________________
९।३२-३३ ]
एवकारादि प्रयोग विचारः
६४७
लक्षणः सम्बन्धः सङ्क ेतादन्यथा अर्थान्तरप्रतिपादनप्रकारेण क्रियेत । अयमभिप्रायः परस्य - शब्दस्य वित् (चेत्) सर्वत्र वार्थे स सम्बन्धः, प्रतिनियते वा ? प्रथमपक्षे युगपत् ततः सकलार्थप्रतीतिः स्यात् । इतरत्र विपरीत समयाद् अर्थान्तरे प्रवृत्तिर्न स्यात् । अथ सङ्क ेतान्तराद् अर्थान्तरप्रतिपादनयोग्यता अस्य इति चेत्; अत्राह - नहि इत्यादि । हिर्यस्मात् न भावानां शब्दादीनामर्थानां [स्व]भावाः ['पुरुषे ]च्छया परावर्त्यन्ते अन्यथा अन्यथा च जायन्ते । ५ कुत: ? इत्याहह - निःस्वभावता ['प्राप्तस्तद्भा ] विनामिति । शब्दस्वभावोऽपि तर्हि सङ्क ेतानु (तान्न) परावर्त्तत (वर्त्यते) इति चेत्; अत्राह - वचनं न्वि [ 'त्वित्यादि । दाराः पण्णगरीत्यादौ ] यथा वाचकत्वेन वक्तृभिर्नियम्यते तद्वचनम् [५०६ख ] तथैवानपेक्षितबाह्यार्थं पराव [ि जातपरिणा]मेन सम्बन्धः । “दाराः पण्णगरी' इत्यादि अत्रोदाहरणम् । 'एतद् दूषयन्नाह - नैतदेवम् इत्यादि । एतत् परक[ल्पितं भाषितं ] परमार्थतो नैवम् । कुतः ? इत्याह- तत्स्वम्बन्ध १० (तत्सम्बन्धे) त्यादि । तयोः वाच्यवाचकयोः सम्बन्धश्च व्यपदे [शैश्च अस्येदं] वाचकं वाच्यं चेति प्रतिपादनं तयोः सङ्करः सर्वेषामयोगव्यवच्छेदादीनामेव व (मेकत्र) गमनं व्यतिकरः परस्परविषयगमनम् तयोः प्रसङ्गात् ।
तत्प्रसङ्गोऽस्त्व इति चेत्; अत्राह - विशेषण इत्यादि ।
[विशेषणविशेष्याभ्यामुक्तौ च क्रियया सह । अयोगं योगमपरैरत्यन्तायोगं न चान्यथा ॥ ३२ ॥ व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः । सामर्थ्याच्चाप्रयोगेऽर्थो गम्यः स्यादेवकारयोः ॥ ३३॥
न वै पुरुषेच्छया चित्रो धनुर्धर एव, पार्थ एव धनुर्धरः; नीलं सरोजं भवत्येवेति अयोगव्यवच्छेदादिस्वभावस्थितवाक्येषु अन्यथात्वं संभाव्यते, तथाप्रतिपत्तिप्रसङ्गात् । २० तत एव एवकार प्रयोगविकलेष्वपि वाक्येषु सामर्थ्यात् भवत्येव अयोगव्यवच्छेदादिप्रतिपत्तिः, न विवक्षया तत्प्रतिपत्तिः, तद्ग्रहणत्वात् । तथैव स्यात्कारप्रयोगविकलेष्वपि वाक्येषु स्वरूपादिप्रतिपत्तिः ।]
विशेषणं नीलत्वादि विशेष्यम् उत्पलत्वादि ताभ्याम्, क्रिया भवत्यादिका तया च सहोक्तौ द्र ( प्र ) योगे सति अयोगं योगमपरैरत्यन्तायोगं व्यवच्छिनत्ति । २५ इत्याह- धर्मस्य । कः ? इत्याह- निपातः । किं सर्वः ? न, इत्याह-व्यतिरेचकः
कस्य
(१) अत्र प्रतिस्त्रुटिता । (२) तुलना - " यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितबाह्यर्थं तत्तथा वाचकं वचः ॥ दाराः पण्णगरीत्यादौ " १ - प्र० वा० ३।६५, ६६ । ( ३ ) अत्र प्रतिस्रुटिता । ( ४ ) तुलना - " अयोगं योगमरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ विशेषणविशेष्याभ्यां क्रियया च सहोदितः । विवक्षातोsप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ " - प्र० वा० ४।१९०-९२ ।
१५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org