________________
६९६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः तद्वान् व्यपदिश्यते यथा तथा अक्षरमिति चेत् ; किं पुनः गन्धाधारस्य द्रव्यस्येव शब्दाधारस्य गतिरस्ति येनैवम् ? नो चेत् ; कथम् उपचारकल्पना ? अथ वायुगतेः अक्षरे अध्यारोपात् तद्वत्'; तथा गमनमपि भवेत् ।
स्यान्मतम् , गगने तध्यारोपनिमित्तं नास्ति; किं पुनरक्षरे अस्ति ? तत्साहचर्यमिति ५ चेत् ; न ; निष्क्रियस्य तस्य कीदृश्यं वायुना साहचर्यम् ? न हि घोटकारूढराजवत् वाय्वारूढस्य देशान्तरे प्राप्तिरस्ति । भावे वा शब्दे [५४०ख संयोगवृत्तिः ।
अथ मतम् , यं देशमुपसर्पति वायुः तत्र देशे समवायिकारणाद् आकाशाद् असमवायिकारणात् पूर्वशब्दाद् विनस्यत्ताव (विनश्यतस्ताव-) तोऽपरापरशब्दभावात् साहचर्यमिति';
पांश्वादिवत् तस्यैवं गतिपरिणाम को दोषः ? क्षणिकत्वान्न तत्परिणामः ; कुतः क्षणिकत्व१० मुच्यते ? 'क्षणिकः शब्दः अस्मदादिप्रत्यक्षत्वे सति विभुद्रव्यविशेषगुणत्वात् सुखादिवत्' इति
चेत् ; न ; वक्ष्यमाणगुणो (माणो)त्तरत्वात् । यद्वक्ष्यति नित्यं जन्मपरिग्रहात् इति । चर्चितं चैतदस्माभिः द्रव्यसिद्धिप्रकरणे । ततः स्थितम्-अक्षरं द्रव्यात्मा अनुपवनं गत्यापि लोष्टवदिति।
स्यान्मतम्-द्रव्यात्मत्वेऽपि नानुपवनं गतिः, सर्वगताऽमूर्तत्वात् आकाशवदिति चेत् ; १५ अत्राह-अणुमयम् इति । अणवो भाषापरमाणवः तद्विकारः तन्मयम् ततोऽसिद्धो हेतुः
'सर्वगतामूर्त्तत्वात्' इति । नहि तद्विकारस्य तत्त्वम् ; विरोधात् । तन्मयं कुत इति चेत् ? आह-मूर्त (त) रूपरसगन्धस्पर्शवन्मूर्त पूर्वाचारभ्युपगतं यतः। तथाहि-अक्षरमणुमयं मूर्तत्वात् पटादिवत् । मूर्त्तत्वं च *"शब्दः पुद्गलपर्यायः" [सिद्धिवि० ७।२] इत्य
त्रावसरे प्रतिपादितम् नेह पुनरुच्यते । यदि वा, द्रव्यस्वभावमपि मीमांसककल्पितं न(तत्) २० स्यात् ; इत्यत्राह-अणुमयं । तदपि कुतः ? इत्याह-मूर्त यतः । एतदपि केन ? इत्याह
अनुपवनं गत्यापि मतं न केवलं शरीरावयवविशेषस्प (स्पृ)ष्टादिनैव इति . अपिशब्दः
तथाहि-अनुपवनं गत्या तस्य तृणादिवत्तेन संयोगविशेषोऽनुमीयते [५४१क] तदभावे तद• भावात् । ततश्च स्पर्शविशेषः, तस्माच्च रूपादिः इति ।
परः प्राह-ताल्वादिसंयोगविभागजाः शब्दाभिव्यक्ति हेतवः पवनेन वायवः प्रेर्यन्ते, २५ तैस्तु यथावस्थितमक्षरं व्यज्यते, अतोऽनुपवनं गतिरस्य असिद्धा इति; तन्न; नित्यस्य व्यक्तिनिषेधात् । भवतु अक्षरं "तन्मयम्, तदभिव्यङ्गय पदं नित्य मूर्तत्वं (त्यममूर्त) स्यादिति चेत् ; अत्राह-पद(पद)समुदयः तेषामक्षराणां तद्व्यतिरेकेण तदनुपलब्धेः इति भावः । ततः किम् ? इत्याह-मतम् अभ्युपगतम् कृत्रिमं कृतकपदम् । नहि कृतकसमुदायोऽन्यथा"; अतिप्रसङ्गात् । क्षणिकत्वात्तस्य, नानुपचारादिति" वैशेषिकादिः ; तं प्रत्याह-नित्यम्
(१) अक्षरं गतिमत् भाति । (२) वायुगत्यध्यारोपात् क्रियावत् भवेत् । (३) शब्दस्य । (४) संयोगसम्बन्धस्वीकारे सुतरां द्रव्यत्वोपपत्तिः। (५) इति चेत्;। (६) शब्दस्यैव । (७) इति चेत् ; । (6) विकारार्थे मयट् । (९) अपिशब्दार्थः। (१०) अणुमयम् । (११) नित्यः । (१२) किन्तु उपचारादेव इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org