________________
सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः 'सर्वं विजातीयं तत्कारणमतु न वा किञ्चित्' इति, प्रतीतिबाधनात् , तथा विसदृशात् समानकालात् नियतादेव ज्ञानात् नियतो .घटादिः प्रतीयमानः तस्यैव आत्मग्रहणे शक्ति संशति (शंसति) । यतो यदुक्तम्-*"नियतकार्यदर्शनात् योग्यतानुमीयते कारणस्य, न योग्यतायाः तत्कार्यम्' अतीन्द्रियत्त्वात्तस्याः। परस्परतोऽनुमाने अन्योऽन्यसंश्रयः ।" इति ; ५ तदनेन निरस्तम् ; नियतवर्तमानार्थग्रहणादेव प्रतिबन्धान्तरानुमानात् ।
____एतेन इदमपि चिन्तितम्-*"-संविन्मात्रस्य सर्वत्राविशेषात् सर्वस्य सर्वदर्शित्वम्" इति ; नियतार्थदर्शनप्रतीत्या बाधनात् । ननु अर्थदर्शनं नीलादिवदर्थधर्मश्चेत् ; [४९४ख]कथमर्थस्य संभवेत् ?
एतेन अनुभयधर्मता चिन्तिता इति चेत् ; उच्यते-कार्यकरणं नीलादिकार्यधर्मश्चेत् ; १० सर्वोऽपि कस्यचित् कार्यस्य हेतुः । यथैव हि तस्य नीलत्वं नैकं प्रत्येव अपि तु सर्वं प्रति, तथा
जन्यत्वमपि येन य(ज)न्यते तं प्रत्येव तत् ; तदितरत्र समानम् । कारणधर्मश्चेत् ; अर्थदर्शनवत् प्रसङ्गः।
एतेन उभयधर्मता[निर]स्ता ; अनुभयधर्मता तन्मत व्याख्यात (व्याघात) कारिणी । अथ क्वचिदपि हेतुफलभावो नेष्यते; किमिष्यते ? स्वसंवेदनमात्रमिति चेत् ; एतदपि ताहगेव । तथाहि१५ नीलज्ञानलत्वं (नत्वं) यथा सर्वाणि ज्ञानान्युद्दिश्य तवा (तथा)स्य संवेदनमपि इति 'सपीति'२
सर्वैः तत्संविदितं भवेत् ; विशेषकल्पनमर्थेऽपि समानम् । अथ अन्यज्ञानं नेष्यते ; किं तर्हि स्यात् ? 'एकव्यक्तिप्रतिभासाद्वैतम्' इति चेत् ; अत्राह-मितीव घटादेरपि प्रतिभासे तदयोगात् । घटज्ञानयोः सहप्रतिभासे स्वरूपसंवेदनमात्रनियतता इति चेत् ; पररूपसंवेदननियतता कुतो न
भवति, कल्पनायाः निरंकुशत्वात् ? यदि च सहप्रतिभासादेकरूपता ; तथा प्रतिभासमानयोः २० निम्बाम्रयोः कटुकता मधुरता वा स्यात् । अथ न सहप्रतिभासात् समानता किन्तु तथा प्रति
भासात् ; न तर्हि घटज्ञानयोः संवेदनैकरूपता, ग्राह्यग्राहकतयावभासनात् इत्यलमतिप्रसङ्गेन । ततः स्थितम्-'प्रतिबन्धान्तरं शंसेत् प्रत्यर्थनियतं [४९५क] धियाम्' इति । ___कारिकां विवृण्वन्नाह-ते तदुत्पत्तित्यादि ।-(ह-तादात्म्य इत्यादि) तादात्म्यं च
तदुत्पत्तिश्च ते तादात्म्यतदुत्पत्ती, ते एव सम्बन्धः तस्मिन्नङ्गीक्रियमाणेऽपि समस्य सदृशस्य २५ अनन्तरस्य अव्यवहितस्य प्रत्ययस्य कारणस्य अविषयीकरणाद् असदृशस्य वर्तमानस्य विष
यीकरणात् इत्यर्थः । ततः किम् ? इत्याह-कारण इत्यादि । तदेव दर्शयन्नाह-यत्र इत्यादि । यत्र प्रमेये यदेव मतिज्ञानम् अवग्रहादिसंवेदनं श्रुतज्ञानं वा । किंभूतं तत् ? इत्याह-यदर्थ इत्यादि । तदेव ज्ञानं तमर्थ विषयीकरोति इति युक्तः प्रतिबन्धः । स प्रतिबन्धः शब्द
ज्ञानज्ञेययोरपि शब्दस्य यज्ज्ञानं यच्च तस्य ज्ञेयं] प्रमेयं तयोरपि पारमार्थिकः । कुतः ? ३० इत्याह-प्रतिषे मशक्यत्वात् । ।
अस्य हेतोरसिद्धतां पादत्रयेण उद्भाव्य चतुर्थपादेन परिहरन्नाह-अफलत्वात् इत्यादि । (१) अनुमीयते ।(२) 'सपीति' इति व्यर्थमन्त्र ।(३) मितिः संवेदनम् सा इव संवेदनवत् इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org