________________
६४६
सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः चैवम् । ततो योग्यतैवास्तु इति साधूक्तम् चक्षु(क्षु)रू[पादिवदि]ति ।
तदनभ्युपगमे दोषमाह-कथमित्यादि । कथम् अन्यथा अन्येन स्वतः सम्बन्धाभावप्रकारेण उपपद्यत घटेत । का ? इत्याह-वाच्यविशेषशङ्का । किंभूता ? इत्याह-किमयमाह इति । कुतः ? इत्याह-अप्रतिपन्न इति। निदर्शनमत्राह-रूपदर्शिनः पुरुषस्य तद्विशेषवत् ५ रूपविशेष इव ।
परमतमाशङ्कते निरा[कर्तुं] 'कथम्' इत्यादि । तत्रोत्तरमाह-यथा इत्यादि ।
[यथा प्रत्यक्षभेदाः स्युः समयापेक्षनिर्णयाः ।
तथा शब्दार्थभेदाः स्युः सङ्केतापेक्षनिर्णयाः ॥३१॥
प्रत्यक्षेण विषयीकृतेषु स्वपररूपादिविशेषेषु यथा कृतसङ केतनिश्चयपाटवाः स्वानु१० भूतविशेषान् विवेचयन्ति न तथेतरे । न चैतावता इतरे अनुपलब्धा एव, सत्यपि सङ्कते
तथा प्रतिपत्तिप्रसङ्गात् । तथा शब्दार्थोपलम्भिनः समयस्तद्विशेषनिर्णयहेतुः । कथं पुनः स्वाभाविका सम्बन्धः सङ्केतादन्यथा क्रियेत ? न हि भावस्वभावाः पुरुषेच्छया परावर्त्यन्ते निःस्वभावताप्राप्तेः ? वचनं तु दाराः षण्णगरीत्यादौ यथा वाचकत्वेन वक्तृभिर्नियम्यते
तत्तथैवानपेक्षितबाह्यार्थ परावर्त्यम् । नैतदेवम्, परमार्थतः तत्सम्बन्धव्यपदेशयोः सङ्करव्य१५ तिकरप्रसङ्गात् ।
प्रत्यक्षप्रमितोऽर्थः प्रत्यक्षः तस्य भेदाः अवान्तरविशेषाः यथा येन तथा योग्य[ताप्र]कारेण अन्येन वा स्युः भवेयुः । किंभूताः ? इत्याह-समयापेक्षनिर्णयाः समयापेक्षः निर्णयो येषामिति, सङ्कतग्रहणमुपलक्षणं तेन दर्शनपाटवादेरपि ग्रहणम् । तथा शब्दार्थभेदाः
स्युः सङ्कतापेक्षनिर्णयाः। २० एवं मन्यते-यथा अनुभवः स्वार्थभेदनिश्चये स्वतो योग्योऽपि, न हि तस्य तद्योग्यता निश्चयेन क्रियते अन्योऽन्याश्रयदोष (षात्), न स्वसत्तामात्रेण निश्चयं तत्र जनयति क्षणभङ्गादौ प्रसङ्गात् , अपि तु सहकारिकारणं सङ्कतादिकमपेक्ष्यत (क्षते) तथा शब्दोऽपि स्वतो योग्यते एव स्वार्थविशेषे सङ्कतमपेक्ष्य निर्णयं जनयति । तथादृष्टरुभयत्र समत्वादिति ।
___ कारिकां विवृण्वन्नाह-प्रत्यक्षेण इत्यादि । [प्रत्यक्षेण] चक्षुरादिदर्शनेन विषयीकृतेषु। केषु ? २५ [५०६क] स्वपररूपादिविशेषेषु स्वं च प्रत्यक्षं परश्च बहिर्घटादिः तयोर्यथासंभवं ये रूपादिविशेषाः तेषु यथा कृतसङ्केतनिश्चयपाटवाः कृतश्चासौ सङ्कतश्च तेन निश्चयपाटवं येषां ते तथोक्ताः यथा स्वानुभूतविशेषान् विवेचयन्ति व्यवस्यन्ति न तथा इतरे [अ] कृतसङ्कतपाटवः (वाः) तथा न ताव यं ति (तान् व्यवस्यन्ति) न चैतावता तैरितरे विशेषाः अनुपलब्धा
एव अपि तु उपलब्धाः । कुतः ? इत्याह-सत्यपि सङ्कते तथाऽप्रतिपत्तिप्रसङ्गात् । तथा ३० शब्दार्थोपलम्भिनः समयः सङ्कतः तद्विशेषनिर्णयहेतुः शब्दार्थभेदनिश्चयकारणम् ।
परः प्राह-'कथम्' इत्यादि । कथं पुनः स्वाभाविकःवाच्यवाचकयोरात्मभूतः योग्यता(१) अन्न प्रतिः त्रुटिता । (२) योग्यत्वादेव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org