Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 388
________________ १२३ ] निक्षेपनिरूपणम् ७४१ नामानन्तरं स्थापनाभेदमाहह - स्थापना इत्यादिना । कुतः ? इत्याह- सद्भाव इत्यादि । सद्भावस्थापना(नां) व्याचष्टे तत्र इत्यादिना । किमनया प्रयोजनम् अन्य यात्ति (थाप्ति) तया इति सौगतः ; सोऽयं घोटकारूढोऽपि विस्मृतघोटको जातः । स्वयं बहिरर्थ सदृशे ज्ञाने 'तद्व्यवहारप्रवर्त्तनात् । असद्भावस्थापनामाह - 'अतोऽन्या' इत्यादिना । विकल्पाकारे अर्थसदृशे अर्थव्यवहारं प्रवर्त्तयन् यदि 'मामनर्थिकां ब्रूयात् तथैव परिहर्त्तव्यः । द्रव्यनिक्षेपमाह-द्रव्य इत्यादिना । कः ? इत्याह - [ ५७४ ] विवक्षितश्चासौ असाम्प्रतिकोsarगतः पर्यायविशेषश्च तत्र स्थितिर्यस्य स तथोक्तः । दृश्ये प्राप्यसमापं कुर्वन् प्रत्यक्षमानता । निमित्तं द्रव्यनिक्षेपं कः क्षेप्तुं क्षमते जनः ॥ तद्भेदमाह-आगम इत्यादिना । भावनिक्षेपमाह-तथोपयोग इत्यादिना । तथैव विवक्षितप्रकारेणैव उपयोगो व्यापारः परिणामो लक्षणं यस्य स तथोक्तः 'आगमनोआगमप्रभेद:' इति अनुवर्त्तते भावनिक्षेप इति । किं चत्वार एव भेदा निक्षेपस्य ? न, इत्यादि (त्याह - ) स निक्षेपो व्यासतोऽनन्तविकल्पः प्रतिपत्तव्यः । कुतः ? इत्याह- तद्भेद इत्यादि यतः । एतदपि कुतः ? इत्याह- चेतनेतर इत्यादि । पुनरपि कुतः ? इत्याह-सकल इत्यादि । एतदेव अनन्तरं दर्शयन्नाह - भाव इत्यादि । [tra: पर्यायार्थिकस्य शेषा द्रव्यार्थिकास्त्रयः । प्रस्तुतव्याक्रियार्थः क्रियन्ते [ तत्त्वदर्शिभिः ] ॥३॥ पर्यायमात्र',··· तथा द्रव्यार्थिकस्य प्रत्येतव्यः नाम सर्वथा शुद्धस्य अशुद्धस्य च द्रव्यस्यैवोपलब्धिः |] (१) अर्थ व्यवहार । (२) स्थापनाम् । ( ३ ) प्रत्यक्षप्रमाणता । ( ४ ) “ नामं ठवणा दविए ति एस दव्वद्वियस्स निक्खेवो । भावो उ पज्जवट्ठिअस्स परूवणा एस परमत्थो ॥ " - सन्मति ० १६ । (५) द्रव्यार्थिकः । Jain Education International १० I भावः भावनिक्षेपः [पर्यायार्थिकस्य ] शेषा निक्षेपाः द्रव्यार्थिक (काः) क्रियन्ते । [कति ?] इत्याह- त्रयः । कुतस्तेऽभ्युपगम्यते (न्ते ) ? इत्याह- प्रस्तुत इत्यादि । कारिकां विवृण्वन्नाह-पर्यायमात्रम् इत्यादि । राजपथीकृतमेतदनेकधा । तथा तेन प्रकारेण द्रव्यार्थिकस्य प्रत्येतव्ये (व्यः ) निक्षेपः । कुतः ? इत्याह- नाम इत्यादि । नहि पर्यायमात्रे तत्संभवः । न खलु द्रव्यमस्ति, अनुपलब्धेः खरविषाणवत्, तत्कथं तद्वान् नयः, यस्य २५ नामादिनिक्षेपः स्यादिति चेत्; अत्राह - सर्वथा इत्यादि । सर्वेण प्रत्यक्षानुमानप्रकारेण बहिरन्तःप्रकारेण भ्रान्तेतरप्रत्ययाकारणे (कारण) द्रव्यस्यैव उपलब्धिः । किंभूतस्य ? इत्याहशुद्धस्य निर्विशेषणस्य अशुद्धस्य सविशेषण [स्य ] [ ५७५क] । तदुपलब्धि दर्शयन्नाह - अविकल्प (ल्प्य ) इत्यादि । For Personal & Private Use Only १५ २० www.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456