Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 376
________________ ११॥२३] न सारूप्यादिवशादर्थग्रहणम् ७२९ भवतो भवेत् ? यदि मतम्, आद्यं नीलज्ञानं पूर्वनीलज्ञानमन्तरेण जातं तन्न तस्य नीलता पूर्वज्ञाननीलताकृता, तथा अन्यत्रापि इति ; तन्न सारम् ; यतः यथासंभवं हेतुफलभावात् । ततः स्थितम्-तजन्मसारूप्यलक्षणं व्यभिचरतीति । तदव्य (तदध्य)वसायसहितं न तथा इति चेत् ; अत्राह-तदध्यवसायहेतुत्वं च तस्य अर्थाकारज्ञानस्य व्यवसायकारणत्वं च व्यभिचरति । कुतः ? इत्याह-क्वचिद् इत्यादि । [५६७ख] नन्वेवंबहिरर्थस्य अग्रहणमेव प्रकारान्तरासंभवादिति पायसे घृतप्लवः सौगतजनस्य इति चेत् ; अत्राह-प्रत्यर्थनियता इत्यादि । [प्रत्यर्थनियता बुद्धिः प्रत्यर्थविषया सती। तजन्म[सारूप्यतदध्यवसायेषु सत्स्वपि] ॥२३॥ · तथा च समानेऽपि अर्थग्रहणे अकारणं चार्थ विषयीकुर्वतो न कश्चिद् व्याघातः । १० संवादस्य 'प्रत्यक्षस्यापि व्यतीतस्य अप्रतिभासनात् । अनागतार्थस्य संप्रत्यभावेऽपि विषयतोपपत्तेः अविसंवादः व्यवहारात् । अक्षशब्दज्ञानयोः स्वार्थप्रतिपत्ति प्रति नान्तरमुत्प्रेक्षामहे । प्रतिभासभेदस्य वस्तुभेदकत्वाभावात् ।] ___ प्रत्यर्थनियता बुद्धिः। किंभूता ? इत्याह-प्रत्यर्थ इत्यादि । केषु सत्स्वपि ? इत्याह-तजन्म इत्यादि । ___ कारिकार्थं दर्शयति-'समानेऽपि' इत्यादिना । तथा च तेन प्रकारेण अर्थग्रहणे सति अर्थग्रहणेऽकारणं च अर्थ विषयीकुर्वतः संवेदनस्य न कश्चित् प्रत्यक्षादिबाधलक्षणो व्याघातः। संवादो न स्यादिति चेत् ; अत्राह-संवादस्य इत्यादि । प्रतिपादितमेतत् । तथापि स्वकारण एवाऽविसंवाद इति चेत् ; अत्राह-प्रत्यक्षस्यापि इत्यादि । व्यतीतस्य ज्ञानात्मनि अप्रतिभासनात् सारूप्यनिषेधात् भाविकारणनिराकरणादिति भावः ।। ननु भविष्यदर्थविषया बुद्धिनिर्विषया, तत्काले तदर्थस्यासंभवेन तत्राप्रतिभासनात् , तदस्याः कथमविसंवाद इति चेत् ? अत्राह-अनागतस्य इत्यादि । अनागतस्य अर्थस्य मरणादेः संप्रति अरिष्टादिकाले अभावेऽपि विषयतोपपत्तेः अरिष्टलिङ्गजनितबुद्धिगोचरतोपपत्तेः अविसंवादः । कुतः ? इत्याह-व्यवहार इत्यादि । ननु भावी चेत् मरणादिः कथं प्राक्प्रतिभासगोचरः ? प्रागनुत्पन्नः ‘भावी' इत्युच्यते, २५ अनुत्पन्नश्च खरविषाणवत् न तद्गोचरः, इतरथा [५६८क] न भावी, वर्तमानघटादिवत्, ततो भविष्यदर्थबुद्धिनिर्विषया इति चेत् ; अत्राह-अक्ष इत्यादि । अक्षशब्दयोः कार्यभूते वस्तुज्ञाने, शब्दज्ञानग्रहणम् उपलक्षणम् तेन अनागतविषयम् अविशदं सर्व विज्ञानं गृह्यते । तयोः स्वार्थप्रतिपत्तिं प्रति नान्तरं भेदमुत्प्रेक्षामहे । एवं मन्यते-यथा भविष्यदर्थः तबुद्धिकाले नास्ति, (१) अनुकूलविकल्पोत्पादः तदध्यवसायः । (२) व्यभिचारतीति । (३) शुक्ले शङ्ख पीतकारज्ञानादुत्पन्नेन समनन्तरज्ञानेन व्यभिचारीति । (४) भविष्यदर्थस्य । २० ९२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456