Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 377
________________ ७३० सिद्धिविनिश्चयटीकायाम् [ ११ शब्दनयसिद्धिः तथा प्रत्यक्षार्थः तद्देशे नास्ति । नहि प्रत्यक्षपरिच्छेद्याः अर्थाः सर्वे तदाधारे आत्मनि व्यवस्थिताः । अतदेशाः परिच्छिद्यन्ते नातत्काला इति किंकृतो विभागः ? भाविनोऽपि स्वकालसत्ताऽनिषेधः, अन्यथा वर्त्तमानो भवेत् । सोऽपि किंचिदपेक्ष्य भावीति । ननु किमुच्यते - 'नान्तरमुच्यते ' - 'नान्तरमुत्प्रेक्षामहे' इति ? यावता विशदेतरताकृतं तदस्ति इति चेत्; अत्राह - प्रतिभासभेद ५ इत्यादि । १० स्यान्मत्रम् - शब्दज्ञानस्य नाविशदत्वात् निर्विषयत्वमुच्यते, किन्तु तद्ग्राह्यसामान्यस्य अवस्तुत्वात्, तदप्यसदर्थप्रत्ययत्वादिति ; तत्राह - स्वकारण इत्यादि । प्रमाणाविसंवादकत्वं यथातत्त्वं युक्तम्, प्रतिपत्रभिप्रायाणामप्रतिष्ठानात् । तदनुकरणे स्वमतन्याघातात् । धर्म तत्त्वतः । परम्परयाः नचानर्थविषयैर्विकल्पैः तत्त्वव्यवस्थापनम् । केषांचिन्मिथ्यात्वेऽपि कथञ्चित् केनचित् तत्वव्यवसाय इत्यपि मिथ्या विकल्पात् कुतस्तत्त्वप्रतिपत्तिः १ यतः स्वलक्षणव्यवस्थाऽविसंवादः । तन्न' 'विप्रतिपत्तेः । नापि विकल्पकम्, परमार्थतः अतद्विषयत्वात् । तत एवाविकैल्पज्ञानं न व्याख्यात्रभि१५ प्रायेणापि अविसंवादकम् । बहिः यथा ] २० [स्वकारणस्वलक्षणस्याप्यन्तर्बहिर्विकल्प्यवत् । परमार्थाविसंवादि न प्रत्यक्षं न लैङ्गिकम् ॥२४॥ स्वकारणं तत्स्वलक्षणं च इति तस्यापि विकल्प (ल्प्य ) वत् सामान्यवत् असदर्थप्रत्ययविषयत्वमवगन्तव्यम् । तदाह - परमार्थ इत्यादिना । परमार्थः क्षणिकनिरंशपरमाणुरूपः तदविसंवादि न प्रत्यक्षम् उक्तन्यायात्, अत एव न लैङ्गिकम् । कुतः ? इत्याह-अन्तर्बहिः इत्यादि । कारिकार्थमाह - प्रमाण इत्यादिना । तदविसंवादकत्वं [ यथातत्त्वं ] तत्त्वानतिक्रमेण युक्तम् उपपन्नम् । प्रतिपत्रभिप्रायादिति चेत्; अत्राह - प्रतिपत्रभिप्रायाणामप्रतिष्ठानात् तथा ( यथा तवं युक्तमिति [ ५६८ ख] तदनुकरण (णे) प्रतिपत्रभिप्रायानुकरणेन स्वमतव्याघातात् । तदाह-धर्म इत्यादिना । अस्तु यथातत्त्वं तदिति चेत्; अत्राह-तत्त्वत इत्यादि । नन्वविकल्पाद् विकल्पवासनाप्रबोधः, ततो विकल्पः तस्मात् तत्त्वव्यवस्था इति, अतो २५ विकल्पात् सेति चेत्; अत्राह - परम्परया इत्यादि । भवतु तत् तेषामेव इति चेत्; अत्राहन चानर्थविषयैर्विकल्पैः तत्त्वव्यवस्थापनम् । तेभ्योऽपि परम्परया वस्तुप्रतिबद्धेभ्यस्तद्व्यवस्थापनमिति चेत्; अत्राह - मिथ्यात्वेऽपि इत्यादि । मिथ्यात्वेऽपि केषांचित् विकल्पानां तत्त्वव्यवसायः कथंचित् केनचित् परम्पराप्रतिबन्धप्रकारेण इत्यपि एवमपि मिथ्या, विकल्पात् कुतः तत्त्वप्रतिपत्तिः ग्रतो यस्याः तत्त्वप्रतिपत्तेः अनुमानभ्रान्तेः सकाशात् ३० स्वलक्षणव्यवस्थाऽविसंवादः | 'यतः' इति चाक्षेपे, नैव स्यात् । एवं मन्यते - विकल्पस्य कस्य (१) 'नान्तरमुच्यते ' इति पुनर्लिखितम् । (२) अन्तरम् । (३) प्रतिभासभेदस्य वस्तुभेदकत्वाभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456