________________
६५४ सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः *"[तेन] अग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत् [५११ख] श्वमांसमित्येष नार्थः इत्यत्र का प्रमा ॥"
[प्र. वा० ३।३१८] इति । तस्य] व्याख्यातैव वक्ता इत्युच्यते ; न ; व्याख्यातृकथितार्था[द]धिकस्यापि सयुक्तिके ५ श्रोतरि प्रमेयस्य प्रतिभासनात् । पतृक (प्रघट्टक) मुपसंहरन्नाह-इत्येवमर्थ (म् अलं) पर्याप्त प्रसङ्गेन वचनपरम्परया।
अथ मतम्-न परमाणुव्यतिरेकेण वर्णाः पदानि वाक्यानि च सन्ति अत्र (अन्यत्र)संवृतः, तत्कथमुक्तम् *"तद्भिदः (तद्भदः) प्रतिलब्धवर्णपदवाक्यात्मा" [सिद्धिवि०४।१] इति ? तत्राह-पदमित्यादि।
[पदमभिन्न भिन्नैः स्वैः आकारैरवभासते।
सदसद्भिर्यथा ज्ञानमात्मनीति प्रचक्षते ॥३८॥ यथादर्शनं ज्ञानतत्वव्यवस्थायामनेकान्तप्रसङ्गात् तत्त्वमेकरूपं कथञ्चिददृष्टपूर्वमास्थेयम् । तथा च व्यलीकमात्रानिर्भासमक्षरं वितथवर्णनिर्भासं पदमदृष्टपदार्थ वाक्यमप्य
प्रतिषिद्धम् अक्रमप्रतिपत्तेः । दृष्टहानिरदृष्टकल्पनेति चेत् ; संवित्तावपि समानः प्रसङ्गः । १५ तद्भदाभेदात्मकत्वे अन्यत्र कः प्रद्वषः ?]
___ तात्पर्यमत्र-सौगतस्य चित्रैकज्ञानोपगमे जैनस्य वर्णादि[:]सिद्धः। तदनभ्युपगमे निरंशतत्वोपगमाद् वैयाकरणस्य इति न तथागतस्य पतस्य (पर)पक्षपाताद् विमोक्षः इति । पदम् इत्युपलक्षणम् वर्णवाक्ययोः, ततो वर्णः पदं वाक्यं चावभासते । कैः सह ? इत्याह-आकारैः
भेदैः । किंभूतः ? स्वैः आत्मीयैः । कथंचित् तदात्मभूतैः, अन्यथा सत्त्वासिद्धः, समवायादि२० सम्बन्धनिषेधात् । पुनरपि किंभूतैः ? इत्याह-भिन्नः परस्परविलक्षणैः । किंभूतं तत् ? इत्याह
अभिन्नं स्वावयवसाधारणम्, अथवा निरंशम् । पुनरपि किंभूतैः ? इत्याह-सदा(सद)सद्धिरिति जैनमतापेक्षया सदभिः विद्यमानः वैयाकरण विशेषदर्शनापेक्षया असदभिः । अत्र निदर्शनमाह-यथा इत्यादि । यथा येन प्रकारेण ज्ञानम् आकारैः तथाविधैःअवभासते
इत्येवं केचित् प्रचक्षते जैनाः वैयाकरणाश्च ।। २५ ननु क तद[व]भासते ? स्वात्मनि इति चेत् ; विज्ञानम् । अन्यस्मिन् प्रत्यक्षे चेत् ; न ;
तनिषेधात्, [५१२क] सतोऽपि तस्य वर्तमानमात्रपर्यवसानाच्च । नानुमानेऽपि ; प्रत्यक्षाभावे तदभावात् इति चेत् ; आत्मनि अनेकात्मनि स्वपरसंवेदनपरिणामात्मनि तदवभासते इति ब्रूमः । तदुक्तं न्या य वि नि इच ये-*"आत्मनाऽनेकरूपेण" न्यायवि० ११८] इत्यादि । पूर्वपूर्ववर्णश्रवणाहितसंस्कारस्य अन्त्यवर्णश्रवणात् पूर्ववर्णस्मरणे सति मानसं प्रत्यक्षमुपजायते,
(१) अत्र प्रतिः घृष्टा । (२) प्रकरणम् । (३) स्फोटवादिनो मतसिद्धिः । (४) विज्ञानवादः स्यात्, अथवा विज्ञानरूपतापत्तिः । (५) प्रत्यक्षस्य । (६) अनुमानोत्पत्त्यभावात् । (७) "नादेनाहितबीजायामन्येन ध्वनिना सह । आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवभासते ॥"-वाक्यप० ११८५। न्यायकुमु० टि० पृ० ७४९ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org