________________
६३६ सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः दर्शनात् तद्विषयीकरणव्यवस्थायाम् ., तंदित्यर्थः परामृश्यते। साकल्येन [४९७ख] बहिरन्तश्च तत्सामान्यं सदृशपरिणामसामान्य (न्यं) विषयः स्यात दृष्टिः (दृष्टेः) इति सम्बन्धः । ज्ञानज्ञेयवदन्यत्रापि तत्सामान्यस्य निषेधुमशक्यत्वादिति भावः । अनेन कारिकायाः पाश्चात्यो
भागो विवृतो न पूर्वः सुगमत्वात् । ५ यच्चान्यदुक्तम्-*"मनोविकल्पमन्तरेण योजनासंभवात मज्ञो(मनो)विकले च वस्तुप्रतिभासप्रत्यस्तमयात्" इति ; तत्राह-न चायम् (चेयम्) इत्यादि । च शब्दः अपिशब्दार्थः भिन्नप्रक्रमः 'दृष्टिः' इत्यस्यानन्तरं द्रष्टव्यः । तयोऽयमर्थः -दृष्टिरपि न केवलं मनोविकल्पः इयं परेण अभ्युपगम्यमाना अविकल्पिका] न स्वकारणस्यैव कारणशब्दात् सामान्य__ वाचिनोऽपि प्रक्रमाद् आलम्बनकारणस्य परिग्रहः । स्वशब्दाद् अव्यवहितकारणस्व (स्य) रूपं १० स्वभावमनुकरोति। कुतः ? इत्यत्राह-क्वचिद् इत्यादि । क्वचित् सितादिशङ्खादौ स्वयम् आत्मना
न पारम्पर्येण उपादानस्य समनन्तरकारणस्य रूपमनुकरोति अपि न केवलं नानुकरोति, तत्र हि उत्तरोत्तरं पीतज्ञानं पूर्वपूर्वपीतज्ञानस्य आकारमनुकरोति नार्थस्य तदा[का]राभावात् । अयमभिप्रायः-मनोविकल्पस्य[क] चिदर्थाभावेऽपि प्रवृत्तिदर्शनात् तत्र सर्वत्र यदि वस्तुप्रतिभासप्र
त्यस्तमयः, दृष्टिरि (दृष्टेर)पि कस्याश्चित् अर्थाकारानुकरणाभावात् सर्ववस्तुप्रतिभासप्रत्यस्तमय १५ इति तथा स्वकारणोपादानस्य च रूपमनुकरोति अपि । [४९८क] अत्रापि 'क्वचित्' इत्य
नुवर्तते । क्वचिद् शीघ्रभ्रमदलाभा(दलाता) दौ दृष्टेः स्वकारणम् 'अनन्तरक्षणम्' अनन्तरे (रः) क्षणः, तस्य च यत् साक्षात् पारम्पर्येण उपादानं तयोः द्वन्द्वैकवद्भावः, तस्य च रूपमनुकरोत्यपि । स्वकारणस्यैव रूपानुकृतौ एकचक्राका]रा प्रतीतिर्न स्यात् सर्वदा प्रसङ्गात्। कथं भिन्न
कालरूपानुकृतिरिति चेत् ? कथं भिन्नदेशरूपानुकृतिः ? यतो दूरविरलकेशेषु धनैकप्रतीतिः स्यात् । २० अथ यावतो (न्तो)ऽलातक्षणाः तावत्य एव क्रमभाविन्यो दृष्टयः कल्प्यन्ते ; सन्तानान्तरवत्
चक्रबुद्धिर्न स्यात् । मानसी सा इति चेत् ; न ; स्पष्टत्वात् द्विचन्द्रदर्शनवत् । ततः स्वकारणोपादानस्य च रूपमनुकरोत्यपि ।
स्यान्मतम्-भासुरतामात्रानुकृतिरेव तत्र, नाशेषरूपानुकृतिः, न चैक (न वा एकत्वाद्याकारानुकृतिरिति चेत् ; अ)वाह-कथञ्चित् इत्यादि । कथञ्चित् भास्वरतामात्रेण न इतराकारेण २५ यत्सादृश्यं सारूप्यं तस्य अन्यत्रापि प्रत्यक्षाभिमतेऽपि ज्ञाने अनिवारणात् इति । निरूपित
मेतत् । कुत एतत् ? इत्यत्राह-सर्वथा इत्यादि । नीलाकारेणैव कारेणैक (नीलाकारेणेव एक)त्वाद्याकारेऽप्यनुकरणम् सर्वथानुकरणम् तस्य स्वकारणं प्रत्यसंभवात् । कार्यकारणयोरविशेषा (प)प्रसङ्गादिति ।
ननु 'यत एव साक्षद्यते (साक्षादुत्पद्यते)ज्ञानं तस्यैव रूपमनुकरोति नापरस्य' इति कदा३. चित् निराकृतोऽपि पैरो ब्रूयात् ; तत्राह-साक्षात् इत्यादि। अव्यवधानेन तस्मात् स्वकारणोपादा
(१) तदिति शब्देन । (२) सदृशपरिणामसामान्यस्य । (३) प्रकरणात् । (४) परिग्रहः इति सम्बन्धः तस्य । (५) मनोज्ञाने । (६) 'अनन्तरक्षणम्' इति व्यर्थमत्र । (७) तदा । (८) बौद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org