________________
५
स्यान्मतम्-न ज्ञानमन्यथा आत्मानमवभासते चत्प्रतिसदा ( तत्प्रतिभासा) द्वयस्यावभासनात् । केवलं विकल्पबुद्धिः ग्राह्यग्राहकसंवित्तिभेदकलुषितमिव थदव्य ( तदध्य) वस्यति । []त एव 'केनचिदुक्तम् -* " ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते" [प्र० वा० २।३५४ ] न 'गृह्यते' इति ; तत्राह - यदि पुनः इत्यादि । [ यदि ] चेत् पुनः इति वितर्के । ज्ञानपरमाणवः । किंभूताः ? इत्याह - [ ५१३ क ] सर्वथा भिन्नाः परस्परव्यावृत्ततनवः तत्त्वम् १० इत्यव्यारो (त्यध्याहारोऽ ) न्यथा बंध ( स्कन्ध) स्य नि [ : ] कलत्वासिद्धेः । ततः किम् ? इत्याह- कुतः कारणात् न कुतश्चित् कथंचिदेकत्वेन उपलक्षणमेतत् तेन स्थूलत्वेन दीर्घत्वेन सावयवत्वेन प्रतिभासेरन् । नहि यद्र पं यन्न भवति तद्रूपेण स्वग्राहिणि ज्ञाने तत् प्रतिभाति, इतरथा चक्षुषि रूपं च रसात्मना प्रतिभासेत । नास्ति च तत्परमाणुषु प्रत्येकं समुदितेषु वा तदेकत्वादिकमिति, प्रतिभा सन्ते च, संहृताशेषविकल्पदशायामपि स्थूलस्यैकस्य दर्शनात् । तदुक्तं धर्म कीर्त्तिनापि - * सरूपयन्ति किं ज्ञानं स्थूलाभासं च तेऽणवः ।”
"
६५६
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
आत्मानं स्वस्वरूपमवभासयेत् । कया ? अविद्यया । तत्किं कुर्यात् ? इत्याहनाक्रममित्यादि । अक्रमं कमरहितं सक्रमं क्रमवदिव कुर्यात् गृह्णीयात् करोतेः क्रियासामान्यवाचित्वात् । किम् ? न कुर्यादेव तज्ज्ञानम् ? किम् ? पदम्, उपलक्षणमेतत् वर्णादेः । कया ? अविद्यया इति ।
१५
"
[प्र० वा० २।३२१] इति । स्यान्मतम्–नाभात्येष आकारः, स तु ग्राह्याकारोऽसन्नेव * " मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र० वार्तिकाल० ३।२११] इति वचनादिति चेत्; अत्राहवेद्याकार इत्यादि । वेद्याकारः ग्राह्याकारः स्थूलैकरूपः 'यदि' इत्यनुवर्तते पुनः वेदकाद्या२० कारविलक्षण एव, वेदकः येनासौ वेद्याकारो गृह्यते, तदभावे तदप्रतीतिः । स्वतः प्रतीतिरिति चेत् ; प्राप्तं ज्ञानत्वम् इति चित्रकतत्त्वसिद्धिः । न चैतत् परस्य पथ्यम्, ततो ज्ञानादन्य एवासौ । स आदिर्यस्य, संवेदनाकारस्याप्यभावे तदसिद्धिः । नहि क्रियारहितं कर्म अस्ति, तदेवाकारः तस्माद् विलक्षण एव भिन्न एव संवित्स्वभाव (वं ) ज्ञानस्वरूपं स्वसंवेदन - लक्षणमतिवर्त्तेत अतिक्रामेत्, वेद्याकारोऽचेतनः स्यात् इत्यर्थः । तथा च " यदवभासते २५ तज्ज्ञानं यथा सुखादि" इत्यस्य / अनेन व्यभिचारः । [५१३ ख]
अनेन * " नान्योऽनुभाव्यो बुद्ध्यास्ति" [प्र० वा० २।३२७] इत्यादि निरस्तम् ।
अत्र निदर्शनमाह-अर्थान्तरवत् इति । नीलार्थाद् अन्योऽर्थः तदन्तरम् पीत्यादि (पीतादि) दिव तद्वत् इति । यथा पीतं नीलस्वभावमतिवर्त्तते तथा वेद्याकारोऽपि संवित्स्वभावमिति । यदि वा, संवित् कर्त्री स्वभावं नीलबोधरूपताया (तया) द्वयात्मानं * " विषयज्ञानं
(१) प्रतिभासाद्वैतम् । (२) धर्मकीर्तिना । ( ३ ) इत्युक्तमपि तु 'लक्ष्यते' - आभाति इत्युक्तम् । (४) "ते परस्परं भिन्ना अणवः तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूपयन्ति ? यदणुस्वरूपमस्थूलमस्ति न तत् ज्ञानारूढम् । यश्च ज्ञानारूढं स्थौल्यं नाणुषु तदस्ति । " - प्र० वा० मनोरथ० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org