________________
९।३९)
स्फोटविचारः तत्रावभासते इत्येके । तदसत्यम् ; निरंशैकस्वभावे तत्र क्रमभाविवर्णादिप्रतिभासायोगात् । शेषं चिन्तितमत्र ।
___ कारिकां विवृण्वन्नाह-[यथा]दर्शनमित्यादि। दर्शनानतिक्रमेण यथादर्शनंज्ञानतत्त्वव्यवस्थायां क्रियमाणायाम् अनेकान्तप्रसङ्गात् अनेकान्तात्मकवर्णादिप्रसङ्गात् कारणात् तत्त्वं ज्ञानं वस्तु, किंभूतम् ? एकरूपम् निरंशमास्थेयम् । पुनरपि किंभूतम् ? इत्याह-कथंचित ५ प्रत्यक्षादिप्रकारेण स्वसंवेदनाद्वैतादिप्रकारेण वा[5] दृष्टपूर्वम् , न हि निरंशं ज्ञानं पुरुषवत् द्रष्टुं शक्यम् । इष्यत एव तथाविधं ज्ञानतत्त्वमिति चेत् ; अत्राह-तथा च तेन च तथाविधज्ञानाभ्युमगमप्रकारेण अक्षरम् 'अप्रतिषिद्धम्' इति गत्वा सम्बन्धः करणीयः । किंभूतम् ? इत्याहव्यलीकमात्रानि सं व्यलीकोऽसत्यो मात्राणां ह्रस्वादीनां निर्भासो यस्मिन्निति । न केवलम् अक्षरम् अपि तु पदमप्यप्रतिषिद्धम् । किंभूतम् ? इत्याह-वितथवर्णनिर्भासं तथा वाक्यमपि १० अप्रतिषिद्धम् । किंभूतम् ? इत्याह-दृष्टपरमार्थम् (अदृष्टपदार्थम् ) असत्यपदप्रतिभासम् । कुत एतत् सर्वम् ? इत्याह-अक्रमप्रतिपत्तेः इत्यादि । [५१२ख]
परमाशङ्कत दूषयितुं दृष्टहानिः इत्यादि । दृष्टस्य मात्रादिभेदस्य हानिः अदृष्टस्य निरंशाक्षरादेः कल्पना इति चेत् ; अत्राह-संवित्तावपि न केवलम् अक्षरादौ समान[:]प्रसङ्गो दोषः । न समानः तत्र चित्रैकरूपत्वोपगमात् *"चित्रप्रतिभासाप्येकैव बुद्धिः" [प्र० १५ वार्तिकाल० ३।२२०] इत्यादि वचनादिति चेत् ; अत्राह-तद् इत्यादि । तस्याः संवित्तेः भेदाभेदात्मकत्वे अन्यत्र वर्णादौ कः प्रद्वेषः भेदाभेदात्मकत्वस्य यत्तत्रं तन्न भवेत् ?
__ नानु (ननु) नादृष्टपूर्व ज्ञानतत्त्वमिष्यते येनायं दोषः, अपि तु दृष्टम् , स्वसंवेदनात्मकस्य परोक्षत्वविरोधात् । तत्पुनरभिन्नमिव अवभासते । तदुक्तम्
*"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादि, *"मन्त्राद्युपप्लुताक्षाणाम्" [प्र० वा० २।३५५] इत्यादि च । तत्राह-अभिन्नम् इत्यादि ।
[अभिन्नमन्यथा ज्ञानमात्मानमवभासयेत् ।
नाक्रमं सक्रमं कुर्यात्तज्ज्ञानं पदमविद्यया ॥३९॥ यदि पुनः ज्ञानपरमाणवः सर्वथा भिन्नाः; कुतस्तत्त्वमन्यथा प्रतिभासेरन् ? २५ वेद्याकारः पुनः वेदकाद्याकारविलक्षण एव संवित्स्वभावमतिवर्तेत अर्थान्तरवत् । वेदकाकारः तद्व्यतिरेकेणासंवेद्यः कथं चेतनः यतः तस्य स्वसंवित्तिः स्यात् ? तन्न तदभेदैकान्ते विभ्रमवशादन्यथावभासः, बहिरपि विभ्रमवशात् निकलस्यैव पदादेरन्यथावभासः कल्पेत ।] - अभिन्नमविभागं ज्ञानं यत् सौगतेष्टम् अन्यथा ग्राह्यग्राहकसंवित्तेर्भेदवन्तमिव ३०
(१) स्फोटवादिनः । (२) अक्षरादौ । (३) भेदामेदात्मकत्वम् । .
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org