________________
शब्दस्वरूपनिरूपणम्
६९५
१११]
अन्यो द्रव्यं कुम्भादिवत्, तत इतरव्यवच्छेदेनास्य [ ५३९ख] प्रतिपादनार्थं द्रव्यात्मग्रहणम् । तदपि किमर्थमिति चेत् ? उच्यते - " गुणः शब्दः निषिध्यमानद्रव्य [कर्म ]भावत्वे सति सत्तासम्बन्धित्वात् रूपादिवत्" इत्यत्र असिद्धताप्रतिपादनार्थं हेतोः तत् । तथाहि - शब्दे निषिद्ध्यमानकर्मभावत्वे सत्यपि द्रव्यत्वनिषेधाभावात्, प्रमाणबाधनात् । किं तत् प्रमाणमिति चेत् ? केध्यते - द्रव्यमक्षरं क्रियावत्त्वात् लोष्टवत् । क्रियावतो हि परेणापि द्रव्यत्वमिष्यते -* " क्रिया- ५ वद्गुणवत्समवायिकारणं द्रव्यम्" [वैशे० सू० १|१|१५] इत्यभिधानात् । न च क्रियावत्त्वं तत्राऽसिद्धम् ; अक्षरं क्रियावत् क्रमेण देशाद्देशान्तरप्राप्तिमत्त्वात् वाणवत् । परेणापि तथा वक्तृमुखदेशात् श्रोतृश्रवणदेशप्राप्तस्य ग्रहणोपगमात् * " चक्षुः श्रोत्रमनसाम् अप्राप्तकारित्वम्" इति वचनात् ।
उत्पत्तिदेश एव गृह्यते इत्येकें; तेषाम् अनुवातप्रतिवाताभ्यां तद्ग्रहणाग्रहणे न स्याताम् १० स्तम्भवत् । नहि स्तम्भः स्वदेशस्थो गृह्यमाणः अनुवाते गृह्यते न प्रतिवात इति दृष्टम् । अथ प्रतिवातेन प्रतिघातः श्रोत्रस्य विधीयते ; ननु प्राप्तः सः प्रतिघातकारी नान्यथा, अतिप्रसङ्गात् । ततः शब्ददेशाद् यदा श्रोतृदेशं याति वायुः तदा शब्दग्रहणं भवेत् । तस्य तेन प्रतिघातान्नेति चेत्; न; अन्यत्र तथा [s] दर्शनात् । एतत्त (तु) स्यात्, प्रतिवायुना श्रवणप्रतिकूल देशोपनीतो नोपलभ्यते तूलादिवदिति योग्यतावदिति ( ग्यसामग्री) विरहात् प्रतिवचने अग्रहणो ( प्रतिवाते १५ अग्रहणम् अ) योग्यत्वात्, अन्यथा समे अनुकूले वा मरुति ग्रहणं न स्यात् । सैव सामग्रीति [५४०क] चेत्; निर्वाते न ग्रहो भवेत् । अत्रापि सैव सामग्रीति चेत्; स्या[द्य]दि वाताभावः पदार्थान्तरं भवेत् । शब्दरूपमेव इति चेत्; तत् प्रतिकूलेऽपि अनिले अविकलम् । 'तेन तस्य ग्राह्यता शक्तिः प्रतिहता' इत्यपि नोत्तरम् ; तत्रस्थस्यैव तच्छक्तिः प्रतिहता, उत देशान्तरं नीत इति [r] निश्चयहेतुरस्ति । वयं तु ब्रूमः ' देशान्तरं नीतः ' तंत्रस्थैः श्रवणात् । नच क्षणिकवादिनो २० गन्धादिवद् भिन्नदेशोत्पत्तिः शब्दे विरुद्ध्यते । तथापि न श्रोत्रप्रदेशं प्रति तंदुत्पत्तिरिति चेत् ; तद्भावेऽपि न किंचिद् विरुद्ध्यते । 'दूरे शब्द:' इति प्रतीतिर्विरुध्यते इति चेत्; तत्र [ तन्न ; ] गन्धेऽपि तत्प्रतीतिभावात् । ततोऽक्षर (रं) क्रियावदेव । आह - अनुपवनं गत्यापीति पवनेन सह अनुपवनं शब्दस्य या गतिः तया तद्द्रव्यात्मा अपिशब्दः उक्तहेतुसमुच्चये, तेन " स्पर्शसंख्यात्वेन इत्यादि ग्राह्यम् ।
ε
ननु गन्धस्य अनुवचनं ( अनुपवनं ) गतिरस्ति तथापि न द्रव्यम् अतो व्यभिचार इति ; न; पक्षीकरणात् । गन्धवद् द्रव्यम् अनुपवनं गतिमत् न गन्धः, तथापि उपचारेण "सोऽपि
(१) अनुमाने । (२) बौद्धः प्राह । ( ३ ) " अप्राप्तान्यक्षिमनः श्रोत्राणि " - अभि० को० ११४३ । "चक्षुः श्रोत्रमनोऽप्राप्तविषयमुपात्तानुपात्तमहा हेतुः शब्द इति सिद्धान्तात् । " - तत्त्वसं० प० पृ० ६०३ । 'उद्घृतमिदम्-न्यायकुमु० पृ० ८३ | सन्मति० टी० पृ० ५४५ । स्या० रत्ना० पृ० ३३३ । ( ४ ) बौद्धाः । (५) प्रतिवातः । (६) अथवा । ( ७ ) इति । (८) देशान्तरस्थैः । (९) शब्दोत्पत्तिः । (१०) स्पर्शवस्वात्, संख्यात्वात् संयोगवस्वात् इत्यादि ग्राह्यम् । (११) गन्धोऽपि ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org