________________
६९८
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
जन्म उत्पत्तिः व्याहतम् । कुतः ? इत्याह- स्वस्माद् आत्मनः सकाशात्, आत्मनि क्रियाविरोधात् इत्येवं चेत् ; एतद् दूषयन्नाह - कथम् इत्यादि । सति कारणे तस्य जन्म इत्यदोष इति चेत् ; अत्राह-असतीत्याद्य[यम]भिप्रायः - पूर्वमुत्पद्य 'कार्य' कार्यकालं गत्वा तत्करणे क्षणिकत्वम् ? कार्येण सह कारणोत्पत्तौ सन्तानोच्छेदः इति विरोधः ।
५
पुनरपि 'यदि' इत्यादिना पराभिप्रायमाशङ्कते, 'कथम्' इत्यादि अत्र दूषणम् । मायासुतः माया नाम सुगतस्य जननी तस्याः पुत्रः पूर्वं संसारी पुनः पश्चात् तत्त्वाभ्यासाद् बुद्धो विधूतकल्पनाजालपर्यायस्वभावो जातः । एतदपि नेष्यते इति चेत्; अत्राह - कथंचित् सच्चेतनादिरूपेण सन्नेव सुगतत्वम् अपुनरावृत्त्यादिधर्मकत्वं प्राप्नोति इति समञ्जसम् वन्ध्यासुतवत् । ननु न मायासुतः सुगतो भवति " गन्ता नास्ति शिवाय चास्ति गमनम् " इति वचनात्, १० अपि तु तद (तदु) पादानादन्य एव सुगतो भवतीति चेत्; अत्राह - नापि इत्यादि । मायासुतात् कारणभूता [दन्यः ] बुद्धो जातः संभाव्यते नापि यतः संभावनात् [ ५४२ख] परस्मादेव वस्त्वन्तरादेव जन्म स्याद् बुद्धस्य । कुतो न संभाव्य इति चेत् ? तत्त्वाभ्यास तत्फलयोः भिन्नाधिकरणत्वप्रसङ्गात् ।
परस्य मतमाशङ्कते - सन्तान इत्यादि । मायासुत सुगतत्वयोः सन्तानापेक्षया एकत्वेऽपि १५ वस्त्वपेक्षया मायासुतसुगतस्वलक्षणापेक्षया ना (नाना ) त्वमिति चेत् ; अत्राह - पिता इत्यादि । हेतुफललक्षणप्रबन्धः सन्तानः पितापुत्रयोरप्यस्तीति भावः ।
स्यान्मतम्-हेतुफललक्षणप्रबन्धविशेषः स तयोर्नास्ति इति भिन्नसन्तानत्वमिति चेत् ; अत्राह -तत्र इत्यादि । तयोः पितापुत्रयोः सन्ताननानात्वं नेतरत्र इतरयोः मायासुत सुगतयोर्न सन्ताननानात्वं तत्र तदेकत्वम् इत्यर्थः इत्येवं मते नापरं कारणमुत्प्रेक्षामहे । कुतो ना - २० परम् ? इत्याह-द्रव्य इत्यादि । यत्र ( अन्यत्र ) द्रव्यभेदस्तु ( भेदात् ) । [ यत्र द्रव्यभेदः ] तत्र सन्तानस्य नानात्वं यत्र तदभेदः तत्र एकत्वम्, अन्यथा हेतुफलभावविशेषोऽपि दुर्लभ इति निरूपितम् ।
पुनरपि परमतमाशङ्कते - कथं पुनः इत्यादि ; तत्रोत्तरम् - उक्त पत्र इत्यादि । तदेव दर्शयन्नाह - स्थूल इत्यादि ।
२५
[स्थूलमेकं सकृत्तत्त्वं बाह्य जायेत घटादि चेत् । क्रमेणान्तर्विद्विर्तेत वेद्यवेदकलक्षणम् ॥२॥
..
एकस्य ]
बाह्य घटादि तत्त्वं चेत् यदि । किंभूतम् ? इत्याह-स्थूल इत्यादि । विद्वेद्यवेदकलक्षणं चान्तः तत्त्वमिति गम्यते, सकृदेकदा जायेत तर्हि क्रमेण एकं तत्त्वं विवर्त्तेत
३० इत्युक्तम् ।
(१) 'कार्य' इति व्यर्थमत्र । (२) पितापुत्रयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org