SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ६४२ सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः ततः किं जातम् ? इत्याह-समयः सङ्कतः तत्र सदसदात्मनि वस्तुनि शक्यः कर्त न केवलं शक्य एव कर्तुम् अपि तु फलवानपि । कुतः ? इत्याह-तादृशः सदसदात्मनोऽर्थस्य त्रिकालविषयत्वात् । एतदपि कुतः ? इत्याह-अन्यथा इत्याद (दि)। अन्येन अर्थस्य त्रिकालविषयत्वाभावप्रकारेण अर्थस्य उत्तरकार्यस्य अनुभवस्य वा क्रिया करणं तस्याः अनुपपत्तेः इति । ५ तस्याः किम् ? इत्याह-कथम् इत्यादि । कुतश्चित् प्रत्यक्षात् अनुमानाद्वा व्यवहार प्रवर्तनं]यत एकान्तवादिनः [५०२ख] कथं तत्प्रामाण्यं प्रत्यक्षादिमानत्वम् । ननु यदि नाम तदनुपपत्तिः प्रामाण्यस्य किमायातम् येन तन्न स्यात् ? इत्याह-अर्थक्रिया इत्यादि । ____ एवं शब्दानां वस्तुनि सङ्केतं तत्र च तत्साफल्यं प्रतिपाद्य अधुना यदुक्तम्-*"विवक्षाप्रतिबन्ध(बद्ध)जन्मानः शब्दाः तामेव सूचयेयुः” इति'; तदूषयन्नाह-वाक्यानाम् इत्यादि। [वाक्यानामविशेषेण वक्त्रभिप्रेतवाचिनाम् । सत्यानृतव्यवस्था स्यात्तत्त्वमिथ्यादर्शनात् ॥२८॥ वाक्येषु वक्त्रभिप्रायसूचनेषु अविशेषेण तत्त्वविषयत्वमन्तरेण सत्यानृतव्यवस्था नोपपद्यते प्रत्यक्षवत् । संवृतः मिथ्यकान्तात्मकत्वात् तद्विकल्पात् कुतः तत्त्वप्रतिलम्भो यतो वादी विजयी स्यात् । बहिरन्तश्च प्रतिक्षणं परस्परात्मकं स्वलक्षणमनुभवतोऽपि १५ तिमिरादिप्रत्यक्षस्य ज्ञानावरणकर्मण उदयोदीरणाभ्यामन्यत्र कुतः निरन्वयैकान्ते वियर्ययप्रतिपत्तिः ?] पदस्य अर्थव्यभिचाराद् व्यवहारानुपयोगाद् वाक्यानां विपर्ययात् इति वाक्यानाम् इत्युक्तम् । तेषां किंभूतानाम् ? इत्याह-वक्त्रभिप्रेतवाचिनाम् विवक्षितवाचिनाम् इत्यर्थः । केन ? इत्याह-अविशेषेण साकल्येन यथा हरिहरहिरण्यगर्भवाक्यानां तद्वाचित्वम् ; तत्राह२० सत्यानृतव्यवस्था सुगतवाक्यानां सत्यव्यवस्था क ण च रा दिवाक्यानाम् अनृतव्य वस्था या सा स्यात् न । पूर्वकारिकातो 'न' इत्यनुवत्तते । क (वक्त्र)भिप्रेतवाचिनामित्येतद्विशेषणं हेतुश्च अविशेषेण तद्वा[चित्वा] दिति । एवं मन्यते-त द्वाचित्वात् यदि सुगतवाक्यानां सत्यव्यवस्था अन्येषामपि स्यात् । नहि तान्यपि वक्त्रभिप्रेतादन्यत्र वर्तन्ते । अथ तेषां तत्त्वप्रतिपादनाभावादनृतव्यवस्था ; अत एव सुगतवाक्यानामपि ईंयमेवास्तु । नैवम् , २५ अर्व (अर्थ) प्रतिबन्धेतरकृतं (त) विशेषसद्भावात् । तथाहि-अर्थेभ्यः सुगतज्ञानं ततो वाञ्छा तस्याश्च वाक्यानि, नैवमन्यत्र । ततोऽपि तद्वयवस्था अनुमान (नं) तदा भवदुक्तम् (भवेत् , तदुक्तम्-) *"मणिप्रदीपप्रभयोः" [प्र०वा०२।५७] इत्यादि इति चेत् ; उक्तमत्र अनुमानवत्तेषां प्रमाणान्तरत्वमिति [५०३क] तन्न तद्वयवस्था स्यादिति । कुतः स्यात् ? इत्यत्राह-तत्त्वमिथ्या (१) अर्थक्रियानुपपत्तिः। (२) तुलना-"वक्तृव्यापापारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ।"-प्र. वा० ११४ । (३) अर्थव्यभिचाराभावात् । (४) अभिप्रायवाचित्वात् । (५) कणादादिवाक्यानामपि । (६) अनृतव्यवस्थैव । (७) सुगतवाक्यं परम्परया अर्थप्रतिबद्धं नेतरवाक्यमिति । (6) उत्पद्यते । (९) 'मणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रिया प्रति ॥ इति शेषः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy