Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 370
________________ १९६१८ सामान्यमपि वस्तु ७२३ त्वादित्यादिकं परकीयं भाषितं परिणामसाधनेन[५६३ख]प्रत्युक्तम् निरस्तं तत्साधनम् । कुत इति चेत् ? अत्राह-सदृश इत्यादि । तदपि कुतः ? इत्याह-'स्थूलस्य' इत्यादि । कथंचिदुपलब्धि साधयन्नाहा- [ह-] संभावितकात्मनोऽपि संभावित एकः अखण्ड आत्मा स्वभावो यस्याः[तस्या] अपि । कस्याः ? इत्याह-संविदः संवित्तेः । कथंचित् चेतनादिरूपेण[न क्षण]क्षयादिना प्रत्यक्षत्वात् । क्षणक्षयादिनापि प्रत्यक्षत्वे दूषणमाह-क्षणिक इत्यादि । ५ क्षणिकः परिमण्डलो निरंशत्वलक्षण आदिशब्दात् स्वर्गप्रापणादिर्यस्य तत्तथोक्तं तच्च तत्स्वलक्षणं च इति, तस्य चाक्षुषत्वे, उपलक्षणमेतत् सर्वाध्यक्षसंवित्तीनाम् , रंसाद्यात्मनापि चाक्षुषत्वं उपलक्षणमेतत् सर्वाध्यक्षसंवित्तीनाम् , S रसाद्यात्मनापि चाक्षुषत्वं स्यात् । तथा[s]प्रतीतिः, उभयत्र समानाः । शेषेन्द्रियवैफल्यं स्यादिति चेत् ; अत्राह-शेषेन्द्रियसामर्थ्य प्रमाणान्तरस्य अनुमानस्येव तद्वत् , समारोपव्यवच्छेदार्थम् अनुमानसामर्थ्यं न विरुध्यते तथा चक्षुषा १० रूपवता रसादिके गृहीतेऽपि न विरुध्येत । यथा प्रत्यक्षेण नीलवत् क्षणिकत्वे प्रतिपन्नेऽपि तत्समारोपव्यवच्छेदार्थम् अनुमानसामर्थ्य न विरुध्यते तथा चक्षुषा रूपवत् रसादिके गृहीतेऽपि तत्समारोपव्यवच्छेदार्थ शेषेन्द्रियसामर्थ्य न विरुध्यते । कथम् ? इत्याह-पारम्पर्येण शेषेन्द्रियेभ्यो रसादिज्ञानं ततो विकल्पः तस्मात् समारोपव्यवच्छेदः । नहि शेषेन्द्रियमन्तरेण तज्ज्ञानं तदन्तरेण तद्विकल्पः । तदाह-तनिर्णय इत्यादि । तस्मात् शेषेन्द्रियात(यात् तज् )- १५ ज्ञानाद्वा निर्णयविशेषस्य उपपत्तेः। अधुना अभिधेयत्वादीनां परसाधनानामनैकान्तिकत्वं दर्शयन्नाह-स्वलक्षणे इत्यादि । [५६४क] [स्थलक्षणेऽभिधेयत्वाद्यस्ति तेनाप्यसाधनम् । सामान्याभावतत्त्वादेः तदभावं तु साधयेत् ॥१८॥ २० चक्षुर्बुद्धरतदाभासत्वेऽपि यदि स्वलक्षणं विषयः ; शब्दबुद्ध किन्न स्यात् ? स्पष्टेतर' 'तन्न "तथा च प्रत्यक्षव्यक्तः स्वलक्षणानां तत्त्वान्यत्वाभ्यामवाच्यत्वम् । तदहेतुत्वे साधारणत्वात्सामान्यस्यावस्तुत्वे स्थूलस्य "एतेन 'अर्थक्रियाम् ""सङ्कत...] स्वलक्षणे अभिधेयत्वादि आदिशब्दाद् वस्तुनः तत्त्वा[न्यत्वा]भ्यामवाच्यत्वादिपरिग्रहः, अस्ति विद्यते तेनापि न केवलम[न]न्तरन्यायेन असाधनमभिधेयत्वा[य]- २५ लिङ्गम् । कस्य ? इत्याह-सामान्य इत्यादि । सामान्याभावतत्त्वम् आदिर्यस्य अवयव्याधभावस्य, तस्य व्यभिचारादिति मन्यते । तस्यापि पक्षीकरणाददोष इति चेत् ; अत्राहतु शब्दः शिर[:]कम्पे। तदभावं स्वलक्षणाभावं किं तु साधयेत् ] तत्साधने सर्वव्यवहारविलोप इति भावः ।। कारिकायाया (कां)व्याख्यातुमाह-चक्षुर्बुद्धः इत्यादि । अतदाभासत्वेऽपि अस्वलक्षणा- ३० भासत्वेऽपि यदि स्वलक्षणं विषयः शब्दद्वेः (शब्दबुद्ध:) किं न स्यात् भवेदेव स्वलक्षणं विषयः। (१) अन्यथा क्षणक्षयानुमानवैयर्थ्य स्यात् । (२) एतदन्तर्गतः पाठो द्विलिखितः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456