________________
૬૮
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
एवकार इत्यर्थः । तथा [हि ] - विशेषणेन सहोक्तौ 'अयोगं विशेषेण (ध्येण) अन्ययोगं क्रियया वा अत्यन्तायोगम् एवकारो धर्मस्य [ व्य] वच्छिनत्तीति । पुरुषेच्छातो न स्वस्वभावत इति चेत्; अत्राह - न च नैव अन्यथा उक्तापिछातः (क्तोऽपीच्छातः ) 'तं तस्य संव्यवच्छिनत्ति तथाऽदर्शनात् । नहि 'चित्रो धनुर्धर एव' इत्युक्ते इच्छातोऽपि परयोगस्य व्यवच्छेदः प्रतीतिविषः (षयः) ५ इतरथा यथाविन्यासमेव च इष्टार्थप्रतीतेः भिन्नप्रक्रमयोजनं सर्वत्र अयुक्तं भवेत् । स्यादेतत्अनादिरयं सङ्क ेतो विशेषणादिना सह प्रयुज्यमान एवकारोऽयोगादिव्यवच्छेदकृदिति, ततः तथा प्रतीतिः न शब्दस्वभाव्यात् [५०७ ] अन्यथा सङ्क ेते हि तथैव तं व्यवच्छिनत्ति, न वादौ प्रसास्ति (न चात्र दोषोऽस्ति ) इति तदयुक्तम् ; यतः तथा सङ्क ेतयतोऽपि लोकस्यानिवृत्तेः । न खलु 'पक्षस्यैव धर्मो हेतु:' इति वाक्याद् 'अयोगव्यवच्छेदं प्रतिपद्यस्व' इत्युक्तोऽपि लोकः तथा १० प्रतिपद्यते इति ।
1
अत्रैव युक्तयन्तरमाह - सामर्थ्याच्च इत्यादि । च शब्दः अपिशब्दार्थः भिन्नप्रक्रमः । ततोऽयमर्थः - अप्रयोगेऽपि अनुच्चारणेऽपि । कयोः ? स्यादेवकरयोः । किम् ? इत्याह- गम्यः । कः ? इत्याह-अर्थः । कुतः ? इत्यत्राह - सामर्थ्यात् । एतदुक्तं भवति - यदि इच्छा एव तदर्थः प्रतीयते, तदा " तदप्रयोगे तदिच्छास्तीति कुतो निश्चयः ? अथ च तदर्थः सामर्थ्यात् १५ प्रतीयते इति ।
[कारि]काया युगलं विवृण्वन्नाह - चित्रो धनुर्धर एव इत्यादि । चित्रो विशेषः (यः) तस्य धनुर्धर इति विशेषणम् अस्मात् पर एवकारः, पोऽर्थोजना (पार्थः अर्जुनः) विशेष्यः अस्माच्च परः एव स (एवकारः ) तद्विशेषणं धनुर्धर इति, 'नीलं सरोजम्' इति विशिष्टं कर्तृ निर्दिष्टं तत्क्रिया' भवति' इति, अस्याः पर एवकार इत्येवं यथा स्तम् (स्वम) अयोगा ( ग ) व्यव - २० च्छेदादिना स्वभावेन स्थितानि यानि वाक्यानि तेषु नवै नैव पुरुषेच्छया अन्यथात्वं विपरीतत्वं संभाव्यते । कुतः ? इत्याह- तथा इत्यादि । तथा तेन पुरुषेच्छया अन्यथात्वप्रकारेण प्रतिपत्तिप्रसङ्गात् अयोगव्यवच्छेदादिसंवित्तिप्राप्तेः । अथवा ' तथा सौगताभिमतप्रकारेण प्रतिपत्तिप्रसङ्गात् ' [ ५०७ख] इति ग्राह्यम् । विशेषणादिसहि स तान्न ( सहितात्त ) तो गर्दभादिप्रतीतिप्रसङ्गादिति ।
अधुना 'सामर्थ्याच्च' इत्यादि व्याख्यातुमाह - तत एव इत्यादि । तत एव पुरुषेच्छया अन्यथा संभावनाभावादेव सामर्थ्याद् भवति अयोगव्यवच्छेदादिप्रतिपत्तिः । क ? इत्याहवाक्येषु । किंभूतेषु इत्याह-एवकारतत्प्रयोगविकलेष्वपि । विवक्षया तत्प्रतिपत्तिरिति चेत्; अत्राह-न विवक्षया तत्प्रतिपत्तिरिति । तथाहि - "पक्षधर्मस्तदंशेन व्याप्तः " । [प्र०वा०३।१] इत्यादि वाक्ये अन्यथा विवक्षायामपि नान्यथात्वं संभाव्यते प्रमाणबाधनात्, ३० प्रत्यक्षाभासवत् ।
२५
(१) असम्बन्धं व्यवच्छिनत्ति । (२) अन्येन सह सम्बन्धं व्यवच्छिनत्ति । (३) अत्यन्तसम्बन्धाभावं व्यवच्छिनत्ति, तत्र सम्बन्धमेव द्योतयति । ( ४ ) अयोगादिकम् । (५) विशेषणादे: । (६) एवकारो निपातः । ( ७ ) अन्यसम्बन्धस्य (८) चैत्राद् भिन्नस्य मैत्रस्यापि धर्नुधरत्वाविरोधात् । (९) सङ्केतात् । (१०) एवकाराद्यप्रयोगे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org