________________
१११४] शब्दवरूपनिरूपणम्
.. ७०१ नैवं तथाविधोत्तरक्षणोपादेयम् ; विभ्रमप्राप्तः हेतुफलभावानवस्थितेर्वा' इति । योगाचारदर्शने तत् ग्राह्याकारविवेकम् आत्मनो न पश्यति भ्रान्त्यभावप्रसङ्गात् । भ्रान्तैकान्तेऽपि न विभ्रमम् । अत एव सर्वविकल्पातीततत्त्वे तदतीतत्वम्, स्थूलादिदर्शनादिति ।
___ कारिकां विवृण्वन्नाह-द्रव्यस्य इत्यादि । द्रव्यस्य जीवादेः सदादिरूपेण स्वरूपादिचतुष्टयेन यत्सत्त्वं तदादिर्यस्य पररूपादिचतुष्टयेन असत्त्वादेः तत्तथोक्तम् । तच्च तद्रूपं च ५ तेन भावम(भाव्यम्) अन्यथा तँदव्यवस्थितिः इति दे वा ग मा दे वगन्तव्यम् । येन तद्र पेण प्रत्युत्पादं भिद्यत नाना भवेत् द्रव्यम् । अक्षरादिरेव द्रव्यं प्रत्युत्पादं भिद्यते । [५४४ ख] तदुक्तम्
*"अनादिनिधनं शब्दब्रह्मतत्त्वं यदक्षरम् ।
विवर्त्तते अर्थभावेन प्रक्रिया जगतो यतः ॥" [वाक्यप० १।१] इति चेत् ; अत्राह-अक्षरादिव्यपदेशभाक् । किम् ? इत्याह-पर्यायः पुद्गलादिद्रव्यविकारो न मूलद्रव्यमित्यर्थः । कुतः ? इत्याह-सदसदात्मकत्वात् उपलभ्यमानः पर्यायः सन्, तद्विपरीतः पूर्वोऽपरश्च असन् तौ आत्मानौ यस्य तस्य भावात् तत्त्वात् तस्य द्रव्यस्य इति । न च अक्षरादि तथाविधम् । यदि वा, यदुक्तम्-'द्रव्यस्य सदादिरूपेण भाव्यम्' इति; कुत एतत् ? इत्याह-सदेत्यादि ।
ननु द्रव्यादेकान्तेन उत्पादादयो भिन्नाः; तत्कथं प्रत्युत्पादं तद्भिद्यत ? नहि अन्यस्य भेदे अन्यद्भिद्यते इति चेत् ; अत्राह-भेदैकान्तदर्शनेपि इत्यादि। द्रव्यपर्याययोः भेद एव भेदैकान्तः तस्य दर्शने मते अपिशब्दः भावनायां तद्दर्शनस्य पूर्व निरासात् । किम् ? इत्याह-तद् इत्याह (त्यादि) । तत् प्रत्युत्पादं द्रव्यभेदस्वभावस्य अनिराकृतेः कारणात् 'येन प्रत्युत्पादं भिद्यत' इति सम्बन्धः, द्रव्यस्य स्वभावभेदमन्तरेण भिन्नोत्पादाद्ययोगात् इति प्रत्ययादि[ति] । ततो २० यदुक्तम्-*"शब्दाधारो द्रव्यं विभु द्रव्यत्वे सति अस्मदादिप्रत्यक्षविशेषगुणत्वात् आत्मवत" इति; तन्निरस्तम् ; साध्यदृष्टान्तयोः नित्यत्वैकान्त (न्ताs)सिद्धः। निषिद्धं चात्मनि विभुत्वम् । विभुनोऽप्रत्यक्षस्य गगनस्य अन्यस्य वा गुणश्चेत् शब्दः; न अस्मदादिप्रत्यक्ष इत्युक्तम् । तन्न किंचिदेतत् ।
कथमेकमनेकाकारमिति चेत् ? अत्राह-यथा इत्यादि । [५४५ क] ज्ञानं चित्रपेकं २५ संवेदनं बोधाकारेण सर्वत्र नीलादौ बाह्येऽविशिष्टं तं स्वभावं बिभर्ति येन प्रतिविषयं भिद्यत इति एवं यथा तथा प्रकृतमपि इति । एतत् सौत्रान्तिकं प्रति उक्तम् । योगाचारं प्रत्याह नच इत्यादि । न चायमाकारः स्थूलाकारः अस्य ज्ञानस्य परमार्थतोऽङ्गीक्रियते सौगतेन एकत्र विरुद्धधर्माध्यासभयात् । एवं मन्यते-यदि अयमस्य भ्रान्त आकारः एकस्य विभ्रमेतरात्मता न भवति विषयविवेकादर्शना[द्] दृश्येतररूपता इति नीलाद्याकारैश्चित्रमेकं तदि-३०
(१) प्राप्तः । (२) स्वयमेव पश्यति । (३) सर्वविकल्पातीतत्वं स्वयमेव न पश्यति । (४) द्रव्याव्यवस्थितिः । (५) आप्तमीमांसाग्रन्थात् । (६) अतीतो भविष्यंश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org