________________
७०२ .
- सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः प्यते इति चेत् ; अत्राह-तद् इत्यादि । तस्य ज्ञानस्य अनेकान्तात्मकत्वे अङ्गीक्रियमाणे परिणामाविरोधात् । 'द्रव्यस्य' इत्यादि सम्बन्धः। भ्रान्तमनेकान्तात्मकत्वमिति चेत् ; अत्राह-भेद इत्यादि । कुतः १ इत्याह-सर्वथा इत्यादि । तत्त्वप्रतीतिनान्तरीयकत्वादतत्त्वप्रतिभासज्ञानस्य इति । तथापि तदुपपत्तौ दूषणमाह-यथा इत्यादि । सुगमम् । एवमक्षरमभिधाय पदमभिधातुकामः प्राह-वर्णम् इत्यादि ।
[वर्णमेकमनेकं वा पदं शंसन्ति नान्यत् ।
ध्वनिव्यङ्ग्यं नित्यं वा प्रत्येकमदर्शनात् ॥५॥ द्योतकत्वेऽपि पदत्वात् ततोऽर्थः प्रतीयते । न च नित्यत्वैकान्ते वाचकं ध्वनिव्यङ्ग्यम् । अनभिव्यक्तमात्मानं विहाय आत्मान्तरमासादयतोऽनित्यताप्रसङ्गात् । १० व्यक्त न च तादात्म्यं हि परिणामलक्षणम् ।
वर्णमेकमसहायमनेकं वा वर्णं पदं शंसन्ति पूर्वाचार्याः तदेव पदं वा एकम् अर्थप्रतिपादकं संति (शंसन्ति) । ततः किं जातम् ? इत्याह-न इत्यादि । उक्तपदात् अन्यत् पदं नास्ति । किंभूतम् ? इत्याह-ध्वनिव्यङ्ग्यम् अकारादिप्रकारादिप्रकाश्यम् । पुनरपि
किं भूतम् ? इत्याह-नित्य (त्यम्) इत्यादि । घटाद्यर्थप्रतिपत्त्यन्यथानुपपत्त्या तत्पातत्परि (त्या १५ तत्परि) कल्पनम्', 'सा चोन्त (चान्त्य) पद एव उपयुक्तशक्तिका इति न ततः तत्परिकल्पना इति भावः।
ननु यद्ये कोऽपि [५४५ ख] वर्णः पदं किमर्थमुक्तम्-*"पद (द)समुच्च(द)यः तेषाम्" [सिद्धिवि० ११।१] इति चेत् ; अत्राह-वर्ण इत्यादि। कुतः ? इत्यत्राह-प्रत्येकम् इत्यादि । २० [अ]दर्शनात्' इत्यनेन एतद्दर्शयति प्रति प्रतिपत्तुः कृतसङ्गीतेरकारादिश्रवणाद् वासुदेवादिप्रतिपत्तिरुपलभ्यते, सा अकारादेः, अन्यतो वा संभवन्ती भवेत् ? प्रथमपक्षे सिद्धं वर्णानां वाचकत्वमिति स्फोटोऽनर्थकः । अकारादिरेव स्फोट इति चेत् ; न ; तस्य अणुमयत्वप्रतिपादनात् स्फोटोऽमूर्तो नित्यश्च स्यात् ।
किं च, सोऽभिव्यक्तः, अन्यथा वा तत्प्रतीतिहेतुः ? आद्ये मते कुतः तस्याऽभिव्यक्तिः ? २५ श्रोत्रादेरिति चेत् ; तर्हि घट इत्यत्रापि तत एव तदभिव्यक्तेर्धकारादिकमनर्थकम् । घकारादेः
इति चेत् ; *"इ. कामदेवः" इत्यत्र परस्य ध्वनेः व्यञ्जकस्याभावादनभिव्यक्तिः। अत्र ताल्वादिप्रेरिता वायवो व्यञ्जका नान्यत्र इति किंकृतो विभागः ? अथ अन्यत्र धकारादेर्व्यञ्जकस्य भावात् न ते तद्वयञ्जकाः ; किं तत्र वायवो न विद्यन्ते ? सन्ति तथापि ते घकारादीनां व्यञ्जकाः, घादयश्च स्फोटस्य इति चेत् ; तदितरत्र समानम् । शक्यं हि वक्तुम्वायोः अकाराभिव्यक्तिः, ततः स्फोटस्य इति । तथाऽदर्शनमुभयत्र हेतुः इति सर्वदा ततः तत्प्रतीतिः स्यादविशेषात् । तन्न प्रथमः पक्षः श्रेयान् परस्य । द्वितीयः स्यादिति चेत् ; न ;
(१) अविनाभावित्वात् । (२)नित्यत्वपरिकल्पनम् । (३) घटाद्यर्थप्रतिपत्त्यन्यथानुपपत्तिः । (४) 'प्रति' इति निरर्थकमत्र । (५) गृहीतसङ्केतस्य । (६) अकारो वासुदेवः इति कोशानुसारेण । (७) 'घटः' इत्यत्र ।
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org