________________
९।२४-२५ ]
न प्रत्यक्षमेव असाधारणविषयम्
६३७
नात् उत्पत्तेरभावात् [४९८ ] अतत्प्रतिभासित्वं तदुपादानाप्रतिभासित्वमयुक्तम् । कुत: ? इत्याह-स्व आद (स्वप्नादा) वित्यादि । अत्र आदिशब्देन कामशोकाद्युपप्लवपरिग्रहः । नहि तत्रे साक्षादर्थो ज्ञानकारणम्, अभ्रान्तत्वापत्तेः । नापि तदाकारं ज्ञानम् ; चिरकालव्यवहितदपि तदाकारा [ज्]ज्ञानात् तत्रार्थप्रतिभासप्रतीतेः । तदे [व] तंदुपादानमिति चेत्; एवं कालव्यवहितोऽर्थोपि तैज्ज्ञानकारणम् इति न स्वप्नादिज्ञानस्य वासनामात्रभावित्वम् । तिमिरादिज्ञानं (नस्य) ५ च कथमेवंवादिनो निर्विषयता ; तत्रापि व्यवहितस्यार्थस्य कारणत्वोपपत्तेः । अव्यवहितार्थाभावात् निर्विषयत्वे ; अनन्तरोपादानाभावाद् अनुपादानं किन्न स्यात् ?
स्यादेतत्-लाक्षारसावसेकोपकृतकुसुमाहितशक्तिकात् कार्पाससन्तानाद् अन्तरालविजातीयनीलपत्रादिसंभवेऽपि यथा फले रक्तता, तथा नीलादिज्ञानाहितशक्तिकात् चित्तसन्तानात् विजातीयाऽन्तरालविज्ञानभावेऽपि स्वप्ने नीलादिज्ञानमिति ; तत्रापि यदि सजातीया (य) ज्ञानाहितवासनं १० भिन्नजातीयम् उपादानकारणम् ; न तर्हि साक्षात्कारणस्यैव आकारमनुकरोति व्यवहितस्याप्यनुकरणात् ।
परमतमाशङ्कते भ्रान्तेः इत्यादि ।
[भ्रान्तेरदोषः स्वमादौ अन्यत्राप्यात्मनः कथम् । संवित्तेश्वेदभ्रान्तिः अविशेषात्सतोऽसतः ॥ २४ ॥
१५
;
तदतद्ग्रहणलक्षणत्वात् कथं च न दोष एव तल्लक्षणव्यभिचारेऽपि इति चित्रमेतत् । ] स्वप्नादौ भ्रान्तेः कारणाददोष: ' अर्थप्रतिभासाभावप्रसङ्गः' इति यो दोषः तस्याभावः साक्षादकारणस्यापि आकारानुकरणादिति चेत्; अत्रोत्तरमाह- कथम् इत्यादि । [४९९क ] अन्यत्रापि जाग्रज्ज्ञानेऽपि सौगतस्य अभ्रान्तिः कथम् ? कुतः ? इत्याह- आत्मान (त्मन) इत्यादि । आत्मनः स्वरूपस्य । किंभूतस्य ? सतः विद्यमानस्य । कस्य (स्याः) ? संवित्तेः २० अर्थस्य घटादेः असतः प्रतिपत्तेरविशेषात् । उभयत्रापि प्रतिभासाभेदात् कथमन्यत्रै भ्रान्तिरिति ?
"
उपसंहारमाह-‘तद्' इत्यादि । यस्मादेवं तत् तस्मात् अतद्ग्रहणलक्षणत्वात् न तदुत्त (तद् अतत् तस्य ग्रहणं तदेव लक्षणं यस्य तस्य भावात् तत्त्वात् अन्यस्य कथंचन दोष एव । कस्मिन् सति ? आह - लक्षणा (ण) व्यभिचारेऽपि तदुत्पत्तिसारूप्ये बहिरर्थदर्शनलक्षणं तदूव्यभिचारेऽपि इति चित्रमेतत् । अनेन सौत्रान्तिकस्य सर्वत्र विभ्रमेतररूपतां दर्शने दर्शयति । ‘यस्मात् यत् साक्षादुपाक्षाय ते (दुत्पद्यते ) तस्येव हूय ( तस्यैव तद्रूप) मनुकरोति' इत्यत्र पुनरपि दूषणमाह- तद्र पानुकृतौ इत्यादि ।
२५
[तद्रूपानुकृतौ हेतुः तत्साक्षाज्जन्मतैव न । परिणामाविनाभावात् गर्भपित्रादिरूपवत् ॥ २५ ॥
न वै गर्भः साक्षात्तदुत्पत्तिरपि पितृरूपमनुकरोति । साक्षादनुत्पत्तेः तथापरिणाम ३० (१) स्वमादौ । (२) तत्र कारणम् । (३) स्वप्नादिज्ञान । (४) स्वमादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org