्याह१५ अविशेषात् अतिशयाभावात् । 'घटादिरपि नित्यो निरवयवश्चक्रादिभिरभिव्यज्यते न क्रियते'
इत्यपि स्यात् । दीपादिवैयर्थ्यमिति चेत् ; न; एकत्र प्रकाशकद्वयाविरोधात् रूपे चक्षुरालोकवत् । सदा चक्रादिसहितस्यैव दीपादेः तत्प्रकाशनं चेत्, न; कदाचित् निरालोकस्य चक्षुष एव प्रकाशकत्वदर्शनात् । अथ घटादेः प्रदीपारेरिव (पादिरेव) व्यञ्जका; चक्रादिः किं भविष्यति,
अकिञ्चित्करस्य अपेक्षणीयत्वायोगात् ? कारक इति चेत् ; कुत एतत् ? प्रागसतः तत आत्म२० लाभात् घटादेरिति चेत् ; 'प्रागसतः' इति कुतः ? दृश्यस्यादर्शनादिति चेत् ; स्फोटस्य ध्वनि
व्यापारात् प्राक् किं दर्शनमस्ति ? तथा चेत् ; तद्वयापारवैफल्यम् । नो चेत् ; कुतः सत्त्वम् ? पुनरुपलम्भात् , इतरथा खरविषाणवत् तदयोगादिति चेत् ; तदेतत् घटादौ समानम् । प्यास्या(अदृश्या)त्मकत्वे ध्वनिभ्योऽपि न दर्शनमिति साध्वी तेषां व्यञ्जकत्वकल्पना । पूर्व तदात्मकत्वं न पश्चात्'; इतरत्र समानम् । २५ स्यान्मतम्-ध्वनीनां कारकत्वे व्यञ्जकं किं तस्य॑ ? तैलादेः कारकत्वे दीपादेयंञ्जकान्तरं मृग्यम् इत्यलं प्रसङ्गेन ।
स्यान्मतम्-घटादेः सावयवस्य प्रतीतेः तथाभावो निष्कलभावः कल्प्येत, स्फोटस्यापि क्रमशोऽभिव्यज्यमानस्य सावयवत्वप्रतीतिः तदवस्था । 'भ्रान्तिः' इत्यपि नोत्तरम् ; अन्यत्र
प्रसङ्गात् । निष्कलरूपादर्शनमुभयत्र । ततः स्थितम्-अविशेषादिति चक्रादेरनन्त[२] घटादे३० रुपलम्भात् । भवतु [५४७ ख] तस्य ततोऽभिव्यक्तिः न ध्वनिभ्यः स्फोटस्य विपर्ययादिति
(१) 'घटः' इत्यत्र आयेन घकारेण । (२) आलोकरहितस्य नक्तंचरचक्षुषः। (३) ध्वनिव्यापार । (४) अदृश्यात्मकत्वम् । (५) इति चेत् ; । (६) शब्दस्य । (७) अभिव्यङ्ग यत्वभावः । (८) निरवयवत्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org