________________
६३८
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
एव तदाकारानुकारित्वलक्षणं पितामहाद्याकारानुकारित्वोपपत्तेः । तथा च प्रत्यक्षवत् स्मृतिप्रत्यभिज्ञानतर्कादेरतीतार्थानुकरणात् वस्तुनि सङ्केतो न पुनर्व्यावृत्तौ नीरूपत्वात् खपुष्पवत् । वस्तुतत्परिणामस्यैव वस्तुनि भावात्, अविरोधात् । अर्थक्रिया [करणाच्च ] तत्रैव सङ्क ेतः फलवान् व्यवहारकालेऽपि तद्भवान्नान्यत्र । अन्यथा प्रत्यक्षानुमानयोरपि ५ निरर्थकत्वम् । नहि तयोरकारणं विषयः, कारणं व्यवहारकाले न संभवत्येव अक्षणिकतापत्तेः । विकल्पकल्पितात् दृश्यप्राप्य कत्वादवस्तुनः अर्थक्रियासिद्धौ स्वलक्षणदर्शनं कोपयुज्येत ? तत्कारणत्वेऽपि ]
तस्य विवक्षितस्य रूपं तस्यानुकृतौ क्रियमाणायां हेतुः कारणम् तस्माद् विवक्षितात् साक्षाद् ध्यनेन (अव्यवधानेन ) जन्म यस्य तस्य भावः तत्ता सैव न । कुतः ? इत्याह१० परिणामाविनाभावा [त् ] तद्रूपानुकृतौ इति । निदर्शनमाह - गर्भ इत्यादि ।
कारिकार्थमाह-पितृरूपम् इत्यादिना । अनेन व्यवहितकारणरूपानुकरणं कार्यस्य दर्शयति । नहि पितुः साक्षादपत्यं भवति शुक्रादेस्तथा ततो भावात् । तस्यापि तद्रूपानुकृतिरिति चेत् ; अत्राह-साक्षात् इत्यादि । नवै गर्भः शुक्रश्रोणितसंपातः पितृरूपमनुकरोति । किंभूतः ? इत्याह-साक्षात्तदुत्पत्तिरपि साक्षात् तस्मादप्युत्पत्तिर्यस्य इति । [४९९ख]
१५
द्वितीयं निदर्शनं व्याख्यातुमाह- साक्षादनुत्पत्तेः इत्यादि । विवृतमेत्तमेतत् । (तमेतत्) । यदि साक्षात् तज्जन्म नाकाराधानकारणं किं तर्हि स्यात् ? इत्यत्राह - तथा तेन व्यवहितेऽपि कार्ये तदाकारसमर्पणप्रकारेण परिणाम एव तदाकारानुकारित्वलक्षणं विवक्षितवस्त्वाकारित्वज्ञापकम् । पितामहाद्याकारानुकारित्वस्य उपपत्तेर्दर्शना [त् ] । भवत्वेवं तथापि प्रकृतं किं सिद्धम् ? इत्याह- तथा च इत्यादि । तेन हि तका (तत्का) रणाकारानुकरणप्रकारेण च २० प्रत्यक्षस्य च (स्येव) तद्वत् स्मृतिप्रत्यभिज्ञानतर्कादेरतीतार्थानुकरणात् कारणाद् वस्तुनि - सङ्केतो न पुनर्व्यावृत्तौ । कुत: ? इत्याह- नीरूपत्वात् व्यावृत्तेरिति 'खपुष्पवत्' इति सूक्तम्-*"तस्य य(व्य)पोह (ह्य) बस्तुषु भावात् "" तत्कथं नीरूपत्वमिति चेत् ? अत्राहवस्तु इत्यादि । वस्तु च तत्परिणामश्च सः सादृश्यरूपः तस्यैव वस्तुनि खण्डादौ भावात् न एकान्तवादिकल्पितस्यापोहादेः इत्येवकारार्थः । एतदपि कुत: ? इत्याह- अविरोधात् प्रमाण२५ बाधाभावात् । साधनान्तरमाह - अर्थक्रिया इत्यादि । तत्रैव सदृशपरिणाम एव सङ्क ेतः फलवान् व्यहारकालेऽपि तस्य भावात् नान्यत्र फलवान् विपर्ययादिति भावः । यच्चान्यदुक्तम्
*"शब्दाः सङ्केतितं प्राहुः व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं (णे) नास्ति सङ्क ेतस्तत्र तेन [न] ||" [प्र० वा० ३।९१] [इ]ति । तत्राह-अन्यथा इत्यादि । अन्येन वस्तुनि स ताभावप्रकारेण अन्यथा प्रत्यक्षानुमानयोरपि ३० [५००क] न केवलं शब्दस्यैव निरर्थकत्वं निष्फलत्वम् । एतदेवाह-न हिर्यस्मात् तयोः प्रत्यक्षा
(१) निःस्वभावत्वात् । (२) तुलना - " तस्य वस्तुषु भावादि साकारस्यैव साधनम् " - न्यायवि०
१।१४८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org