Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
६४२ सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः ततः किं जातम् ? इत्याह-समयः सङ्कतः तत्र सदसदात्मनि वस्तुनि शक्यः कर्त न केवलं शक्य एव कर्तुम् अपि तु फलवानपि । कुतः ? इत्याह-तादृशः सदसदात्मनोऽर्थस्य त्रिकालविषयत्वात् । एतदपि कुतः ? इत्याह-अन्यथा इत्याद (दि)। अन्येन अर्थस्य त्रिकालविषयत्वाभावप्रकारेण अर्थस्य उत्तरकार्यस्य अनुभवस्य वा क्रिया करणं तस्याः अनुपपत्तेः इति । ५ तस्याः किम् ? इत्याह-कथम् इत्यादि । कुतश्चित् प्रत्यक्षात् अनुमानाद्वा व्यवहार प्रवर्तनं]यत
एकान्तवादिनः [५०२ख] कथं तत्प्रामाण्यं प्रत्यक्षादिमानत्वम् । ननु यदि नाम तदनुपपत्तिः प्रामाण्यस्य किमायातम् येन तन्न स्यात् ? इत्याह-अर्थक्रिया इत्यादि । ____ एवं शब्दानां वस्तुनि सङ्केतं तत्र च तत्साफल्यं प्रतिपाद्य अधुना यदुक्तम्-*"विवक्षाप्रतिबन्ध(बद्ध)जन्मानः शब्दाः तामेव सूचयेयुः” इति'; तदूषयन्नाह-वाक्यानाम् इत्यादि।
[वाक्यानामविशेषेण वक्त्रभिप्रेतवाचिनाम् ।
सत्यानृतव्यवस्था स्यात्तत्त्वमिथ्यादर्शनात् ॥२८॥ वाक्येषु वक्त्रभिप्रायसूचनेषु अविशेषेण तत्त्वविषयत्वमन्तरेण सत्यानृतव्यवस्था नोपपद्यते प्रत्यक्षवत् । संवृतः मिथ्यकान्तात्मकत्वात् तद्विकल्पात् कुतः तत्त्वप्रतिलम्भो
यतो वादी विजयी स्यात् । बहिरन्तश्च प्रतिक्षणं परस्परात्मकं स्वलक्षणमनुभवतोऽपि १५ तिमिरादिप्रत्यक्षस्य ज्ञानावरणकर्मण उदयोदीरणाभ्यामन्यत्र कुतः निरन्वयैकान्ते वियर्ययप्रतिपत्तिः ?]
पदस्य अर्थव्यभिचाराद् व्यवहारानुपयोगाद् वाक्यानां विपर्ययात् इति वाक्यानाम् इत्युक्तम् । तेषां किंभूतानाम् ? इत्याह-वक्त्रभिप्रेतवाचिनाम् विवक्षितवाचिनाम् इत्यर्थः ।
केन ? इत्याह-अविशेषेण साकल्येन यथा हरिहरहिरण्यगर्भवाक्यानां तद्वाचित्वम् ; तत्राह२० सत्यानृतव्यवस्था सुगतवाक्यानां सत्यव्यवस्था क ण च रा दिवाक्यानाम् अनृतव्य
वस्था या सा स्यात् न । पूर्वकारिकातो 'न' इत्यनुवत्तते । क (वक्त्र)भिप्रेतवाचिनामित्येतद्विशेषणं हेतुश्च अविशेषेण तद्वा[चित्वा] दिति । एवं मन्यते-त द्वाचित्वात् यदि सुगतवाक्यानां सत्यव्यवस्था अन्येषामपि स्यात् । नहि तान्यपि वक्त्रभिप्रेतादन्यत्र वर्तन्ते । अथ
तेषां तत्त्वप्रतिपादनाभावादनृतव्यवस्था ; अत एव सुगतवाक्यानामपि ईंयमेवास्तु । नैवम् , २५ अर्व (अर्थ) प्रतिबन्धेतरकृतं (त) विशेषसद्भावात् । तथाहि-अर्थेभ्यः सुगतज्ञानं ततो वाञ्छा
तस्याश्च वाक्यानि, नैवमन्यत्र । ततोऽपि तद्वयवस्था अनुमान (नं) तदा भवदुक्तम् (भवेत् , तदुक्तम्-) *"मणिप्रदीपप्रभयोः" [प्र०वा०२।५७] इत्यादि इति चेत् ; उक्तमत्र अनुमानवत्तेषां प्रमाणान्तरत्वमिति [५०३क] तन्न तद्वयवस्था स्यादिति । कुतः स्यात् ? इत्यत्राह-तत्त्वमिथ्या
(१) अर्थक्रियानुपपत्तिः। (२) तुलना-"वक्तृव्यापापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ।"-प्र. वा० ११४ । (३) अर्थव्यभिचाराभावात् । (४) अभिप्रायवाचित्वात् । (५) कणादादिवाक्यानामपि । (६) अनृतव्यवस्थैव । (७) सुगतवाक्यं परम्परया अर्थप्रतिबद्धं नेतरवाक्यमिति । (6) उत्पद्यते । (९) 'मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रिया प्रति ॥ इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456