________________
११।५] स्फोटविचारः
७०३ अकारादेरेव प्रतीतिभावात् । तथापि अन्यतः तत्कल्पने ; धूमोऽपि पावककृतो[न]भवेत् । अपि च, अकारादिरनर्थकः कचिदनुपयोगात् [५४६ क] तदभिव्यक्ता[बु]पयोग इति चेत् ; न; ततः • तद्वदर्थाभिव्यक्तिप्रसङ्गात् । नहि एकस्मिन्नकारे 'प्रत्येक-समुदायविचारावतार इति ।
ननु विसर्जनीयादिर्वाचको दृश्यते न केवलः तथा च वैयाकरणमतम्-*"न केवला प्रकृतिः प्रयोक्तव्या न च केवलः [प्रत्ययः" इति'; ततः समुदायस्यैव पदत्वात् कथ- ५ मुक्तम् -*"वर्णसमुदायः पदमिति प्राति(अभि)प्रायिकमेतत्" इति । अथ सम्बोधनादौ विभक्तिलोपापेक्षया इदमुच्यते ; न ; लोपेऽपि पदत्वं प्रत्युपयोगात् ।
स्यान्मतम् , *"स्वादावधे" [जैनेन्द्र० १।२।१०६]इत्यनेन पूर्वस्य पदत्वे केवलोऽकारादिः पदमिति ; तन्न सारम् ; यतः वाचकस्य पदत्वात् , वाचकं च सविभक्तिकम् , . पूर्वस्य तु प्रयोजनविशेषापेक्षया पदत्वं पारिभाषिकम् इति । - अत्र प्रतिविधीयते- न* "सुम्मिङन्तं पदम्" [जैनेन्द्र० १।२।१०३] इति 'पारिभाषिकपदमिति' पारिभाषिकपदमिह गृह्यते, अपि तु पद्यते गम्यते येनार्थः तत्पदम्, अर्थश्च अविभक्तिकादपि शब्दात् अन्वयव्यतिरेकाभ्यां गम्यते, इतरथा वित्तत्सुत्पत्तेः (विभक्त्युत्पत्तेः) प्राक् अर्थवत्त्वापरिज्ञानात न प्रातिपदिकसंज्ञाविधानम् इत्यनर्थकमिति न सूक्तम् *"अर्थतद्- . धातुप्रज्ञायः (अर्थवद् धातुरप्रत्ययः) प्रातिपदिकम्" [पाणिनि० १।२।४५] इति । १५ तस्मात् केवलादपि अर्थः प्रतीयते ।।
नन्वेवं नियतोप (निपातोप) सर्गाणाम् पदत्वं [न] स्यात् , नहि तैः कश्चिदर्थोऽपूर्वो गम्यते प्रकृत्यर्थाद्योतकत्वादिति चेत् ; अत्राह-द्योतकत्वेऽपि इत्यादि । न केवलं वाचकत्वे अपि तु द्योतकत्वे पदत्वात्ततोऽप्यर्थः प्रतीयते अन्यथा[५४६ ख] तत्प्रयोगानर्थक्यम् । एतेन अन्यानुकरणशब्दाः व्याख्याताः । यदि पद्यते येनार्थः तत्पदम् ; स्फोट एव स्यात् , तेन २० 'हि अकारादिव्यंजेन (व्यङ्ग्येन) अर्थः गम्यते इति चेत् ; अत्राह-न च नैव वाचकं युक्त (उक्त)न्यायेन । किम् ? इत्याह-ध्वनिव्यंग्य (व्यङ्ग्य) ध्वनिभिः अकारादिभिः प्रकास्थां (प्रकाश्यम्) ध्वनिभ्य एव अर्थप्रतीतिदर्शनात् इत्युक्तम् । दूषणान्तरमाह-नित्यत्वैकान्त इत्यादि । तदपि कुतः ? इत्याह-अनभिव्यक्तम् अदृश्य (श्यम् आत्मानं स्वभावं विहाय आत्मान्तरं दृश्यस्वभावमासादयतोऽनित्यताप्रसङ्गात् । एतदपि कुतः ? इत्याह-तादा-२५ त्म्यं व्यक्तेन च आत्मत्वं हिर्यस्मात् परिणामलक्षणम् ।
अथ ध्वनिभिः तस्य न किंचिदसतीयते च प (दसज्जन्यते सञ्चाप) नीयते वा तत्त्व थ (तत्त्व)मनित्यत्वम् , अत्राह-नया (अनपा)योपजनेत्यादि ।
(१) प्रत्येकं व्यञ्जयन्ति समुदिता वा इति । (२) तुलना-"उभयनियमोऽयं प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरैव च प्रकृतिः।"-पात. महा० ३।१।२। “न केवला..."-लघुशब्देन्दु० ३।१२। (३) “यदाह अकलङ्कः सिद्धिविनिश्चये-वर्णसमुदायः पदमिति प्रायिकमेतत्, प्रत्येकमकारादेः कादाचित्कत्वदर्शनात् ।"-स्या. रत्ना० पृ०६४१॥ (४) 'पारिभाषिकपदमिति' पुनर्लिखितमत्र । (५) इति चेत् । (६) उपजननम् अपायश्च अनित्यत्वमित्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org