________________
६३४
। सिद्धिविनिश्चयटीकायाम् [९शब्दसिद्धिः प्रतिपादयन्ति इति चेत् ; अत्राह-सङ्कतं च कुर्वन् सङ्केतकारी प्रतिपित्सुर्वा ततः सङ्केतं प्रतिपत्तुमिच्छत्ता (न् नाs)प्रतिपाद्यः अर्थक्रियामेव समुद्दिश्य कर्तुं प्रतिपत्तुं वा अर्हति, अन्यथा अप्रेक्षाकारितापत्तेः । द्वयोरपि तथेति चेत् ; अत्राह-स्वलक्षणमेव इत्यादि । तत्रैव सङ्केत इति
चेत् ; अत्राह-न च इत्यादि । कुतः ? इत्यत्राह-सङ्कतेति (सङ्केतिते) त्यादि । व्यवहारका५ लक्षणस्य [असङ्केतितत्वात् । तस्य असङ्केतितस्य प्रतिपत्तिरिति चेत् ; अत्राह-पुनरित्यादि ।
सङ्केतात् पश्चात् असङ्केतितशब्दार्थप्रतिपत्त्ययोगात् [४९६क] अन्यथा गोशब्दाद् अश्वप्रतीतिः स्यात् । अनेन 'अफलत्वात्' इति व्याख्यातम् ।
द्वितीयं हेतुं व्याख्यातुमाह-न चायम् इत्यादि । कुतः ? इत्यत्राह-अविषयीकृतयोः शब्दार्थयोरसंभवात् सङ्केतस्येति । विषयीकृतयोः स्यादिति चेत् ; अत्राह-विषयीकृतयोश्च १० विषयीकृतयोरपि असंभवादिति । किंभूतयोः ? इत्याह-भिन्नेन्द्रियग्राह्ययोः भिन्नेन्द्रियग्राह्य
त्वात् इति । श्रवणेन्द्रियज्ञानस्य शब्दमात्रे चक्षुरादिज्ञानस्य रूपादिमात्रे पर्यवसानात् । नान्योन्यविषयीकरणे च 'अस्येदम्' इति घटनायोगात् सन्तानान्तरवत् । कुतस्तर्हि सङ्कतः ? इत्याहमनोविकल्पमन्तरेण घटनायोगात् , 'अस्येदम्' इति सम्बन्धस्य करणासंभवात् , मनोविकल्पादेव तद्योगात् इत्यर्थः । तँत एव भवतु इति चेत् ; अत्राह-मनोविकल्पे(ल्पेन) च इत्यादि । न १५ चायं सङ्केतः स्वलक्षणे शक्यः कर्तुमिति । उपसंहरन्नाह- तन्न इत्यादि ।
___द्वितीयमर्थं कथयन्नाह-सामान्येऽपि न केवलं स्खलक्षणे वस्तुनि सुतरां न सङ्केतः । कुतः ? इत्याह-तस्य सामान्यस्य दृष्टौ इन्द्रियज्ञानेऽप्रतिभासनात् । अनेन अशक्तं (अशक्तरिति व्याख्यातम्) सतोऽपि विद्यमानस्यापि तस्य अर्थक्रियाऽसामर्थ्यात् सामान्येऽपि न सङ्केत
इति । यत एवं तत्तस्मात् अपोहविषयः सङ्केतः । तत्रापि शब्दात् कथं स्वलक्षणे प्रवृत्तिः इति २० चेत् ; अत्राह-तद्विषयम् इत्यादि । सोऽपोहः विषयो यस्य शब्दज्ञानस्य तत्तथोक्तम् । तत्पक्षी
(तत् क किं) करोति ? इत्याह-पुरुषं व्यवहारेषु [४९६ख] नियुक्त इति । किं कृत्वा ? इत्याह-दृश्य इत्यादि । दृश्यं स्वलक्षणं विकल्पः (प्यः) शब्दज्ञानाकारः तौ एकीकृत्य । कुतः ? इत्याह-विभ्रमवशात् इति । अस्योत्तरमाह-अस्य इत्यादि । अस्यापि व्यपोहस्यापि कथम्
अभावैकान्तवम् नीरूपतैकान्तत्वम् । किंभूतस्य ? पुरुषार्थकारिणः । पुनरपि किंभूतस्य ? २५ इत्याह-सङ्केतितेत्यादि । न तत् विवक्षितं कार्यकारणं येषां विजातीयाभिमतानां ते अतत्कार्य
कारणाः तेभ्यः तेषां चा (वा) व्यपोहः, सङ्केतितानाम् अतत्कार्यकारणव्यपोहः खण्डादीनां स एकं रूपं यस्य तस्य इति । तथापि अभावैकान्तत्वे दूषणमाह-खपुष्पादेः इत्यादि ।
सौगतमुपहसन्नाह-'तत्कृताम्' इत्यादि । तत्कृतां व्यपोहकृताम् अर्थक्रियामुपजीवति न पुनः तद्भावतत्वं तस्य व्यपोह[स्य]भावरूपमुपजीवति । कोऽसौ ? इत्याह-तथागतप्रज्ञः तथागते ३० सुगते प्रज्ञा यस्य स तथोक्तः देवानांप्रियः । यदि वा, तथा तेन प्रकारेण गता ध्वस्ता प्रज्ञा
(१) प्रतिपत्तमयोग्यः । (२) प्रतिपाद्यप्नतिपादकयोः । (३) अन्योन्याविषयीकरणे इत्यर्थः । (४) मनोविज्ञानादेव । (५) अपोहविषयत्वेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org