________________
६५०
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः विशेषणं च [५०८ ख] तत् , तस्मिन्नपेक्षा यस्य, तद[पेक्षा तद्विशेषणे, तद्विशेषणा]पेक्षः तस्य । कस्य ? हेतोः लिङ्गस्य । किम् ? इत्याह-असाधारणता । कुतः ? इत्याह [अन्यत्रापि विपक्षेऽप्यवृत्तेः । अत्र सूरिः दूषणमाह-इत्येवं परेणोच्यमानम् 'अयुक्तम्' इत्यनुवर्तते। क[थम् इति प्रश्ने, केन प्रकारेण [अ] युक्तम् इति ?
अस्योत्तरमाह-अन्ययोगव्यवच्छेदात् इत्यादि । ]
[अन्ययोगव्यवच्छेदात् सपक्ष एव सन्निति ।
सोऽपि चेत् पक्षधर्मः स्यात् एवकारस्य किं फलम् ॥३५॥ सजातीये सन्नेव हेतु रित्ययोगव्यवच्छेदे शब्दानित्यत्वे प्रयत्नानन्तरीयकत्वादेरहेतुत्वप्रसङ्गभयात् 'सजातीय एव सन्' इति अन्ययोगव्यवच्छेदेनैव विशेषयेत् , तथैव १० विशेषितोऽपि तद्धर्मः सन् एकान्तमतिक्रम्य यदि वस्तुस्वभावेन पक्षधर्मः स्यात् तर्हि पक्षे एव सन्निति विशेषितोऽपि सजातीये वर्तेत स्वरसतः अनेकान्तावलम्बनात् । न च"तदन्तव्योप्तेः अन्ययोग]
[अन्य]योगव्यवच्छेदेन हेतुना सं (सन् ) विद्यमानः सपक्ष एव नान्यत्र तद्विरुद्ध हेतुरिति [सम्बन्धः]स इत्थंभूतोऽपि चेद् यदि पक्षधर्मः स्यात् इतरथा चाक्षुषत्वादिवद् १५ अपक्षधर्मः स्यात् , तदपेक्ष एव सन् सपक्षे किन्न स्यात् ? स्यादेव । विशेष्येण सह एवकारस्य उच्चारणे किं फलम् इति चेत् ? अथ 'तत्तुल्य एव सन्' इत्यत्र किं फलम् ? अतुल्ययोगव्यवच्छेद्य (द) इति चेत् ; अन्यत्रापि स एवास्तु । तुल्ययोगव्यवच्छेदः कस्मान्नेति चेत् ? पक्षयोगव्यवच्छेदो भवतोऽप्यस्तु, विपक्षवत् पक्षोऽपि अन्य एव । एतत् परे परिहरन्ति इत्थम्
*"अनुमेयेत् कथ (येऽथ) तत्तुल्ये सद्भावः" इत्यत्र अनुमेये प्रथमं हेतोः सद्भावमभिधाय २० 'तत्तुल्य एव' इत्युच्यमानम् उक्तनिषेधकं न भवति, यथा *"द्वौ पुत्रौ जनयांबभूव नरं नारायणमेव च" इति 'नारायणमेव' इति श्रुतिः नरमुक्तं न निषेधति, अनुक्तनिषेधपरत्वात्। अत्रापि इदमेवोत्तरम्-अन्ययोगव्यवच्छेदात् इत्यादि । एवमर्थं च स तु '(सन् ) सपक्ष एव' इत्यभिप्राय (यः) । 'पक्ष एव सन्' इत्युक्ते यथा परेण [५०९क] 'पक्षधर्मः' इत्युक्त्वा
'तदंशेन' इत्युक्तम् । २५ कारिकार्थ प्रकटयितुं *"सन् सजातीय एव" इत्यवधारणे पराभिप्रायं द्योतयन्नाह'सजातीये सन्नेव इत्यादि । सजातीये सन्नेव नाऽसन् मनागपि हेतुः इत्येवम् अयोगव्यवच्छेदे अङ्गीक्रियमाणे शब्दानित्यत्वे साध्ये प्रयत्नानन्तरीयकवादेः आदि शब्दादन्यस्यापि तत्प्रकारस्य सपक्षैकदेशवृत्तेः अहेतुत्वप्रसङ्गभयात् अन्ययोगव्यवच्छेदेनैव विशेषयेज्जनः 'सजातीय एव सन्' इति ।
(१) अत्र प्रतिस्त्रुटिता। (२) अन्न प्रतिस्त्रटिता। (३) “यदेतदाचार्येण-अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसति । निश्चित ...."-हेतु बि० टी० पृ० २२२ । (४) "नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयांबभूतव"-हेतुबि. टीकालो पृ० २४७ । (५) "पक्षधर्मस्तदंशेन व्याप्तो हेतुः"-हेतुबि. पृ० ५२ । (६) “तत्र हेतुलक्षणमेव तत्र यः सन् सजातीये' इत्यादिकं युक्तं व तुम्'-प्र० वा. मनोरथ० ४।१८९।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org