________________
९।२३] स्वलक्षणेऽपि सङ्केतः
६३५ यस्य इति ग्राह्यम् , अत एव देवानां प्रियः । भावा(भवाँ) स्तर्हि कुतोऽस्य भावतत्त्वमुपजीवति इति चेत् ? अत्राह-संविद इत्यादि । संविदो ज्ञानस्य नीलतया अर्थेन सह यः 'न' समानो यश्च जंडेतररूपतया इतरः असमानः परिणामः तमन्तरेण तथा प्रत्यक्षादिप्रकारेण दृश्यप्राप्ययोरेकत्वाध्यवसायप्रकारेण वा प्रवर्तमानासंभवात् 'व्यवहारिणः' इत्यध्याहारः । प्रवर्तमान (नः) संसार (रः), पूर्वपावकादिवासनात उत्तरोत्तरपावकादिप्रति]भासप्रवृत्तिः [४९७क ५ तस्याऽसंभवात् । किमन्तरेण ? इत्याह-समान इत्यादि । तथाहि-पूर्वोत्तरपावकज्ञानयोः उपादानोपादेयभूतयोः भासुरतया समान उपादानोपादेययोग्यतया इतरः परिणामः तयापि समानपरणामो विज्ञानवादेऽपि न हेतुफलभावनियमः। निरस्तमद्वैतम् । संविदो भवत्त (तु तत्परिणामो नार्थस्य इति चेत् ; अत्राह-तत्संभवे समानपरिणामसंभवे 'संविदः' इत्यनुवर्तते बहिरपि किन्न स्यात् तत्परिणामः ?
यदुक्तं परेण-*"न चायं सङ्केतः स्वलक्षणे शक्यः कर्तुम्" इति; तत्र दूषणं दर्शयन्नाह-अशक्यसमयमित्याह (त्यादि)।
[अशक्यसमयं रूपं यथार्थानामनन्यभाक् ।
अशक्यदर्शनं रूपं तथार्थानामनन्यभाक् ॥२३॥ यथा अर्थरूपं तथैव द्रष्टुमशक्यं कारणस्यापि दृष्टेरविषयत्वात् कालभेदात् तत्स- १५ मानाकारदर्शनात् । तद्विषयीकरणव्यवस्थायां साकल्येन तत्सामान्यं विषयः स्यात् । न चेयं दृष्टिः स्वकारणस्यैव रूपमनुकरोति, क्वचित् स्वयमुपादानरूपमनुकरोत्यपि, स्वकारणोपादानस्य च । कथञ्चित् सादृश्यस्य अन्यत्राप्यनिवारणात् , सर्वथानुकरणासंभवात् । साक्षात्तदुत्पत्तेरभावादतत्प्रतिभासित्वमयुक्तम् ; स्वमादावभ्रान्तत्वापत्तेः।] . . अशक्यः समयः सङ्केतो यस्मिन् तत्तथोक्तम् । किम् ? रूपं स्वभावः । केषाम् ? २० इत्याह-अर्थानाम् यथा येन अनन्तरोक्तप्रकारेण । किंभूतम् ? अनन्यभाग असाधारणम् अशक्यदर्शनं रूपं क्षणिकपरमाणुलक्षणम् तथा अर्थानाम[न]न्यभाक् इति विचारितमेव (त)त् ।
का[रि] कां विवृण्वन्नाह-यथार्थरूपम् इत्यादि । तथैव द्रष्टुमशक्यमिति । कुतः ? इत्याह-[ष्टे]रित्यादि । कारणे (ण)स्य विषयता स्यादिति चेत् ; अत्राह-कारणस्यापि दृष्टे- २५ रविषयत्वात् । कुतः ? इत्याह-कालभेदात दृष्टिकालपरिहारेण अर्थकालो व्यवस्थितः । एवमन्यत्रापि योज्यम् । न च परस्य कालभेदे ग्राह्यग्राहकभावः । तदाकारानुकरणात् तत्तस्य ग्राहकमिति चेत् ; अत्राह-स(त)त्समान इत्यादि । तेनार्थेन समानो य आकारः ज्ञानस्य तस्य
(1) 'न'इति निरर्थकम् । (२) ज्ञानं न जडम् , अर्थस्तु जड इति । (३) "शब्दाः सङ्केतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणे नास्ति सङ्केतस्तेन तत्र न ॥"-प्र. वा. ३।९१ । (४) ज्ञानम् । (५) अर्थस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org