________________
६३१
९।२१]
अविनाभावसम्बन्धसिद्धिः तामानं' तामादाय व्यावर्त्तते, सौ च त (स)त्त्वमिति ; तत्राह-व्याप्त्यसिद्धौ न सिध्यति क्षणिकत्वेन अर्थक्रियायाः या व्याप्तिः तस्याः असिद्धौ उक्तनीत्या न सिध्यति।
कारिकार्थमाह-यावान् इत्यादिना । ___ अत्राह परैः-प्रत्यक्षात् न परमार्थतः कस्यचित् केनचित् सौगतेन व्याप्तिसिद्धिरिष्यते, अपि तु[संवृतेः],संवृतिश्च विचारानुपपत्तिः इति ; तत्राह-अविचारित इत्यादि । अवि-५ चारितेन विचाराऽसहिष्णुना आत्मना स्वभावेन संवृतिकल्पितेन इत्यर्थः, नात्मे(नाम इ)त्यरुच्चौ (चौ) प्रतिबन्धं लिङ्गलिङ्गिनोरविनाभावं व्यवस्थापयति सौगत इति एवं सुव्यवस्थितः प्रतिबन्ध इत्युपहासः । तथा शब्दार्थयोरपि स्यादिति भावः । अनुमानात्तत्सिद्धिरिति चेत् ; अत्राह-तदनुमानकल्पनायाम् इत्यर्थः । व्यापकानुपलब्धेस्तत्सिद्धिरिति चेत् ; अत्राहक्षणिकत्वेन इत्यादि । ततः स्थितम्-साकल्येन प्रतिबन्धसिद्धिमन्तरेण यदि लिङ्गं गमकं १० शब्दोऽपि स्यादिति । अत्रैव युक्तयन्तरमाह-समनन्तरमित्यादि ।
[समनन्तरमज्ञेयं स्वरूपार्पणकारणम् ।
प्रतिबन्धान्तरं शंसेत् प्रत्यर्थनियतं धियाम् ॥२१॥ तादात्म्यतदुत्पत्तिसम्बन्धेऽपि समनन्तरप्रत्ययस्य अविषयीकरणात् कारण 'यत्र १५ यदेव यदर्थ नियतं]तदेव तमर्थ विषयीकरोतीति युक्तः प्रतिबन्धः। स शब्दज्ञानज्ञेययोरपि पारमार्थिकः प्रतिषेधुमशक्यत्वात् ]
ननु चायमर्थः 'न चायमेकान्तः सर्वत्र अर्थप्रतिबन्धादेव बुद्धीनां प्रामाण्यम्' इत्यनेनं उक्तः, किं पुनरुच्यते ? 'तदुपसंहारार्थम्' इत्येके । न त्रा (तन्न ; अ)न्यथा व्याख्यानात् । समनन्तरमिति न उपादानज्ञानमुच्यते उक्तत्वात् , अपि तु समं नीलाकारज्ञानसदृशं २० नीलम् अनन्तरं सन्निहितं पूर्व (तपूर्वम) [४९४क]किंभूतम् ? इत्याह-स्वरूपार्पणकार णम् स्वरूपार्पणेन कारणं समानन्तरमकारणमपि त्य(त)स्योपादानम् । तथाहि-देवदत्तनीलज्ञानस्य पूर्वानन्तरक्षणभावि सर्वनीलसमनन्तरं (सर्वं नीलं सममनन्तरं) च । तत्किम् ? इत्याह-अज्ञेयं प्रत्यक्षस्याऽपरिच्छेद्यम् अदृश्यं वर्तमानं च ज्ञेयम् इत्यर्थः। तथाहिअहमहमिकया स्वसंवेदने ज्ञानमघटाकारमपि घटग्राहकं प्रतीयते । ततो यदुक्तम्-*"न २५ नीलादिमुख्यादि(दिसुखादि)व्यतिरेकेण तद् ग्राहकं प्रतीयते" इति ; तत् प्रत्यक्षप्रतीतिबाधितमिति । तत्किं कुर्यात् ? इत्याह-प्रतिबन्धान्तरं सामर्थ्यलक्षणं धियां शंसेत् अर्थमर्थं प्रति[प्रत्यर्थं तत्र नियतं]प्रत्यर्थनियतं । यथैव हि विसदृशादपि गोमयादेरेव सां (शा)लूकायेव जायमानं तस्यैव आत्मनि सामर्थ्य सूचयति न सर्वस्य । नहि एवं तत्र वक्तुं शक्यम्
(१) 'तामानं' इति व्यर्थमत्र द्विलिखितम् । (२) अर्थक्रिया । (३) बौद्धः । (४) वाक्येन | (५) व्याख्याकाराः । (६) पदेन । (७) “यथा च न सुखादिव्यतिरेकेणापरं विज्ञानं तथा नीलादिव्यतिरेकेणापि ।"-प्र० वार्तिकाल. पृ० ४०९।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org