________________
[एकादशमः प्रस्तावः]
[११ शब्दनयसिद्धिः] शेषास्तुय (षाः त्रयः) शब्दनया इत्युक्तम्', तत्र शेषा व्याख्यातुं तन्निबन्धनभूतं शब्द निरूपयन्नाह-प्रोक्त इत्यादि ।
[प्रोक्त व्याकरणे पुराऽक्षरपदान्युद्दिश्य तत्राक्षरम् , द्रव्यात्माणुमयं मतोऽनुपवनं गत्यापि मूर्तं यतः। जन्मानन्तविवर्तिनः समुदयः तेषां पदं कृत्रिमम् ,
नित्यं जन्मपरिग्रहादसदनुत्पत्त्या लभेत आतताम् ॥१॥ नित्यस्य सर्वथैव [सतः उत्पत्ययोगात्] तदभावैकान्ताविशेषे अक्षरादेः कारणमस्ति नेतरस्येति किंकृतमेतत् १ खरशृङ्गस्य पुनः यथा अनुत्पत्तेरसत्त्वम् , असत्त्वाच्चानुत्पत्तिरित्यन्योऽन्यसंश्रयदूषणं तथा अकारणत्वादनुत्पत्तिः अनुत्पत्तेरकारणत्वमिति समानम् । स्वस्माद्भावस्य जन्म व्याहतम् आत्मनि क्रियाविरोधादिति चेत् ; कथमसति १० पूर्वमुत्पद्य कार्यकालं गत्वा तत्करणे क्षणिकत्वम् ? यदि मायासुतः पूर्व संसारी कथं पुनः तत्त्वाभ्यासाद् बुद्धो जातः ? कथञ्चित् सन्नेव सुगतत्वं प्राप्नोतीति समञ्जसम् । नापि मायासुतादन्यो बुद्धः संभाव्यते यतः परस्मादेव जन्म स्यात्, तत्त्वाभ्यासतत्फलयोः भिन्नाधिकरणत्वप्रसङ्गात् । सन्तानापेक्षया एकत्वेऽपि वस्त्वपेक्षया नानात्वं पितापुत्रयोरप्यस्ति । तत्र सन्ताननानात्वं नेतरत्रेति नापरं कारणमुत्प्रेक्षामहे अन्यत्र १५ द्रव्यभेदात् । कथं पुनः उक्तमत्र..]
प्रथमम् उक्तम् प्रोक्तं तस्मिन् । कस्मिन् ? इत्याह-व्याकरणे साधुशनेः (शब्दानुशासन)लक्षणसमुदायरूपे । ननु नेदानी तत् केनचित् प्रथममुक्तम् , न हि कश्चिदाचष्टे पूर्वमेकान्तेन असद् व्याकरणतत्त्वमिदं मया इदानीं प्रादुर्भावितमिति चेत् ; अ]बाह-पुरा इति । भगवतः प्रथमतीर्थकरस्य पुरुदेवनाम्नः काले । एवं हि श्रूयते-पुरा पुरुदेवो भैरतादीन् २० पाठयितुं पञ्चशताध्यायपरिमाणं स्व य म्भू ना म कं व्याकरणं चकार इति । .
ननु तस्यापि अन्यतः तदध्ययनम् अस्मदादिवदिति चेत् ; भैर[भा र]ता दि वत् करणे को विरोधः ? वेदाङ्गत्वविरोध इति चेत् ; न; वेदस्यापि कृत्रिमत्वप्रतिपादनात् । न च तदङ्गत्वमस्य सिद्धम् । अथ कैश्चित् तदङ्गत्वेन केनचित् तिरितरोद्भवद् ( तित्तिरोद्भववद्); वेदस्यापि कृतत्वप्राप्तः। 'नहि देवदस्यापि कृत्व प्राप्तेः' । नहि देवदत्तस्या [५३८ ख] गम (स्याङ्गा)- २५
(१) पृ० ६६२ । (२) न्याकरणम् ।(३) स्वपुत्रान् । (४) भगवतः । (५)महाभारत । (६) तित्तिरोपनिषद्वत् । (७) इति चेत् । (6) 'नहि देवदस्यापि कृत्वप्राप्तेः' इतिद्विलिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org