Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 386
________________ १२।२] निक्षेपनिरूपणम् ७३९ त[ज् ]ज्ञानहेतुः कुतः ? इत्याह-शब्दार्थप्रत्ययाङ्गम् इति शब्दानु (त्) कारणाद् अर्थस्य घटादेहिकः यः प्रत्ययः तस्या निमित्तम् । एतदपि कुतः ? इत्याह-विरचयति यतः । कम् ? भेदम् । कथम् ? यथाशक्ति । केषाम् ? वाच्यानाम् अभिधेयानाम् । क ? वाचकेषु । यत एवं ततः प्रतिपत्तुः पुरुषस्य श्रुतविषयविकल्पोपपब्धेः उपयोगं निक्षेप इति । अस्यानि (अस्मान्नि) बन्धनस्थानादर्थानादाय व्युत्पादयन्नाह-न्यास इत्यादि । [न्यासः समासतो नामस्थापनाद्रव्यभावतः । व्यासतोऽङ्गप्रविष्टाङ्गबहिःश्रुतविकल्पकः ॥२॥ यस्य कस्यचित् अनिर्दिष्टविशेषस्य निमित्तान्तरानपेक्षं संज्ञाकर्म नाम । व्यस्तसमस्तैकानेकजीवाजीवविषयतोपपत्तेः । 'निमित्तान्तरं पुनः जातिः द्रव्यं गुणः क्रिया । १० स्थापना सद्भावासद्भावभेदेन । तत्र । किमनयेति सौगतः, सोऽयं घोटकारूडोऽपि विस्मृतघोटको जातः । अतोऽन्या असद्भावस्थापना। विवक्षितासाम्प्रतिकपर्यायविशेषस्थितिव्यनिक्षेपः। आगम' । तथैवोपयोगपरिणामलक्षणो भावनिक्षेप इति । स व्यासतोऽनन्तविकल्पः तद्भद 'चेतनेतर 'सकल''] ' न्यासो निक्षेपः समासतः संक्षेपेण नामस्थापनाद्रव्यभावतः एतानाश्रित्य भवति १५ (१) निबन्धनस्थानं मूलसूत्रमिति यावत् । (२) "नाम संज्ञाकर्म इत्यनर्थान्तरम्"-तत्त्वार्थाधि० भा० ११५। "अतद्गुणे वस्तुनि संव्यवहाराथं पुरुषकारान्नियुज्यमानं संज्ञाकर्म नाम ।"-स. सि. ११५। त० वा०, त० श्लो० ११५। विशेषा० गा० ६५। जैनतर्कभा० पृ० २५। बृहत्कल्पभा० गा० ११॥ (३) तुलना"किञ्चिद्धि प्रतीतमेकजीवनाम यथा डिस्थ इति, किञ्चिदनेकजीवनाम यथा यूथ इति, किञ्चिदेकाजीवनाम यथा घट इति, किञ्चिदनेकाजीवनाम यथा प्रासाद इति, किञ्चिदेकजीव-एकाजीवनाम यथा प्रतीहार इति, किञ्चिदेकजीवानेकाजीवनाम यथा काहार इति, किञ्चिदेकाजीव-अनेकजीवनाम यथा मन्दुरेति, किञ्चिदनेकजीवाजीवनाम यथा नगरमिति प्रतिविषयमवान्तरभेदाद् बहुधा भिद्यते संव्यवहाराय नाम लोके ।"-त० श्लो० पृ० ९८ । (४) तुलना-"नाम्नो वक्तुरभिप्रायो निमित्तं कथितं समम् । तस्मादन्यत्तु जात्यादि निमित्तान्तरमिष्यते ॥"-त० श्लो० पृ० ९९ । (५) “यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स्थापनाजीवः । देवताप्रतिकृतिवद् इन्द्रो रुद्रः स्कन्द विष्णुरिति ।"-तत्त्वार्थाधि० भा० ११५। "काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना।"-स०सि० ११५। "जं पुण तयत्थसुण्णं तयब्भिपाएण तारिसागारं । कीरह व णिरागारं इत्तरमियरं वसा ठवणा ॥"-विशेषा० गा० २६। “सब्भावमसम्भावे ठवणा पुण इदंकेदुमाईया । इत्तरमणित्तरा या ठवणा णामं तु आवकहं ॥"-बृहत्क० भा० गा० १३ । “सद्भावस्थापनया नियमः, असद्भावेन वाऽतद्पेति स्थूणेन्द्रवत् ।”-नयचक्रवृ० लि. पृ० ३८१॥ जैनतर्कभा० पृ० २५। "आहिदणामगस्स अण्णस्स सोयमिदि वणं ठवणा णाम । सा दुविहा सब्भावासब्भावढवणा चेदि । तत्थ आगारवंतए वत्थुम्मि सब्भावढवणा तविवरीया असब्भावढवणा ।"-धवलाटी. सत्प्ररू० । त० श्लो० पृ० १११। (६) "अनागतपरिणामविशेष प्रति गृहीताभिमुख्यं द्रव्यम्, अतद्भवं वो।"-त. बा० १।५। त० श्लो० पृ० १११ । बृहत्क० भा० गा० १४ । विशेषा० गा० २८। जैनतर्कभा० पृ. २५ । आ.नि. मलय० पृ० ६ । (७) “वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ।"-स० सि०, त० वा० ११५ । त० श्लो. पृ० ११३ । बृहत्क० भा० गा० १५ । आ० नि० मलय० पृ०९। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456