________________
६५३
९।३७]
एवकारादिप्रयोगविचारः शब्दः' । तत् किं कुर्यात् ? इत्याह-क्रमं स्वविन्यासस्थितिं न लङ्घयेत् पुरुषकारणे अन्यत्र उद्दिष्टो विशेषणादिना न सम्बन्धमहेत् यथान्यासमवे (थान्यासमेव)तमर्थं गमयेदित्यर्थः । कदा ? इत्याहयदि (यदेत्यादि)यदा शक्तिस्वाभाव्यं कथंचित् केनचित् प्रकारेण निगदितेन स्वार्थप्रतिपादनेन भवेत् । केन कृत्वा ? इत्याह-अस्तेच्छया(स्वेच्छया) पुरुषेच्छानुवर्तनेन, शब्दशक्तिस्वाभाव्ये तु तं लङ्घयेत् अन्यत्र निर्देशेऽपि विशेषणादिसम्बन्धमन्तरेण तदर्थाप्रतिपत्तेरिति । कथं तर्हि ५ तत्स्वाभाव्ये एकस्मिन् कामिनीकाये 'दाराः' बहुवचनम् ? तँस्य बहुत्वे नियतत्वात् । षण्णां नगराणां समूहे 'षण्णगरी' इत्येकवचनम् ? अस्य एकत्र नियमात् , षण्णगरव्यतिरेकेण तत्समूहाभावात् । दृश्यते च तद्वचनम्, ततो मन्यामहे विवक्षार्थाऽशब्दार्थाः शब्दाः) इति ; तत्राहयोग इत्यादि। [योगरूढेषु]दारा[:]षण्णगरी इत्यादिष्वपि ध्वनिषु न केवलं पूर्वेषु भेदप्रतिपत्तौ बहुत्वैकप्रतिपत्तौ शब्दशक्तिरेव अनुगन्तव्या न विवक्षामात्रम्, अन्यथा तत एकवचनादि- १० प्रसङ्गात् । विचारितं चैतत्-* "स्वाभाविकत्वादभिधानस्य एकशेषानारम्भः" [जैनेन्द्र० १।१।१००]इत्यत्र भगवद्भिः पू ज्य पा दैः शब्दानुशासनदक्षैः इति ।
पुनरपि परमतमाशङ्कते दूषयितुं पदावधिक इत्यादि। पदमवधिर्यस्य स तथोक्तः । कः ? इत्याह-समयः शब्दागमः । स किम् ? इत्याह-पुरुष इत्यादि । [५११क]पुरुषस्य वक्तुः अभिप्रायः समिच्छा तदधीनः तदायत्तः स्वार्थप्रतिपादने इति चेत् ; अत्राह-न इत्यादि । १५ यदुक्तं परेण तन्न । कुतः ? इत्याह-तावन्मात्रेण पदमात्रेण व्यवहाराभावात् शब्दस्य प्रवृत्तिरूपस्य निवृत्ति [रूपस्य वा] व्यवहारस्याऽयोगात् । न खलु घट इति वचनमात्रेण तद्भावः ।
स्यान्मतम्-पदान्तरेण अभिसम्बन्धाद् विशिष्टार्थप्रतिपत्तिः, ततो व्यवहार इति ; तत्राहपदान्तर इत्यादि । विवक्षितपदाद् अन्यत् पदं तदन्तरम् तस्य सनिधाने सति स्वत एव आत्मनैव पुरुषकृतसङ्कतमन्तरेण विशिष्टार्थप्रतिपादने अङ्गीक्रियमाणे । न हि सर्वा वाक्यार्थ- २० प्रतिपत्तिः सङ्कतमपेक्षते असकृत् पूर्ववाक्यादपि केषांचित् सुधियाम् अर्थप्रतीतिदर्शनात् कथं स्वत एव शक्तिः बाध (वाच)कस्य प्रत्याख्यायेत ? एवमभ्युपगम्य पदावधिकस्य समयस्य पुरुषाभिप्रायाधीनत्वमिदं दूषणमुक्तम् । ____ अधुना तंत्रापि तदधीनत्वं नास्तीति दर्शयन्नाह-नानार्थ इत्यादि । नानार्थस्य अनेकार्थस्यौकभ्य(स्यै कस्य)पदस्य प्रतिपादनं(न)संभवे, यथा *"अग्निहोत्रं जुहुयात् स्वर्गकामः" २५ [मैत्रा०६।३६] प्रत्यत्र (इत्यत्र) वाक्ये अग्न्यादिपदस्य वक्त्रभिप्रायमेव शब्दाः सूचयन्तीति नियमासंभवात् सर्वथा अयं परकीय एकान्तो न सिध्यति । तथाहि-यदि वक्त्रभिप्रायमेव शब्दाः सूचयन्ति ; तर्हि वक्तुः मीमांसकस्य अग्निः स्वेत्य (अंमिहः श्वा इत्य) भिप्रायाभावात् कथं कीर्तेः ततः स्वार्थ ( श्वार्थ) प्रतिपत्तिर्येन उच्यते
(१) ज्ञातव्यः । (२) इति । (३) दाराशब्दस्य । (४) एकवचन बहुवचनं च । (५) विवक्षातः । (६) समये । (७) पुरुषेच्छाधीनत्वम् । (0) अग्निं हन्तीति अग्निहः ३वा तस्य उत्रं मांसम् अग्निहोत्रमिति । (९) धर्मकीर्तेः । (१०) 'इवा' इत्यर्थस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org