Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 356
________________ ११३८ ] ७०९ न शब्दस्य नित्यत्वम् विधश्रवणान्यथानुपपत्तेः प्रतिनियतव्यञ्जकानां वा इति कल्पनमस्तु अविशेषादिति ; न ; प्रतिनियतावरणनिषेधात्, तत्स्वरूपाखण्डनात् । अथ इन्द्रियस्य तद्ग्रहणयोग्यता तेन प्रतिहन्यते ; सापि न साध्वी कल्पना ; विषयस्य दर्शनजननयोग्यस्य भावे दर्शनस्य अवश्यम्भावात् । सहकारिणः प्रतिहतप्रसरत्वान्नेति चेत् ; न ; नित्यस्य तदपेक्षायोगात् । आत्मनः सा तेन प्रतिहन्यत इत्यपि मिथ्या ; नित्यत्वात्तस्य । कार्योत्पत्तिप्रतिबन्धः क्रियते चेत् ; न ; समर्थे कारणे तस्याऽवश्यंभावात, ५ इतरथा कारणं जनयति तच्च प्रतिबध्नातीति काचपच्यं भावाना (नाम) । तस्माद् व्यवधायकमेव आवरणं व्यापिनाम् । तदपि कथमिति चेत् ? अयमपरोऽस्य दोषोऽस्तु, केवलं वयमभ्युपगमवा. दिनः । तच्च व्यवधायकमेकमपि समानदेशानां समानेन्द्रियग्राह्याणां समानमिति केनचित्तदपसारणे सर्वेषां युगपद्ग्रहणम्, कउ(कॅट)पटापसारणे तथापिच (तथाविध) घटानामिव । येऽपि मन्यन्ते-आत्मा मनसा युज्यते तदपि नभसा श्रवणेन्द्रियेण, तत्पुनरर्थेन शब्देन । १० अत्र इन्द्रियार्थयोः समवायः [५५३क] सम्बन्ध इति ; तेऽपि एतेन निर्वतितोत्तराः ; तेषामपि सकृत् सर्वेषां शब्दानां श्रुतिः स्या[त्] व्याप्येकान्ततः श्रोत्रम्, तत्र समवेताः सर्वे शब्दा इति संयुक्तसमवायः मनसा विवक्षितवत् सम्बन्धोऽविशिष्ट इति । विशिष्टादृष्ट[स्य] नियामकत्वे : मानो [मनोऽ]तिरिच्यत" इत्युक्तमत्रैव सर्वज्ञसिद्धौ । किंच, समवायोऽप्येवं न ग्रहणकारणम् । अदृष्टवशाद् गगनसमवेतस्य कर्णशष्कुलीश्रोत्रेणाविरोधात ग्रहणस्य, घटसमवेतरूपस्येव १५ चक्षुषा । शब्दस्य आकाशगुणत्वं च निषिद्धम् । तन्न युक्तम्-*""शब्दः स्वसमानजातीयविशेषगुणवता इन्द्रियेण गृह्यते बाबै केन्द्रियग्राह्यखात् रूपादिवत् ।" ___स्यान्मतम्-अनेकत्वात् नभसो नायं दोष इति ; तथाहि-देवदत्तकर्णशष्कुलीपरिकरपरिरुद्धमत्र (मन्यत्) नभोऽन्यदत्तः (न्यच्च यज्ञदत्तस्य) तत्र समवेतस्य नान्येन ग्रहणम् । तत्रदं चिन्त्यते-किं तस्य कारणमिति ? तदेव नमः इति चेदं (चेत् ; अ)समवायिकारणं वाच्यम् ? न २० च तदन्तरेण परस्य गुणभावः । भेरीदण्डसंयोग इति चेत् ; न ; तत्र "तदभावात् , स्वकारणसमवायि वा समवायि कारण (स्वसमवायिकारणसमवेतत्वात् ) ध्वनेः । व्युपरते च "तत्संयोगे पुनः तच्छ्रवणं न स्यात् । क्षणिकत्वात् ध्वनेः न तस्य तत् ; "शब्दान (च) शब्दनिष्पत्तिः" विशे० सू० २।२।३१] इति" व्याहन्यते । अथ पूर्वः शब्दोऽसमवायिकारणम् स नभोऽन्तरसमवेतो त (न) तत्कारणम्, अन्यथा कपालरूपादयः पटरूपादीनां तत्कारणं स्युः। १५ यदि पुनरेतन्मतम्-पूर्वशब्दाकाशैः तदाकाश (शं) जन्यते, ततः स्वकारणसमवायि वा[s] (१) प्रतिनियत । (२) शब्दग्रहणयोग्यता । (३) आवरणेन । (४) योग्यता । (५) कटश्च पटश्च आवरणभूतौ तयोः । (६) समानदेशसमानेन्द्रियग्राह्य । (७) नैयायिकाः । (८) मनः (९) श्रवणशब्दयोः गुणिगुणभूतयोः । (१०) युगपज्ज्ञानानुत्पत्तिरपि विशिष्टादृष्टादेव स्यादिति मनःकल्पना व्यर्था स्यादिति भावः (११) व्यापित्वात् । (१२) तुलना-“यस्य बाझै केन्द्रियग्राह्यविशेषगुणग्राहकं यदिन्द्रियं तत्तद्गुणकं यथा रूपग्राहकं चक्षू रूपाधिकरणम्, श्रोत्रं च तथाभूतस्य शब्दस्य ग्राहकं तस्मात्तदपि शब्दगुणकम् ।”-प्रश० कन्द० पृ० ६३ (१३) शब्दाभावात् । (१४) भेरीदण्डसंयोगे । (१५) “संयोगाद्विभागात् शब्दाच्च शब्दनिष्पत्तिः।"-वैशे० सू० । (१६) आकाशान्तर । (१७) असमवायिकारण । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456