________________
६४४
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः दर्शनज्ञानादिति । तदपि कुतः ? इत्याह-उदयोदीरणाभ्याम् । केषाम् ? इत्याह-तद् इत्यादि । [तदित्यनेन शब्दनिमित्ते दर्शनज्ञाने गृह्यते [तदावारककर्मणाम् ।
____ कारिकां विवृण्वन्नाह-क्षायोपशमिकस्यापि इत्यादि । भावस्य ज्ञानस्य । किंभूतस्य ? [क्षायोपशमिकस्यापि] क्षयोपशमप्रयोजनस्यापि । तस्य किम् ? इत्याह-तत्त्वप्रतिपत्तिः । ५ कस्मिन् सति ? इत्याह-घाति इत्यादि । घातिकर्मोदयोदीरणाभावे सति इत्यर्थः । तदुत्पत्तिसारूप्याभ्यां स्यादिति चेत् ; अत्राह-न केवलं तज्जन्म इत्यादि । प्रकृतं निगमयन्नाहतदनेन इत्यादि । यत एवं तत् तस्मात् अनेन सौगतेन तत्त्वं चतुरार्यसत्यादिलक्षणं त्रिरूपं हेतुलक्षणं वा वस्तु कुतश्चित् सुगतसम्बन्धिनोऽन्यसम्बन्धिनो वा वाक्याद् व्यवस्थापयितु
कामेन स्वाभिप्रेतमात्रम्, किंभूतम् ? निरस्ततत्वं संसूचयितुमयुक्तम् 'वाक्यात्' इति घटना । १. अन्यथा गां प्रतिपादयितुकामेन अश्वोऽपि सूचयितुं युक्तः स्यात् । अप्रकृतत्वमुभयत्र । गत्यन्तरस्याभावात् तत्सूचनमिति चेत् ; न ; तद्भावप्रतिपादनात् ।।
किंच, साधु कर्तुमशक्तिमता साधुना किमसाधु कर्त्तव्यम् ? तत्र उपेक्षैव तस्य' न्यायो (न्याय्य) ति भावः । कुत एतत् ? इत्याह-पक्षान्तर इत्यादि । सौगतपक्षात् नित्यादिपक्षः
तदन्तरं तस्मादनतिशायनात् स्वपक्षस्य, तत्सूचनस्याविशेषात् इति । १५ ननु सौगतपक्षे वाक्यस्य क्षणक्षयविज्ञानविभ्रमशून्यैकान्ते यद्यपि विसंवादः तथापि न
रूपादौ, वक्त्रभिप्रायद्वारेण ततः तत्प्रतीतेः, पक्षान्तरे तु सर्वत्र विसंवादः तत्कथमुच्यते 'पक्षान्तरानतिशायनात्' इति चेत् ; अत्राह-'सत्यानृतस्य' इत्यादि । सत्यं च तद् रूपादौ अनृतं च क्षणिकत्वाद्यकान्ते सत्यानृतं शास्त्रं तस्य । किंभूतस्य ? स्वयं बौद्धन अभिमतस्य
अङ्गीकृतस्य अनृतात् सतोऽप्यर्थस्याप्रतिपादनं तत्प्रतिपादनाभिप्रायेण सौगतैः प्रयुज्यमानं २० वचनमनृतं तस्मादपि अत्यन्तासतोऽक्षणिकत्वा (द्य) कान्तस्य प्रतिपादनाभिप्रायेण[५०४ख
प्रयुज्यमानहमृत (नम् अनृत)मनृतानृत (त)तस्मात् कंचि[द्विशेषं न पश्यामः] तत्त्वज्ञानात् इत्यर्थः । न च परस्य तदस्ति, वक्त्रभिप्रायमात्रे तद्व्यापारोपगमात् , सतोऽपि रूपादेः बहिः शब्देनाप्रतिपादने असदविशेषात् इति भावः ।
____ कथं तत्त्वे असम्बन्धाच्छब्दात् तत्त्वज्ञानं भवत्पक्षेऽपीति चेत् ? अत्राह-वाच्य२५ वाचकसम्बन्ध इत्यादि ।
[वाच्यवाचकसम्बन्धः स्वतः शङ्काऽन्यथा कथम् ?
असङ्कतितानन्तवाच्यभेदेऽपि गिरां श्रुतौ ॥३०॥ वाच्यवाचकयोः स्वतः सम्बन्धः कथञ्चित् सिद्धः परिणामविशेषात् चक्षुरूपवदिति । कथमन्यथा किमयमाहेति वाच्यविशेषशङ्का उपपोत अप्रतिपन्न रूपदर्शिनः ३० तद्विशेषवत् । कथम् ?]
(७) साधोः । (२) वक्त्रभिप्रायमानसूचनस्य समानत्वात्। (३) असम्बद्धात् । न विद्यते सम्बन्धी यस्येति । (४) जैनपक्षे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org