________________
९।३६]
एवकारादिप्रयोगविचारः
६५१
1
एतद् दूषयितुं सूत्रार्थमाह-तथैव इत्यादिना । तथैव अन्ययोगव्यवच्छेदप्रकारेणैव विशेषितो - ऽपि तद्धर्मः सन् एकान्तमतिक्रम्य विशेष्येण सहोदितो निपातो व्यतिरेचकः अन्ययोगव्यवच्छेदनियममपहाय । केन ? इत्याह- वस्तुस्वभावेन शब्दमाहात्म्येन यदि पक्षधर्मः स्यात् । तर्हि पक्षे एव सन्निति विशेषितोऽपि सजातीये वर्त्तेत । कुतः ? इत्याह- स्वरसतः स्वभावेन अनेकान्तावलम्बनात्। अन्ययोगव्यवच्छेदेऽपि 'अनुक्तस्यैव व्यवच्छेदो नेतरस्य' इति योऽयम् ५ अनेकान्तः तस्याश्रयणात् कारणात् 'पक्ष एव सन्' इत्युक्तेऽपि सपक्षे वृत्त्यनिषेधः । हि पूर्वोक्तस्यैव एकस्मिन् वाक्ये पश्चादप्युक्तस्याऽनिषेधः, तद्यथा ।
*"जिन एव परा भक्तिः सर्वज्ञे नरसेविधं (विते) | सिसासने (१) तस्य सर्वदा ।। " अस्याप्रमाणत्वे प्रकृते कः समाश्वास इति न किञ्चिदेतत् ।
यत्पुनरुक्तम्–'असाधारणता स्यात्' इति सोऽपि (सापि ) न दोष इति दर्शयन्नाह - न च १० इत्यादि ।[५०९ख] कुतः ? इत्याह- तदन्तर्व्याप्तेः इत्यादि । विचारितमेतत् । तन्न 'पक्ष एव सन्' इत्युक्तेऽपि असाधारणता नाम दोषः, अय तुं स्यादिति दर्शयन्नाह - अन्ययोग इत्यादि । यच्चान्यदुक्तम् - * “क्रियया सहोदितोऽत्यन्तायोगमेव च व्यवच्छिनत्ति निपातो व्यतिरे [च] कः ।" [प्र० वा० ४। १९०] इति ; तत्र दूषणमाह - प्राप्तम् इत्यादि । [प्राप्तं नीलं सरोजैकरूपं व्यक्तमिदं जगत् । नित्यं समन्ताद्भवत्येव चेन्नीलं सरोजमिति ॥ ३६ ॥
नीलं सरोजं
भवत्येवेत्यत्यन्तायोगव्यवच्छेदै कान्ते स्वकालादिनियमाक्रान्तं
सर्वं नीलमयं सरोजात्मकं शाश्वतं जगत् स्यात् । ततो नीलं सरोजमित्येव न स्यात् व्याघातादिति । कथमन्यथा अनेन 'पक्षस्य धर्मो भवत्येव' इति नाश्रियेत ? यतोयोगव्यवच्छेदेनैव विशेषयेत् ? तन्न ं न च स्याद्वादे काचिदनवस्थितिः, स्वयमभिमत - २० वस्तुतत्त्वप्रत्यायनात् ।]
नीलं सरोजं भवत्येव इति चेत् यदि तर्हि समन्तात् नित्यं सर्वदा नीलं सरोजैकरूपं व्यक्तं यथा भवति तथा इदं जगत् प्राप्तम् । [ अम् ] अभिप्रायः - सर्वथा, कथंचिद्वा नीलं सरोजं भवत्येव ? प्रथमपक्षे अयं दोषः । अन्यत्र अनेकान्त इति ।
१५
कारिकाविवरणमाह-नीलम् इत्यादि । नीलं सरोजं भवत्येवे [ति एव ] मत्यन्तायोगव्य - २५ वच्छेदैकान्ते अङ्गीक्रियमाणे । किम् ? इत्याह-स्व इत्यादि । काल आदिर्यस्य द्रव्यादेः स तथोक्तः पुन [:] स्वशब्दो (ब्दे) नास्य कर्मधारयः तेन नियमः तेन, स च अतिक्रान्तो येन तत्तथोक्तम्, सर्व नीलमयं जगत् स्यात् । किं नीलमयमेव स्यात् ? न, इत्याह- सरोजात्मकं जगत् स्यात् । शाश्वतं नित्यं स्वकालनियमातिक्रमात् । ततः को दोषः ? इत्याह- तत इत्यादि । तस्मात् अनन्तरैकान्तात् नीलं सरोजम् इत्येव न स्यात् । कुतः ? इत्याह- व्याघातादिति । 'यदिति” ३०
(१) कथंचिदिति पक्षे । (२) 'यदिति' व्यर्थमत्र ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org