________________
९।३० ]
ज्ञानावरणोदयात् वचनानां मिथ्यात्वम्
६४५
वाच्यो घटादिः वाचको घटादिशब्दः तयोः सम्बन्धोऽविनाभावः । स्वतः स्वमाहात्म्यात् । न सङ्क ेतमात्रादेव इत्यर्थः । कथमन्यथा अन्येन स्वतः सम्बन्धाभावप्रकारेण शङ्का संशीतिः । कदा ? इत्याह- गिरां शब्दानां श्रुतौ समीचीनश्रवणेऽपि न केवल - मश्रवणे । क ? इत्याह- असङ्केतितानन्तवाच्यभेदे । अनेन तद्भेदे न सामान्ये शङ्क दर्शयति ।
कारिकां विवृणोति - वाच्यवाचकयोः घटतच्छब्दयोः स्वतः सम्बन्धः । स्वेतः संभवति (संभवन् नि)त्यः स्यात् । * " औत्पत्तिकस्तु शब्दार्थसम्बन्धः" [मी०सू० १|१|५] स्वाभाविक इत्यर्थः । तथा च मीमांसकपक्षः, तदुक्तम्- " नित्याः शब्दार्थसम्बन्धाः " [वाक्य प० २।२३] इत्यादि; अत्राह - परिणामविशेषादि वाय (दिति । वाच्य ) वाचकयोः यः परिणामविशेषः तदभावे उभयोरभाव इति तस्मात् कथञ्चित् देशनादि (देशादि ) नियतत्वेन १० सिद्धो निष्पन्नो निश्चितो वा सम्बन्ध इति । निदर्शनमाह - चक्षु (चक्षू ) रूपवदिति । चक्षु(चक्षू)रूपयोरिव तद्वत् । उपलक्षणमेतत् श्रोत्रादिशब्दादीनां परिणामविशेषस्तत्सम्बन्धादेव चक्षुरेव रूपमेव प्रकाशयति न प्राणादिकं [ ५०५क ] रसादिकं वा ।
"
"
स्यान्मतम् - चक्षुषो रूपेण सन्तानवृत्त्याऽतिशयः कश्चिदापादितोऽस्ति न तत्तदेव प्रकाशयति, नैवम् अर्थेन शब्दस्यें, तत्कथं दृष्टान्तदाष्टन्तिकयोः साम्यमिति ; तदसत् ; यतः १५ चक्षुषा रूपस्य किमिदं प्रकाशनम् ? तत्र ज्ञानजनकत्वं चेत्; स्वसमानकालभाविनि रूपक्षणे तज्ज्ञानं जनयति, कथमन्यथा तज्जनने रूपलक्षण: (रूपक्षणः) तत्सहकारी यतो ज्ञानेन गृह्येत, अकारणस्याविषयत्वात् ? न च समानसमयेन तत्क्षणेन चक्षुषोऽतिशयः क्रियते । तत्कारणं (तँत्करणं) हि तज्जननात् [ नाऽ ] परम् । एकलक्षण (ऍकक्षण) योश्च हेतुफलभावः सन्ताननाशकृत् । तन्न चक्षुःसहकारिणा रूपेण [कश्चिदतिशय ] स्तथापि तत्प्रकाशयति तत् । अथ तर्दुपा- २० दानेन तेंदुपकारः क्रियमाणः तेनें कृत इत्युच्यते सन्तानापेक्षया ; तदपि न सुन्दरम् ; एवं हि रसादिनापि कृतः इति स्यात् । यथैव हि " तद् रूपग्राहकरूपजनकं तथा तत्समानकालरसादेरपि । कथमन्यथा "तयोः एकसामग्यधीनता । नोपादानत्वेन इति चेत्; न; उपादानेतरभावस्य भेदै - कान्ते[अ] प्रमाणत्वादिति प्रतिपादितम् अन्वयव्यतिरेकानुकरणस्य सर्वत्राविशेषात् । भवतु रसादेरपि तदुपकार इति चेत् ; न ; तस्यापि तेन प्रकाशनप्रसङ्गात् । अयोग्यत्वान्नेति चेत् ; २५ तर्हि योग्यतैव प्रकाशननिबन्धनमस्तु किं तदुपकारकल्पनया ?
"
किंच, पूर्वापररूपमेत्कणाममे (रूपक्षणानामे) वैकसन्तानत्वेऽपि नीलतामिव जडतामपि तेषां " तत्प्रकाशयेत्, "तस्याः अपि [तदुपकारकत्वात् ] अन्यथा अंशेन जन्यजनकभावः । न
"
(१) मीमांसकः प्राह । (२) 'शब्दस्यार्थेन सम्बन्धः ' - मी० सू० । (३) ' तत्राग्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥' इति शेषः । (४) कश्चिदतिशय आपाद्यते । (५) रूपक्षणेन । (६) अतिशयकरणम् । (७) समानसमयवर्तिनोः कार्यकारणभावे न सन्तानः स्यात्, सर्वेषामेकक्षणे एव उत्पद्य अनन्तरं नाशात् । (८) वर्तमानरूपक्षणस्य उपादानेन पूर्वरूपक्षणेन । ( ९ ) चक्षुषः क्रियमाणः उपकारः । (१०) वर्तमानरूपेण । ( ११ ) पूर्व रूपम् (१२) रूपरसयोः (१३) चक्षुषा । (१४) चक्षुः । (१५) जडतायाः ।
Jain Education International
For Personal & Private Use Only
५
www.jainelibrary.org