________________
६९४
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
1
दर्शनेन स मर्दितः स्यात्, अतिप्रसङ्गश्चैवम् । सर्वस्यापि ब्राह्मणकृतस्य नास्तिकादिशास्त्रस्य तदङ्गताप्राप्तेः, तथा च[त] दर्थानुष्ठानम् । अथ ब्राह्मणोऽसौ न भवति; कुत एतत् ? अप्रमाणार्थाभिधानात् शब्दसाधुवे किं प्रमाणं येन तदनुवादकरणात् पाणिनिः ब्राह्मणः स्यात् । श (शा) स्त्र मिति चेत्; अन्यत्र समानम्, अन्यस्यापि वेदाङ्गत्वप्रतिपादनात् । धर्महेतुतत्साधुत्व५ कथनात् स ब्राह्मण इति चेत्; न; अत्रापि प्रमाणाभावात् । अथ वैदिकशब्दानुशासनात् ब्राह्मणोऽसौ; अन्योऽपि वैदिकमात्रिक विवाहाद्यर्थानुशासनाद् ब्राह्मणोऽस्तु । वेदे सोऽर्थो नास्तीति चेत्; न; तच्छास्त्रस्य वेदाङ्गत्वात् । पुरुषकृतस्य कथं तदिति चेत्; न तर्हि पा णि ने स्तदङ्गता । पाणि निना तत्स्मृतमिति चेत्; प्रकृतेऽपि समानमेतत् ।
किंच, जैनेन्द्रं पूं ज्य पा दे न तीर्थङ्करादधीतं पुनर्विस्मृतं स्मृतमिति किन्नेष्यते ?
१०
स्यान्मतम् - पाणिनि मतानुसरणं तत्र श्रूयते, दृश्यते चे; तत्रापि परमतानुसरणं श्रूयते दृश्यते च इति समानं परस्यापि परानुसरणम् । यथा च इदानीम् अन्यमतानुसरणात् केषांचिद् व्याकरणं तथा द्विजानामपि पुरा परमतानुसरणात् तत्करणे को विरोधः ? तन्न तो व्याकरणस्य तदङ्गता ।
अथ वेदार्थप्रत्यायना [[ ] तदङ्गता ; न; तत्र शब्दाः केवलं व्युत्पाद्यन्ते, तंत्र ते १५ व्युत्पादिताः तदर्थवद् अन्यमपि सङ्क ेतात् कथयन्ति । यथा च [ ५३९क] कचित् सामान्यलक्षणा(ण) परिगृहीता वैदिकाः शब्दा व्युत्पाद्यन्ते तथा अन्यत्र अन्य इति समानम् । यदि मतम् - वेदोक्तशब्दाश्रयणात् तदिति तत्तदङ्गमिति ; तदास्तां तावत् । तन्न तद्नादि इतरशास्त्रवत् ।
किं कृत्वा प्रोक्तम् ? इत्याह-उद्दिश्य अवलम्ब्य । कानि ? अक्षरपदानि "अवीकोयन्नि” (“अचीको यण्")[जैनेन्द्र० ४।३।६५ ] इत्यादावक्षराणि * “सुम्मिङन्तं पदम् " [जैने२० न्द्र० १।२।१०३] इत्यादौ पदानि " ननु धुयोगे" ("धुयोगे त्या ") [जैनेन्द्र० २।४।१] इत्यादौ वाक्यान्यपि उद्दिश्य तत्प्रोक्तम् तत्कथमिह तदग्र [ह]णमिति चेत् ? न ; तदुपलक्षणत्वाद् अस्य । द्वैयोज (योरु) पादानमनर्थकम् एकेन उपलक्षणादिति चेत्; न; मीमांसकं प्रति दृष्टान्तार्थ - त्वात् पदोपादानस्य । तथाहि - र - यथा 'गौः इत्यत्र न गकारादिव्यतिरेकेण पदम्, “अथ गौः इत्यत्र कः शब्दः ? गकारौकारविसर्जनीयाः इति भगवानुपवर्ष: ।" [शावरभा० १|१|५ ] २५ इति वचनात्, तथा नाक्षरं तदवयवव्यतिरेकेण । सावयव (वं) चाक्षरं यद्वक्ष्यति 'अणुमयम्' इति तन्मयस्य घटादिवत् सावयवत्वात् । तथापि अक्षरभाववत् तदभावोऽपि इति तत्र किम् ? इत्याह-तत्र इत्यादि । अनेन शब्दनिरूपणे स्वातन्त्र्यमात्मनो निराकरोति । तत्र व्याकरणे, 'तेषु वा मध्ये ' इत्येके", अक्षरं वर्णजात्यपेक्षम् एकवचनम् । किम् ? इत्याह- द्रव्यात्म द्रव्यस्वभावम् । पुनरपि किंभूत (तम् ) इत्याह- अणुमयम् भाषापरमाणुविकाररूपम् ।
I
३०
ननु परमाणुविकारस्य घटादिवद् द्रव्यात्मकत्वाव्यभिचारात् किं द्रव्यात्मपदेन इति चेत्; न ; एकान्ताभावात् । तद्विकारो हि कश्चिद् गुणः श्यामत्वरक्तत्वादिवत्, अपर: कर्म गमनादिवत्,
(१) देवनन्दिना आचार्येण । (२) इति चेत्; । (३) वेदाङ्गता । ( ४ ) व्याकरणे । ( ५ ) अक्षरपदयोः । (६) अणुमयस्य । (७) व्याख्याकाराः । (८) परमाणुविकारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org