________________
९।२५] न प्रत्यक्षमेव असाधारणविषयम्
६३९ नुमानयोः अकारणं विषयः किन्तु कारणमेव, परापेक्षया इदमुक्तम् । भवत्वेवमिति चेत् ; अत्राह-कारणं व्यवहारकाले न संभवत्येव अक्षणिकतापत्तेः । तथाहि-पूर्वकालभावि कारणम् पूर्व सौगतानाम् । न च तंत्र योगिनापि प्रवर्तितुं शक्यम् । नापि वर्तमाने ; तस्य अकारणत्वेन तंदविषयत्वात् । तथापि प्रवृत्तौ न प्रमाणात् प्रवृत्तः स्यात् । न च तस्य देशभिन्नस्य तदेव (तदैव)प्राप्तिः। नहि यदैव धूमादग्निः अनुमीयते, तदैव प्राप्यते । अप्रवृत्तिः इति ५ चेत् ; तदकारणं नास्ति सङ्कतितवत् । तत्सदृशे भाविनि प्रवृत्तौ तत्रापि प्रवृत्तिर्यथा देवदत्तसदृशे यज्ञदत्ते इति ; तर्हि सङ्कतितसदृशे प्रवृत्तिरस्तु। भ्रान्तिरुपचारो वा स्यादिति चेत् ; प्रत्यक्षादौ तथैव भाविनि । भ्रान्त्यैव तत्प्रमाणमिति चेत् ; शब्दोऽप्यस्तु, तथा च कुतः प्रमाणद्वयम् ? अथ सङ्कतव्यवहारकालार्थयोः भिन्नसन्तानत्वात् नं ; एकान्तेन सन्तानभेदाभावात् ; एकस्मिन्नपि देवदत्तसन्ताने सङ्कतव्यवहारयोर्दर्शनात् । . किंच, प्राप्य-प्रत्यक्षादिकारणयोः एकसन्तानतानिश्चयः कुतः ? सादृश्यादिति चेत् ; न; व्यभिचारात् यमलकेन । 'हेतुफलभावाधिकात्' इति चेत् ; न; सुगतेतरज्ञानेन' [व्यभिचारात । "पूर्वस्य च रसत्वे चान्यस्य तत्सदृशस्य कुतश्चित् सन्निधानाशङ्कायां दुरवबोधमेतत् । नहि कार्यमेव अनन्तरं सदृशं वा ; सर्वस्यापि तथाविधस्य [५००ख] कार्यत्वप्रसङ्गात् । ततः सूक्तम्'कारणं व्यवहारकाले न संभवत्येव' इति ।
भावि तयोः कारणम् तन्व (तद् भावि) काल एव संभवाप्य परः (वतीत्य) परः; शब्दस्यापि यदि व्यवहारकालोऽर्थः कारणं को दोषः ? चिरभावी कथं कारणमिति चेत् ; कथं मरणादिः तथाविधः अरिष्टादेः येन' अतः तदनुमानं कार्यलिङ्गज (गजं स्यात् ) ? नरकादिदेशव्यवहितं कथं देशान्तरे शब्दकारणमिति चेत् ; उक्तमत्र कथं भवतोऽपि स्वप्नान्तिकशरीरं देशान्तरे सुप्तशरीरात् ? सुप्तादेर्वा देशान्तरनीतस्य पूर्वचित्तात् प्रबोध इति ।
ननु यद्यर्थात् कुतश्चित् शब्दस्य जन्म ; तदा (तद)भावे स न भवेत् , भवति च अन्यथापीति चेत् ; उच्यते-यदि "प्राप्यात् ] दृश्यस्य जलाभासस्य' जन्म, कथं मरीचिकाचक्र ? नहि तत्र स्नानादिकं प्राप्यमस्ति । भ्रान्तः स इति चेत् ; अन्यत्र समानम् । अर्थभावाभावयोः
(१) बौद्धापेक्षया । “नाऽहेतुर्विषयः"-प्र० वार्तिकाल० ३।४०६ । “अहेतुश्च विषयः कथम्"-प्र. वा० । “नाकारणं विषयः"-प्र० वा. मनोरथ० २।२५७। (२) 'पूर्व' इति निरर्थकम् । (३) पूर्वकालभाविनि । (४) ज्ञानाविषयत्वात् । (५) सदृशे प्रवृतौ । (६) प्रवृत्तौ भ्रान्तता स्यात् ।(७) प्रत्यक्षम् । (6) शब्दः प्रमाणम् । (९) प्रत्यक्षादिना यदेव दृष्टं स्वकारणभूतं वस्तु यच्च तेन प्राप्यम् प्रवृत्तौ सत्याम्, तयोरेकसन्तानतानिश्चयः वृत्तः इत्यभिप्रायः । (१०) 'कार्यकारणभावे सति सादृश्यात्' इत्यर्थः । 'हेतुफलभावः' इत्यधिकं विशेषणं 'सादृश्यात्' इति हेतौ देयमिति भावः ।(११)यदा सुगतः इतरजनज्ञानं जानाति तदा सुगतज्ञानेन इतरजनज्ञानस्य विषयतया कार्यकारणभावोऽस्ति, सादृश्यमपि ज्ञानरूपतया विद्यते एव, अतः तयोरेकसन्तानत्वं स्यादिति भावः । (१२) पूर्व रसोऽपि सन् तस्माजायमानः कदाचित् अन्यः स्यात् अथवा सन्तानान्तरवर्ती सदृशो रसः स्यादिति शङ्का न निवर्तते । (१३) भाविकारणवादी प्रज्ञाकरः । (१४) चिरभावी । (१५) अरिष्टादेः । (१६) पुरुषस्य । (१७) जाग्रचित्तात् । (१८) अर्थाभावे । (१९) अर्थाभावेऽपि । (२०) भाविनः। (२१) विपरीतज्ञानस्य । (२२) जलज्ञानं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org