________________
६५२ सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः यदि नीलमय[न] सरोजात्मकम् , अथ तदात्मान]नीलात्मकम् इत्यनयोः अन्योन(ऽन्य)विरोधात् । ___स्यान्मतम्-'नीलं सरोजं भवत्येव' इति वचनेऽपि नायं दोषः यथाभावस्वभावम् अभिधानप्रवृत्तेरिति चेत् ; अत्राह-कथमित्यादि । [५१०क] अनेनं, अस्य दोषस्य अभावप्रकारेण ५ अन्यथा पक्षस्य धर्मो हेतु[:]भवत्येव इति कथं नाश्रियेत यतोऽनाश्रयणात् अयोगव्यवच्छेदेनैव विशेषयेत् । । प्रकृतं निगमयन्नाह-तन्न इत्यादि ।
ननु स्याद्वादेऽपि तथैव दोषः; इत्याह-न च इत्यादि । [नच] नैव स्याद्वादे काचिद् अनवस्थितिः भावानामवस्थितेरभावः । कुतः ? इत्याह-स्वयं जैनस्य अभिमतं यद्वस्तुतत्त्वं तस्यैव प्रत्यायनात् । पुनरपि वक्त्रभिप्रेतमर्थं शब्दाः सूचयन्तीत्येकान्ते दूषणमाह-एवकार इत्यादि ।
[एवकारः स्वतः स्वार्थे स्वक्रममनुवर्तयन् ।
वक्त्रभिप्रायमित्यत्र यथा श्रूयेत तथा परः ॥३७॥ ध्वनयो वक्त्रभिप्रायमेव सूचयन्ति इत्येकान्ते यथा एवकारः भिन्नप्रक्रमः चकारो वेति यदा स्वार्थप्रतिपादने कथञ्चित् शक्तिस्वाभाव्यं न भवेत् स्वेच्छया क्रमं न लङ्घयेत् । १५ योगरूढेषु दाराः षण्णगरीत्यादिष्वपि भेदप्रतिपत्तौ शब्दशक्तिरेवानुगन्तव्या। विचारितं
चैतत् * “स्वाभाविकत्वादभिधानस्य एकशेषानारम्भः" इत्यत्र भगवद्भिः पूज्य पा दैः शब्दानुशासनदक्षैः। पदावधिकः समयः स्वार्थप्रतिपादने पुरुषाभिप्रायाधीनश्चेत् ; न; तावन्मात्रेण व्यवहाराभावात् । पदान्तरसन्निधाने स्वत एव विशिष्टार्थप्रतिपादने
कथं वाचकस्य स्वत एव शक्तिः प्रत्याख्यायेत ? एकपदस्य नानार्थप्रतिपादनसंभवे २० सर्वथा नियमासंभवात् एकान्तो न सिध्यति इत्यलं प्रसङ्गेन]
एवकारः स्वार्थे अयोगव्यवच्छेदादौ श्रूयेत स्वतो बौद्धन । किं कुर्वन् ? इत्याहअनुवर्तयन् अनुवर्तमानं प्रयुञ्जानः भिक्षादिवद् अचेतनस्यापि हेतुकर्तृत्वम् । किम् ? इत्याह-स्वक्रमम् स्वस्य आत्मनः क्रमम् । तकिमनुवर्तयन् ? इत्याह-वक्त्रभिप्रायमिति ।
क ? इत्याह-अत्र विवक्षा शब्दार्थ इत्येकान्ते । तदन्यत्र अतिदिशन्नाह-यथा एवकारः तथा २५ परोऽन्यस्तादिः (न्यः स्यादादिः) आदिशब्दः निपातराशिग्रहणार्थः श्रूयेत अनुवर्तयन्
स्वक्रमं वक्त्रभिप्रायम् । न चैवम् , व्यवधानेन प्रयोगेऽपि यावद्विशेषणादिना ना[भि]संबध्यते, सावत् ततः तदर्थाऽप्रतिपत्तेः इति भावः । ____कारिकाविवरणमाह-ध्वनयो वक्त्रभिप्रायमेव नार्थ सूचयन्ति इत्येकान्ते सति यथा
येन प्रकारेण एवकारः भिन्नप्रक्रमः, भिन्नः विशेषणादिव्यतिक्रमेण प्रक्रमः प्रयोगपरिपाटि३० र्यस्य स तथोक्तः, तस्यैय (तथैव) चकारो यत्तदोर्नित्यसम्बन्धात् [तथैवेति] गम्यते । न केवलं चकारः किन्तु 'वा' इति । इति शब्दः[५१०ख] प्रकारवाची वा, [एवं] प्रकारोऽन्योऽपि
(१) सरोजात्मकम् । (२) बौद्धेन । (३) जैनेन्द्र० १।१।१०० । (४)'त' इति व्यर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org