________________
६४०
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः एकः शब्दः' ; कुत एतत् ? प्रतिज्ञानात् ; अत एव प्राप्यार्थक्रियाभावाभावयोः जलप्रतिभास एकः स्यात् । 'व्यवहारी तथा न मन्यते' इत्युभयत्र समानम् । तन्न किंचिदेतस्य (तत्) ।
नेनु दृश्यप्राप्ययोरेक व्य (कत्वाध्य)वसायत (यात्)दृश्य (श्यः) व्यवहारकालेऽप्यस्ति इति चेत् ; अत्राह-विकल्प इत्यादि । विकल्पेन कल्पितं दृश्यप्राप्ययोरेकत्वं तस्मात् विकल्प५ कल्पिता[] | किंभूतात् ? अवस्तुनः अर्थक्रियासिद्धौ अङ्गीक्रियमाणायां स्वलक्षणदर्शनं क्व
उपयुज्येत ? न कचित् , विकल्पादेव सर्वदा प्रवृत्तिसद्भावात् [५०१क] सोऽयं दृश्यप्राप्ययोरेकत्वाध्यवसायेन प्रत्यक्ष (सं)भाविनि प्रमाणमिच्छन् अभ्यासेऽविकल्पकमेव इच्छतीति कथं स्वस्थः ?
किंच, दृश्ये प्राप्यस्य कुतश्चित् सर्वथा आरोपे, तावन्मात्रमेव इति कथं तथापि प्रवृत्ति१० यतोऽस्य व्यवहारः सुघटः स्यात् ? प्राप्ये दृश्यस्य प्राप्यवदस्यापि परोक्षता इति स एव प्रवृ
त्यभावः । नहि परोक्षे समारोपितमन्यथा भवति । कथञ्चिद्वादोऽनिष्टः परस्य । अथ विकल्पकारणत्वाद[विकल्पः प्रमाणम् ; तत्राह-तत्कारणत्वेऽपि इत्यादि । 'न चेयं दृष्टिः स्वकारणस्यैव रूपमनुकरोति' इत्यनुत्र (नुवर्तते) ।। पुनरपि युक्त्यन्तरमाह-ज्ञानं नीलेन इत्यादि ।
[ज्ञानं नीलेन सारूप्यं स्वस्य रूपस्य दर्शयेत् ।
नो चेन्नीलान्तराणां वा सर्वथाऽयमसद्ग्रहः ॥२६॥] वर्णाद्यात्मकोऽवबोधोऽयं स्वार्थेन स्वस्य अत्यन्तसारूप्यं स्वीकरोति न तत्कारणादीनामपि नीलान्तराणामिति कथं सम्भाव्यम् ? यतः अनन्यभागसाधारणोर्थात्मा
प्रत्यक्षविषयः स्यात् । संविदां तदाकारानुकारित्वात् ।] २० वा इत्यवधारणे 'नीले.' इत्यस्यानन्तरं द्रष्टव्यः । नीलेनैव साक्षात् कारणेनैव ज्ञानं
सारूप्यं स्वस्य रूपस्य स्वभावस्य दर्शयेत् सर्वथा नीलत्वमात्रेणेव क्षणक्षयादिनापि नो न चेत् यदि नीलान्तराणं (णां)रूपस्य नीलेन सारूप्यं स्वस्य वा दर्शयेत् अयं परस्यासंग्रहः(सदग्रहः)विरूपाभिनिवेशः ।
कारिकार्थमाह-अयं स्वसंवेदनविषयो वाऽवबोधो बाह्यघटादिज्ञानं सौत्रान्तिकस्य, वर्णा२५ द्यात्मि(द्यात्म)कः बाह्यरूपादिप्रतिबिम्बः स्वार्थेन स्वस्य साक्षात् कारणेन अर्थेन नीलादिविशेषेण स्वस्य आत्मनः अत्यन्त[सा] रूप्यं सर्वाकारसादृश्यं स्वीकरोति न नीलान्तराणां स्वस्य सारूप्यं स्वीकरोति । किंभूतानाम् ? तत्कारणादीनामपि इति । तच्छब्देन ज्ञानस्य स्वार्थो नीलादिविशेषः [५०१ख]परामृश्यते । तस्य कारणमादिर्येषां तत्सन्तानपातिनां
सर्वेषामन्येषां वा तानि तेषामपि इति कथं संभाव्यम् ? न कथंचित् । यतः संभावनात् ३० अनन्यभाग असाधारणोऽर्थात्मा प्रत्यक्षविषयः 'स्यात्' इत्यध्याहारः। एवं मन्यते-नहि
(१) एक एव शब्दः कथं प्रयुज्यते ? (२) दृश्यमात्रमेव । (३) प्राप्तु योग्यस्याभावात् । (४) सर्वथा आरोपे सति । (५) दृश्यस्यापि । (६) प्रत्यक्षम् । (७) इति चेत् । (८) योगाचारस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org