________________
९।२७ ] न विवक्षामात्रवाचकत्वं शब्दानाम्
६४१ ज्ञानं स्वार्थस्यापि दायाद इव धनम् आकारं गृह्णाति इत्युच्यते । सदृशं च तत् सर्वनीलाथैः इति । यदि स्वार्थेनैव सारूप्यम् ; तर्हि चित्रो मित्रानुकारीति लोके व्यपदेशो न स्यादिति ।
ननु स्वार्थस्यैव रूपं स्वीकुर्वदुपलभ्यते ज्ञानम् [न] नीलान्तराणाम् तेन एवमुच्यते इति चेत् ; अत्राह-तदाकार इत्यादि । तेषां नीलान्तराणाम् आकारानुकारित्वात् संविदाम् । भवत्वेवम् , ततः किम् ? इत्याह-प्रत्यक्षम् इत्यादि।
[प्रत्यक्षं सदसद्र,पसामान्यार्थं तथा स्मृतिः।
प्रत्यभिज्ञा वितर्कश्च सङ्कतस्तत्र नासति ॥२७॥ सदसदात्मनि प्रत्यक्षमन्यत्र स्मरणादिकं प्रमाणं तद्व्यवहारान्यथानुपपत्तेः । शब्दार्थविकल्पयोः तद्विषयत्वात् । तत्र समयः कर्तुं शक्यः फलवानपि तादृशस्त्रिकालविषयत्वात् । अन्यथा अर्थक्रियानुपपत्तेः कथं कुतश्चित् व्यवहारप्रवर्तनं यतः तत्प्रामाण्यम् , १० अर्थक्रिया[ऽभावे तदभावात् ।]
प्रत्यक्षं चक्षुरादिज्ञानम् । तत् किंभूतम् ? इत्याह-सद इत्यादि । सच्च विज्ञानं तस्य स्वयमुपलभ्यमानत्वात्-*"उपलम्भः सत्ता" [प्र. वार्तिकाल० २५४] इति, असच्च तत् स्वकारणकारणादिकम् , अस्य साक्षादप्रतीतेः सदसती तयो रूपं स्वभावो न व्यावृत्तिमात्रं ततो भिन्नं वा, तत्स्वामान्यं(तत्सामान्य) च सदृशपरिणामलक्षणमर्थो यस्य १५ तत्तथोक्तम् । यथा अर्थेऽदृष्टेऽपि तत्सदृशज्ञानदर्शनदर्शनात् 'ने' नीलादिता 'दृष्टा' इत्युच्यते, तथा शावलेयादावदृष्टेऽपि तत्सदृशखण्डदर्शनात् तत्सदृशपरिणामसामान्यं दृष्टमुच्यतामिति भावः । तवा च (तथा च) यदुक्तम् अ र्च टा दि ना-*"एकव्यक्तिदर्शनकाले अन्यासामदर्शनात् [५०२क] कथं तदाधारं सामान्यं प्रत्यक्षतः प्रतीयते ?" इति ; तदनेन निरस्तम् । भवतु प्रत्यक्षं तदर्थम् , ततः किम् ? इत्याह-तथा तेन प्रकारेण स्मृतिः सदसद्र प- २० सामान्यार्थेति, तथा प्रत्यभिज्ञा तदर्था, वितर्कश्च तदर्थः सङ्केतः तत्र तस्मिन् याये(न्याये) सति नासति अपोहे अपि तु वस्तुनि ।
___कारिकां विवृण्वन्नाह-सदसदात्मनि भावाभावात्मके वस्तुनि प्रत्यक्षम् अन्यत्र स्मरणादिकं प्रमाणम् । कुतः ? इत्याह-तव्यवहार इत्यादि । प्रमाणव्यवहारस्य अन्यथानुपपत्तेरिति निवेदितमेतत् ।
ननु भवतु तत्रै प्रत्यक्षम् अन्यत्व (अन्यद्वा)प्रमाणम् , ननु (नतु) शब्दः तज्जो' वा विकल्पः तत्र प्रमाणम् , अन्यविषयत्वादिति चेत् ; अत्राह-शब्द इत्यादि । शब्दस्वा (ब्दश्चाs)थविकल्प[श्च] न ईश्वरादिविकल्पः, तयोश्च तद्विषयत्वात् सदसदात्मकवस्तुगोचरत्वात् । तथा चोक्तम्
*"सदसद्वस्तु (तदतद्वस्तु)वागेषा तदेवेत्यनुशासती । न सत्या स्यान्मृषावाक्यैः कथं तत्त्वार्थदेशना ? ॥"
- [आप्तमी० श्लो० ११०] इति । (१) उत्तराधिकारी । (२) 'न' इति निरर्थकमत्र । (३) सदासदात्मकवस्तुनि । (४) शब्दजः । (५) सामान्य ।
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org