________________
९।३४ ]
एवकारादिप्रयोगविचारः
ननु यदि वकार प्रयोग विकलानि वाक्यानि कानिचित् सन्ति, कुतः तेषु इदमवगम्यते'अयमर्थः अत्र एवकारस्य' इति ? नहि शशशृङ्गस्य अयमर्थ इति शक्यमवसातुम् | अदर्शनमुभयत्र, इति चेत् ; अत्राह - तद्ग्रहणलादिति । तेन सामर्थ्यलभ्येन अर्थेन ग्रहणम् उपादानं यस्य एवकारस्य तस्य भा[वा ]त्तत्त्वात् । यथैव हि धूमः प्रतीयमानः स्वकारणमग्निं [] दविनाभावाद्गमयति तथा अर्थोऽपि कुतश्चित् प्रतीयमानः स्ववाचक मव्यभिचारं' । तद्यथा, *"नंधुखे [s]गे" ५ [ जैनेन्द्र० १|१| १८] इत्यनेन वोः (धोः) एवै (एबेप) योः प्रतिषेध उच्यमानः तयोः विकारि[विकारव] द्भावं सूचयति तदभावे तयोरभावात् प्रतिषेधानुपपत्तिः । ततो ज्ञायते ' न वोः (धोः ) सर्वस्य खे' इति, सोऽपि ज्ञायमानः श्रुतार्थापत्त्या एकदेशशब्दं गमयतीति, लोकेऽपि 'स्थूल बहलो देवदत्तो दिवा न भुङ्क्ते' इति वाक्यं [५०८क] 'रात्रौ भुङ्क्त' इति गमयति । एतत् स्यात्कारेऽपि अतिदिशन्नाह - तथैव इत्यादि । तेन सामर्थ्यप्रकारेण स्यात्कार विकलेष्वपि १० वाक्येषु । किम् ? इत्याह- स्वरूपादि इत्यादि ।
प्रमाणविरोधं दर्शयन्नाह - चैत्रस्याद्य (स्य इत्यादि । )
[ चैत्रस्यायोगे व्यवच्छिन्ने योगः प्रतिपादितो भवेत् । सर्वथा चैत्रता सिध्येन्न च स्याद्वादविद्विषाम् ||३४||
चैत्रो धनुर्धर एव इति तदयुक्तम् - पक्षधर्म एव इत्ययोगव्यवच्छेन विशेषणम् । १५ यदि पुनः अन्ययोगव्यवच्छेदेन पक्षधर्मं विशेषयेत् पक्षस्यैव धर्मो हेतुरिति तद्विशेषणापेक्षस्य हेतोरसाधारणता अन्यत्राप्यवृत्तेः इत्ययुक्तम्, कथम् १]
(अयम) भिप्रायः - चैत्रस्य धनुषा अयोगे व्यवच्छिन्ने योगः प्रतिपादितो भवेत् इतरथा 'चैत्रो धनुर्धर एव' इति प्रयोगानुपपत्तिः । स च सर्वथा, कथंचिद्वा स्यात् ? आद्ये पक्षे चैत्रस्य धनुषा [अ] योगे व्यवच्छिन्ने सति न २० चैत्रता सिध्येत् धनुर्भावः सिध्येत् । केषाम् ? इत्याह- स्याद्वादविद्विषाम् एकान्तवादिनाम् इत्यर्थः । सर्वथा तस्य तेन योगे गर्दभीक्षीरतापत्तिः तयोः अन्यथा एकान्त इति भावः । कारिकां व्याख्यातुमाह-चैत्रो धनुर्धर एव इति इत्यादि । निगदेनें विवृतमेतत् । ततः किं जातम् ? इत्याह- तदयुक्तम् इत्यादि । तत् तस्मादुक्तन्यायात् अयुक्तम् अनुपपन्नम् । किम् ? इत्याह-पक्षधर्म एव इति अयोगव्यवच्छेदेन विशेषणम्, पक्ष-धर्मयोरेकत्वापत्त्या गुडयोरसतापत्तेः (गुणिगुणयोरसत्त्वापत्तेः) पुनः अयोगव्यवच्छेदव्यवस्थापरेण अन्यत्र दूषणमुक्तम्, त[द्] दूषयितुं प्रकटयन्नाह - यवि (दि) पुनः इत्यादि । [ पुनरिति ] पक्षान्तरद्योतने अन्ययोगव्यवच्छेदेन अन्यो विपक्षः तेन अयोगः पक्षधर्मस्य तस्य व्यवच्छेदो निरासः तेन विशेषयेत् पक्षधर्मं पक्षस्यैव धर्मो हेतुरिति कश्चिद् व्याख्याता *" पक्षधर्मस्तदंशेन " [हेतुबि० पृ० ५२] इत्यादेः । तत्र दूषणमाह कीर्त्ति [स्तद्विशेष ] णेत्यादि । स च पक्षो ३०
२५
६४९
>
Jain Education International
(१) यथा स्यात्तथा ' गमयति' इति सम्बन्धः । (२) 'धु' इति धातोः संज्ञा । ( ३ ) प्रयोगः । (४) स्वशब्देन । (५) हेतुबि० पृ० ५२ । ( ६ ) अन्ययोगव्यवच्छेदे । (७) धर्मकीर्तिः । (८) "तद्विशे षणापेक्षस्यान्यत्राननुवृत्तेरसाधारणतेति चेत्; न; अयोगव्यवच्छेदेन विशेषणात् । " - हेतुबि० पृ० ५२ ।
८२
For Personal & Private Use Only
www.jainelibrary.org