________________
६३०
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
प्रतिबन्धः ! तदनुमान कल्पनायाम् [ अनवस्था ] क्षणिकत्वेन [ व्याप्त्यसिद्धौ व्यापकानुपलश्भश्च न सिध्यति । ]
ननु विचारितमेतत् -"भूता भव्या भवन्तो वा सर्वे भावाः " [सिद्धिवि०३।८] इत्यादिना तत्किमर्थं पुनरुच्यते इति चेत् ? तत्र साक्षादनुमाननिरूपेण (पणे ) तदुक्तम्, अत्र तु ५ शब्दस्य प्रतिबन्धाभावे अगमकत्वे लिङ्गस्यापि तंत् स्यादिति प्रदर्शनार्थम् इत्यदोषः । क्वचिद् बहिरन्तर्वा कार्यस्वभावे वा प्रत्यक्षान् (त्) कुतश्चनापि व्याप्तिर्न सिध्यति न तद्विषयतां गच्छति । अनुमानात् सिध्यतीति चेत्; अत्राह - अनुमानेवं (नेन अङ् ) गीक्रियमाणे अनवस्थितिः सत्त्वस्य व्यापकम् अर्थक्रियाकारित्वं (त्वं ) तस्य नित्येऽनुपलम्भः सत्त्वस्य क्षणिकत्वेन व्याप्तिं साधयतीति चेत्; अत्राह व्यापकानुपलम्भश्च न सिध्यति सत्त्व१० व्यापकस्य अर्थक्रियाकारित्वस्य अनुपलम्भोऽपि अक्षणिके साकल्येन न सिध्यति । नहि अर्थ - क्रियाविकलमक्षणिकं सर्वं द्रष्टुं शक्यं येन तत्र तदभावे सत्त्वाभावः स्यात् वृक्षाभावे शिंशपाभाववत् । अथा (अथ) क्षणिकत्वाभावात् [ ४९३ क] तत्रे अर्थक्रियाकारित्वानुपलम्भ: ; कुतः ? तदभावेऽदर्शनादिति चेत्; मीमांसकस्यापि दर्शननिवृत्तिः सर्वज्ञसत्तां नि[वर्तयेत् इति ] साधूतम् - सुगतो न सर्वज्ञः वक्तृत्वादिभ्यो रथ्यापुरुषवदिति । अथ अक्षणिके सर्वादर्शनं न सर्वज्ञः १५ (ज्ञे), तत्र स्वयं सर्वज्ञान्तरेण दर्शनसंभवात् । प्रकृते सर्वादर्शनं कुतः सिद्धम् ? तद्दृष्टः (तेंद्द्रष्टुः) कस्यचिज्जगति भवतोऽदर्शनात् । मीमांसकेनापि सर्वदृष्टः (द्रष्टुः) तत्र कस्यचि [द] दर्शनात् इति समानम् । तस्य सर्वज्ञता स्यादिति चेत्; भवतोऽपि । भवतु इति चेत्; परस्यापि । वेदाप्रामाण्यं स्यादिति चेत्; भवतोऽनुमानस्य । नहि सर्वज्ञस्य अनुमानेन किंचित् । परार्थं तदिति चेत्; परस्यापि इच्छामात्रेण अशेषज्ञत्वात् ।
२०
"
ननु यदि कश्चिदक्षणिकदर्शी स्यात् स यदि इन्द्रियज्ञानेन ; तन्न शक्यम् ; तस्यें वर्त्तमानमात्रविषयत्वात् । अथ अनुमानेन ; तन्न; " तदभावेऽभावात् । न च प्रमाणान्तरादिति चेत् ; कथमिदवगतम् -'सर्वमक्षज्ञानं वर्तमानविषयमेव ' ?
स्यान्मतम् – अखिलमिन्द्रियज्ञानं वर्त्तमानविषयं तत्त्वात् अस्मदादित नहि ( दिज्ञानवत् इति ; तर्हि ) 'सुगतो न सर्वज्ञो वीतरागो वा पुरुषत्वादिभ्यो रथ्यापुरुषवत्' इत्यपि स्यात् । २५ अथ पुरुषत्वाद्यविशेषेऽपि कश्चित् सर्वज्ञः कल्प्यते ; इन्द्रियज्ञानमपि यदि किञ्चिदेव त्रिकालानुयानिमेकमर्थं पश्येत् को विरोधः, यतोऽक्षणिके सर्वादर्शनं सिध्ये [त् ?] तन्न अदर्शनात् क्षणिकाभावः । केवलम् अर्थक्रियावैकल्यमवशिष्यते । [ ४९३ख ] तदप्यदर्शयन्नसिद्ध (र्शनान्न सिद्ध्य) त्युक्तन्यायात् ।
1
यदि मतम् - क्षणिकत्वेन अर्थक्रिया
व्याप्ता, "तच्च विरोधादक्षणिकाद् व्यावर्त्तमानं
(१) अगमकत्वम् | (२) अक्षणिके । (३) मीमांसकेन । ( ४ ) अक्षणिके । (५) सर्वादर्शनसाक्षात्कर्तुः । (६) यदि मीमांसकः सर्वज्ञद्रष्टा स्यात् तदा । ( ७ ) मीमांसकः यदि सर्वज्ञं स्वीकुर्यात् तदा । (८) वैयर्थ्यं स्यात् ( ९ ) प्रयोजनम् । (१०) इन्द्रियज्ञानस्य । ( ११ ) प्रत्यक्षाभावे । (१२) क्षणिकत्वम् ।
Jain Education International
For Personal & Private Use Only
4
www.jainelibrary.org