________________
९।२२] न प्रत्यक्षमेव असाधारणविषयम्
६३३ [अफलत्वादशक्तेश्च न सङ्कत्येरन् खलक्षणे ।
वाचोऽसङ्कतितं वाहुरित्यनेकान्तसाधनम् ॥२२॥ नहि [शब्दाः असङ्केतितं प्रतिपादयन्ति] सङ्केतं च कुर्वन् प्रतिपित्सुर्वा ततः प्रतिपत्तमिच्छन् अर्थक्रियामेव सम्रद्दिश्य कर्तुं प्रतिपत्तं वार्हति । न च स्वलक्षणमेव सङ्केतितम् [व्यवहारकालमन्वेति] पुनः असङ्केतितशब्दार्थप्रतिपत्त्ययोगात् । न चायं ५ स्वलक्षणे शक्यः कर्तुम् अविषयीकृतयोः विषयीकृतयोश्च भिन्नेन्द्रियग्राह्ययोरसंभवात् । मनोविकल्पमन्तरेण अस्येदमिति घटनाऽयोगात् । मनोविकल्पेन च तन्न । सामान्येऽपि सुतरां न सकेतः तस्य दृष्टावप्रतिभासनात् सतोऽप्यर्थक्रियाऽसामर्थ्यात् । तदपोहविषयः सङ्केतः। तद्विषयं शब्दज्ञानं विभ्रमवशात् दृश्यविकल्प्यावेकीकृत्य पुरुषं व्यवहारे नियु
ङ्क्त । अस्यापि सङ्केतितातत्कार्यकारणव्यपो हैकरूपस्य पुरुषार्थक्रियाकारिणः कथम- १० भावैकान्तवम् ? खपुष्पादेः ''तत्कृतामर्थक्रियामुपजीवति न पुनस्तद्भावतत्त्वमिति तथागतप्रज्ञो देवानां प्रियः । संविदः समानेतरपरिणाममन्तरेण प्रवर्तमानासंभवात् न हेतुफलभावनियमः । तत्संभवे बहिरपि किन्न स्यात् ?]
वाचः शब्दा न सङ्कत्येरन् । क ? स्खलक्षणे । कुतः ? इत्याह-अफलत्वात् सङ्केतकरणस्य[फलाभावात् । तथाहि-सङ्केतविषयस्य प्रत्यक्षविषयत्वात् न तत्र सङ्केतोपयोगः । १५ अन्यत्र तंदभावात् । इतश्च न तत्र ते सङ्केत्येरन् ; इत्याह-अशक्तश्च इति । च शब्दो हेतुसमुचये । तद्यथा, नाप्रतिपन्नयोः शब्दार्थस्वलक्षणयोः सङ्केतः; अतिप्रसङ्गात् । नापि प्रतिपन्नयोः इन्द्रियज्ञानेन ; तस्य 'इदमस्य वाच्यमिदं वाचकम्' इति परामर्शायोगात् । नापि विकल्पेन अवस्तुविषयेन । तन्न ते तत्र सङ्कत्येरन् । असङ्केतितमर्थं शब्दाः कथयन्ति इति चेत् ; अत्राह[४९५ख] असङ्कतितं वाहुः न, परोपदेशवैफल्यापत्तेः ।
२० इदमपरं व्याख्यानम्-चशब्दमन्तरेणापि हेतुसमुञ्चयगतः । च शब्दो भिन्नप्रक्रमः 'स्वलक्षणे' इत्यस्याऽनन्तरं द्रष्टव्यः उक्तसमुच्चये । ततोऽयमर्थः-न केवलं स्खलक्षणे अपि तु सामान्येऽपि शब्दा न सङ्कत्येरन् । कुतः ? इत्याह-अफलत्वात् तत्र वाचाम् । नहि शब्दप्रतिपादितमपि सामान्यं वाहाद्यर्थक्रियाकारि, विशेषकल्पनावैफल्यापत्तेः । हेत्वन्तरमाहअशक्तरिति तत्र सङ्केतस्य कर्तुमशक्यत्वात् अप्रमाणविषयत्वात् । अथ शब्दात् सामान्यं २५ ततोऽपि विशेषः प्रतीयते इति मतिः'; तत्राह-असङ्कतितं वाहुः न । अस्यायमर्थः-न विद्यते सङ्केतितं सामान्यं यस्मिन् स्वलक्षणे तदसङ्कतितं न च वाचः कथयन्ते (न्ति) । नहि यद्द्वारेण विशेषे प्रवृत्तिः तत्र सामान्यमस्ति । तत्र उत्तरमाह-इत्येवं परेण उच्यमानम् अनेकान्तसाधनम् ।
'नहि' इत्यादिना कारिकार्थमाह-[न हि शब्दाः असङ्केतितं प्रतिपादयन्ति] सङ्केतितं ३० (१) प्रत्यक्षाविषये । (२) सङ्केताभावात् । (३) इन्द्रियज्ञानस्य । () सामान्ये । (५) मीसां
सकस्य।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org