________________
७००
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः कारव्यतिरेकेण परस्य अभावात् कस्य वा स्वसंवेदनम् ? न कस्यचित् । स्वसंवेदनधर्मस्य धर्मिनिष्ठत्वात्, अन्यथा खरविषाणं स्वसंवेदनं भवेत् ।। ____ननु नीलादि यथावभासते तत्तथैव स्वसंवेदनम , *"यद् यथैव अवभासते तत्तथैव परमार्थसत्" इत्यादेः *"यदवभासते तज्ज्ञानम्" इत्यादेश (श्च) वचनादिति चेत् ; अत्राह५ यथाप्रतिभासम् इत्यादि । प्रतिभासानुसारेण यथाप्रतिभासमसंभवात तत्त्वस्य किन्तु (किन्नु) तद्वयपदेशभाक् कस्य वा स्वसंवेदनम् ? तदसंभवश्च विचारायोगात् । सकलशून्यता स्यादिति चेत् ; अत्राह-अप्रामाणिक इत्यादि । तथैव स्वयम् आत्मना अभिमतम् एकान्ततत्त्वम् व्यवस्थापयन् न केवलं स्वामेव वृत्तिं चरितं स्ववाचा विडम्बय चेत् सावयति(यति
कुत्सापयति) अपि तु समर्थयति अनेकान्ततत्त्वं तदन्तरेण प्रतिभासाद्वैतादेरप्यसंभवात् । किं१० कुर्वन् स्ववृत्तिं वाचा विडम्बयति ? इत्याह-एकान्त इत्यादि । प्रथमं क्षणिकत्वाद्यकान्तमव
लम्ब्य पुनरपि विचारचंचुर(चारभङ्गुरत्वम)वलम्ब्य पुनरपि विचारत (राने)कान्तदर्शनात् सत्तां विद्यमानतां निवर्तयन् अभ्युपगतत्वं दूषयन्नित्यर्थः । एकान्तदर्शनमाश्रितं तर्हि व्यवस्थापयति इति चेत् ; अत्राह-भाव इत्यादि ।
[भावो येनात्मना सिद्धः कथञ्चित्तेन जायते ।
ज्ञानं येनात्मना सिद्धं यथा तेनावभासते ॥४॥ द्रव्यस्य सदादिरूंपेण भाव्यम् , येन प्रत्युत्पादं भिद्येत । पर्यायः अक्षरादिव्यपदेशभाक् सदसदात्मकत्वात्तस्य । भेदैकान्तदर्शनेऽपि तदनिराकृतेः। यथा चित्रमेकं ज्ञानं बोधाकारेण सर्वत्राविशिष्टं तं स्वभावं बिभर्ति येन प्रतिविषयं भिद्यत इति तथा
प्रकृतमपि । न चायमाकारः विरुद्धधर्माध्यासभयात् परमार्थतोऽङ्गीक्रियते । तदनेकान्ता२० त्मकत्वे परिणामाविरोधात् । भेद''सर्वथा तत्त्वप्रतीतिनान्तरीयकत्वादतत्त्वप्रतिभासज्ञानस्य । यथा"]
भावो जीवादिः येनात्मना सच्चेतनादिस्वभावेन सिद्धः [५४४ क] सर्वदा लब्धात्मलाभः, तेन जायते उत्पत्ति[मान् भवति] उपलक्षणमेतत् , तेन विनश्यति [तिष्ठति च ।
किं सर्वथा[सर्वात्मना ? न, इत्याह-कथंचित् इति । एतदुक्तं भवति-भाव एव उद्यति (उदेति) २५ विनश्यति तिष्ठति नान्ये पर्याया इति । अत्र निदर्शनमाह-'ज्ञानम्' इत्यादि । ज्ञानं स्वसंवेदनं येनात्मना सच्चेतनादिस्वभावेन सर्वत्र साधारणेन सिद्धं ज्ञानं (ज्ञातं) निष्पन्नं वा यथा तेनावभासते प्रतिभासते] 'कथंचित्' इति सम्बन्धः । तथाहि-सौत्रान्तिकमते न तत् क्षणक्षपाव (क्षय्यव) भासते; तदनुमानवैयापत्तेः । नापि स्वकारणात् ; अर्थस्य नीलाकारेणैव
(णेव) जडाकारेणापि; जंडतापत्तेः । नच चित्रज्ञानं बोधा[का]रेणैव, नीलाकारेणापि पीताद्या३० कारे प्रति[भासने] चित्रताहानेः । सुगतज्ञानम् आत्मानं यथास्वम् अतीतपूर्वक्षणोपादेयं पश्यति
(१) स्वसंवेदनविषयम् ।(२) अनेकान्तमन्तरेण । (३) ज्ञाने आकाराधायकत्वे सति । (४) ज्ञानस्य । (५) प्रतिभासते।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org