Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
११॥३]
शब्दस्वरूपनिरूपणम् कारिकाविवरणम्-एकस्य इत्यादि । अनेकधा विवृतार्थमिति नेह वित्रियते ।
ननु सर्वस्य विचारतोऽयोगात् कस्य कुतोऽनेकान्तसाधनमिति चेत् ? अत्राह-बहिरन्तः इत्यादि ।
[बहिरन्तश्च परीक्षायामेकान्तेष्वनवस्थितिः ।
साक्षात्कृतमनेकान्ततत्त्वं सम्प्रतिपादयेत् ॥३॥ यथैव हि एकान्तवादिनः अणूनामप्रतिभासनान्न चक्षुरादिविषयहेतुत्वमिति न किञ्चित् प्रत्यक्षव्यपदेशभाक् । परमाणुषु स्थूलैकाकाराभावात्, तद्व्यतिरिक्तस्य च कस्यचिदभावात् । कस्यचित्परस्याभावात् कस्य वा स्वसंवेदनम् ? यथाप्रतिभासमसम्भवात् । अप्रामाणिक तथैव स्वयमभिमतं व्यवस्थापयन् एकान्तमवलम्ब्य पुनरपि विचारभङ्गरत्वं पुनरपि सत्तां निवर्तयन् न केवलं स्वामेव वृत्तिं स्ववाचा विडम्बयति अपितु अनेकान्ततत्त्वं १० समर्थयति ।]
___ एकान्तेषु [५४३क] सकलशून्यतादिनियमप्रवादेषु । क ? इत्याह--बहिरन्तरि[ति] तेषु किम् ? इत्याह-अनवस्थितिः । बहिरन्तस्तत्त्वस्य पूर्वकारिकोपात्तं तत्त्वपदं जात'विभक्तिपरिणाममिह सम्बध्यते । कस्यां सत्याम् ? इत्याह-परीक्षायां विचारे सति इत्यर्थः। सा किं कुर्यात् ? इत्याह-संप्रतिपादयेत् । किम् ? अनेकान्ततत्त्वम् । किंभूतम् ? इत्याह- १५ साक्षात्कृतमिति । कैम्पर्यमत्र सकलस्य एकान्तस्य अनवस्थानात् न तदवलम्बनेन कचिद् विधिप्रतिषेधव्यवहारः। सांप्रतम् अनेकान्ततत्त्वावभासनमवशिष्यते । तच्चेत् मिथ्या ; निरालम्बा विधिप्रतिषेधव्यवस्था । ततः परमार्थदर्शनम] नेकान्ततत्त्वं विधिप्रतिषेधव्यवहारान्यथानुपपत्तेः इति । _ 'यथैव हि' इत्यादिना कारिकां विवृणोति-य(त)थैवेति गम्यते यत्तदोः नित्यसम्बन्धात् । २० ततोऽयमर्थः-यथैव हि किम् ? न किंचित् प्रत्यक्षव्यपदेशभाग एकान्तवादिनः । कुतः ? इत्याह-चक्षुरादिविषयहेतुत्वमणूनां यतः। कुतः ? इत्याह-अप्रतिभासनात्तेषामिति । यद्वक्ष्यति-*"न चैकरूपेना(पेण अ)नेकार्थानुकरणंविरुद्धम्" [सिद्धिवि० ११।२१] इत्यादि ।
स्यान्मतम्-परमाणुच्चा (णुष्वा)त्मभूतः कश्चिदेकः स्थूल उपकारोऽस्ति स तद्व्यपदेशभाक् स्यादिति चेत् ; अत्राह-परमाणुषु स्थूलस्यैकस्य आकारस्याऽसंभवात् । किंभूतेषु ? संचितेष्वपि २५ न केवल (लं) पृथगवस्थितेषु घटादिवत् परमाणुत्वविरोधात् किं प्रत्यक्षस्य व्यपदेशभागिति ।
___ अथ मतम्-तेभ्यो भिन्न[:] क्रियागुणवान् दृश्य आकारः तद्व्यपदेशभागिति चेत् । अत्राह-तद्व्यतिरिक्तस्य च परमाणुभ्यो भिन्नस्य च [५४३क] कस्यचिदवयव्यादेरभावात् किं प्रत्यक्षव्यपदेशभाक् ? विचारितश्चायं परो (पक्षो)नेह विचार्यते । अत एव*"स्वरूपस्य च स्वतो गतिः" [प्र० वा० १।५] इति चेत् ; अत्राह-कस्यचिद् इत्यादि । परमाणु[५] स्थूलैका- ३०
(१) षष्ठी । (२) तात्पर्यमित्यर्थः । (३) परमार्थदर्शनविषयीकृतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456