________________
११।१ ] शब्दस्वरूपनिरूपणम्
६९७ इत्यादि । नित्यं ध्रुवम् कथंचिदक्षरम् । कुतः ? इत्याह-जन्मपरिग्रहात् । ननु विरुद्धोऽयं हेतुः ; प्रागसतः पुनरात्मपरिग्रहलक्षणत्वात् जन्मनः, नित्ये च कालत्रया [नुया]यिनि तन्न संभवति इति चेत् ; अत्राह-असदनुत्पत्त(त्या) इत्यादि । [न] सतो विद्यमानस्य आत्मलाभः । कया ? इत्याह-असतः खरविषाणसमानस्य अनुत्पत्त्या । तस्य कुतश्चिदात्मलाभो विरुद्ध्यते इति चेत् ; अत्राह-जन्म इत्यादि । जन्मन्येव अनन्तविवर्ताः परिणामाः ५ तद्वतः, एकान्तेन सतः आत्मलाभ (भो) विरुद्धो न परिणामिन इति भावः । सप्रपञ्च तन्नित्यत्वं साधयन्नाह-नित्यम इत्यादि। परिणामनित्यम क्षरम् । कुतः ? उत्पत्तेः। विरुद्धो हेतुः इति चेत् ; अत्राह-लभेत इत्यादि । कुत एतदपि ? इत्याह-जात इत्यादि । सुगमम् ।।
विरुद्धतां परिहरन् कारिकार्थमाह-नित्यस्य इत्यादिना । सर्वथा असत उत्पत्ती को दोष इति चेत् ? अत्राह-सर्वथैव इत्यादि । [५४१ख] स्यान्मतम्, अक्षरा (रस्य आ)काशादिकं १० कारणमस्ति तेन उत्पद्यते, न तु खरशृङ्गादि विपर्ययादिति चेत् ; अत्राह-तदभावैकान्तो (न्ताs)विशेष इत्यादि । तयोः अक्षरादिखरविषाणयोः अभावैकान्ताविशेषे सति अक्षरादेः कारणमस्ति न इतरस्य खरशृङ्गस्य इत्येवं किंकृतमेतत् ।
ननु खरशृङ्गमकारणम् अनुत्पत्तेः नाक्षरादिः विपर्ययादिति चेत् ; अत्राह-पुनः इत्यादि। अयम् अभिप्रायः, खरविषाणामकारणम् इति साध्यम्, अनुत्पत्तेरिति हेतुः, तेन च सिद्धेन १५ भाव्यमिति, तस्य कुतः सिद्धिः ? असत्त्वादिति चेत् ; उच्यते-पुनः इति वितर्के, खरशृङ्गस्य यथानुत्पत्तेः सकाशादसत्त्वं सिद्ध्यति असत्त्वाच अनुत्पत्तिः इति एवमन्योऽन्यसंश्रयदूषणं तथा तेन प्रकारस्य (रेण) अकारणत्वादनुत्पत्तिः अनुत्पत्तेरकारणत्वम् इत्येवं समानम् अन्योऽन्यसंश्रयदा (यापादनम्) ।
परो यात् न असत्त्वात् तदनुत्पत्तिः साध्यते यतोऽयं दोषः, अपि तु कारणाभावादिति, २० तदा इदं वक्तव्यम् इत्यभिप्रायः । तदेवमनुत्पत्तेरसिद्धः अकार (रादि) विशेषणमनुत्पत्तिः इत्यसमञ्जसम् ।
ननु सर्वगमिदं चोद्यम् । तथाहि-जीवः पुद्गलादुपादानकारणात् कुतो न भवति ? तस्य तदकारणत्वादिति चेत् ; एतदपि कुतः ? ततोऽनुत्पत्तेः इति चेत् ; सापि कुतः १ तदाकारणत्वात्' ; पूर्ववदन्योऽन्यसंश्रयः । तत्र तस्य असत्त्वादनुत्पत्तिः इति चेत् ; असत्त्वं कुतः ? २५ अनुत्पत्तश्चेत् ; स एव प्रसङ्गः । एवं सर्वत्र कत्तव्यम् (वक्तव्यम्) । अथ जीवस्य दृश्यसतः पुद्गलोपादेयतया [५४२क] अदर्शनात् तत्रासत्त्वम् अतश्च ततस्तदनुपपत्तिः अस्यास्तत्तदकारणम् इत्यन्योऽन्यसंश्रयाभावः, एवमन्यत्रापि तदभावः स्यादिति चेत् ; सत्यं स्यात्, किन्तु प्रतीतिरनुसृता स्यात् , न विचारमात्रम् । तथा सति मृत्पिण्डात् घटादिकं तत्र मृद्र्व्यादिरूपेण सदेवं(सदेव) जायते तथाप्रतीतेः, न खरविषाणं विपर्ययात् । यद्वक्ष्यति-*"बहिरन्तश्च" ३० [सिद्धिवि० ११।३] इत्यादि । परमतमाशङ्कते स्वसादित्यादि] भावस्य कार्यपदार्थस्य
(१) इति चेत् । (२) जीवो न पुद्गलकारणकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org