________________
९।२९ ]
शानावरणोदयात् वचनानां मिथ्यात्वम् .
६४३ र्थदर्शनादिति । तत्त्वार्थस्य मिथ्यार्थस्य दर्शनात् प्रतिपादनात् , दृशेर्णिजन्तस्य अयं प्रयोगः।
___ कारिकार्थं कथयितुमाह-वाक्य इत्यादि । वाक्येषु सत्यानृतव्यवस्था नोपपद्यते । किं सर्वेषु ? न, इत्याह-वक्त्रभिप्रायसूचनेषु । तेष्वपि केषुचित् सा भव[ती]ति चेत् ; अत्राहअविशेषेण इति । किमन्तरेण नोपपद्यते ? इत्याह-तत्त्व इत्यादि । अत्र दृष्टान्तमाह-प्रत्यक्ष ५ इत्यादि । न परमार्थतः तत्र तद्वयवस्था अपि तु संवृतेः, अतः परमार्थतः तत्र तदभावसाधनं सिद्धसाधनमिति चेत् ; अत्राह-संवृतेः इत्यादि । सत्यानृतव्यवस्थाऽभावेऽपि तद्वयवस्थाविकल्पः संवृतिः तस्याः मिथ्र्यकान्तात्मकखात मिथ्यारूप एकान्तः मिथ्यकान्तः तदात्मकत्वात् कारणात् तद्विकल्पात् शब्दविकल्पात् कुतो न कुतश्चित् तत्त्वस्य कृतकत्वादिसाधनस्य अन्यस्य वा प्रतिलम्भो यतः कृतकत्वादिवचनात् वादी विजयी स्यात् । नहि तद्विकल्पसंवृत्या तत्त्वविषयो १० व्यवस्थाप्यमानः तत्प्रतिलम्भहेतुः, अतिप्रसङ्गात् ।
स्यादेतत्-द्विचन्द्रदर्शितैमिरिकद्वयवत् सर्वत्र तद्वयवस्था इति चेत् ; अत्राह-तिमिर इत्यादि । स्वलक्षणमनुभवतोऽपि न केवलमन्यस्य विपर्ययविप्र(यप्र)तिपत्तिः विपरीतार्थगृहीतिः। किंभूतम् ? इत्याह-परस्पर इत्यादि । भेदाभेदात्मकमित्यर्थः। क ? इत्याह-बहिरन्तश्च प्रतिक्षणमनुभवन्तः(तः) [५०३ ख] कस्य ? इत्याह-प्रत्यक्षस्य । किंभूतस्य ? इत्याह- १५ तिमिर इत्यादि । व्याख्यातमेतत् । __ सौ तस्य कुतः ? इत्यत्राह-कुतोऽन्यत्र इत्यादि । स्वयमुदयोवी(दी)रणाभ्यां कुतोऽन्यत्र अपि तु ताभ्यामेव तस्य [त]त्प्रतिपत्तिः इति । कस्य ताभ्याम् ? इत्याह-कर्मणः। किंभूतस्य ? इत्याह-'ज्ञान' [इत्यादि । कस्मिन् ?]इत्याह निरन्वयैकान्त इत्याद्य (दि । अयम)भिप्राय (यः)द्विचन्द्रदर्श (शि) तैमिरिकद्वयस्य भ्रान्त्या शब्दव्यवहारदर्शनात् सर्वत्र तत्कल्पनाया (यां) प्रत्यक्ष- २० स्यापि व्यावर्णितरूपस्य मिथ्यादृष्टेः क्वचिद् विपर्ययप्रतिपत्तिदर्शनात् सर्वत्रानाश्वासः स्यादिति ।
ननु भवतु प्रत्यक्षस्य कर्मसंश्लिष्टस्य ताभ्यां तत्प्रतिपत्तिः शब्दस्तत्त (शब्दस्य तु) तद्विपरीतस्य सा कुतः ? इत्याह-उदयोदीरणाभ्याम् इत्यादि ।
[उदयोदीरणाभ्यां च तदावारककर्मणाम् ।
मिथ्यार्थदर्शनज्ञानान्मिथ्यार्थत्वं गिरां स्मृतम् ॥२९॥ २५ क्षायोपशमिकस्यापि भावस्य घातिकर्मोदयोदीरणाभावे तत्वप्रतिपत्तिः, न केवलं तज्जन्म [सारूप्याभ्याम् ] तदनेन कुतश्चित्तत्त्वं व्यवस्थापयितुकामेन स्वाभिप्रेतमात्रं निरस्ततत्त्वं संसूचयितुमयुक्तम् पक्षान्तरानतिशायनात् । स्वयमभिमतस्य सत्यानृतस्य अनृतानृतात् न कश्चिद्विशेषं पश्यामः वक्त्रभिप्रायमात्रे तद्व्यापारोपगमात् ।]
गिरां शब्दानां मिथ्यार्थत्वं स्मृतं पूर्वाचार्यैरनुज्ञातम् । कुतः ? इत्याह-मिथ्यार्थ- ३० (१) 'दर्शनात्' इति । (२) विपरीतार्थगृहीतिः । (३) उदयोदीरणाभ्याम् । (५) विपर्ययप्रतिपत्तिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org