________________
९।२०] सदृशपरिणामात्मक सामान्यम्
६२९ . अर्थाः परपरिकल्पितक्षणिकपरमाणुरूपा घटादयः प्रत्यवमर्शस्यास्याहेतवः अकारणम् । किंभूताः ? इत्याह-अविषयीकृताः अदृष्टा इति यावत् । ततः तदहेतुत्वात तत्प्रतिबन्धस्य तेषां लिङ्गलिङ्गिभूतार्थानाम् अविनाभाव[:] स्यात् न लैङ्गिकमनुमानं स्यात् ।
'नहि' इत्यादिना कारिकार्थमाह-न खलु स्वयं प्रत्यभिज्ञात्रा अविषयीकृता ननुभूता ५ नर्थातु प्रत्यभि (न् अननुभूतार्थान्) प्रत्यभिज्ञानं प्रत्यवमृशति तथाविधे विषये तदुदयाभावात् , अन्यथा सर्वत्र तदुदयः स्यादिति मन्यते । अथाविषयीकृतानपि प्रत्यवमृशति इति : . तत्राह-प्रमेय इत्यादि । प्रत्यक्षानुमानाभ्याम् अविकल्पलिङ्गजाभ्याम् अन्यत् प्रमाणं तदन्तरं तद्भावः तत्त्वं तस्य प्रसङ्गात् प्रत्यभिज्ञानस्य इति । 'नहि' इत्यादिना सम्बन्धः । कुतः ? इत्यत्राह-प्रमेयाधिवाक्या(धिक्या)च्च इति । प्रत्यक्षानुमानाविषयीकृतप्रमेय (ये) प्रवर्त्तनात् 'प्रमेया-१० धिक्यात्' इत्युक्तम् । च शब्दात्म (त् स)विकल्पालिङ्ग जत्वात् इति ।
___ लब्धं फलं दर्शयन्नाह-ततः स्वयमविषयीकृतस्य प्रत्यभिज्ञानेनाऽपरामर्शात् तत्र निरंशे तत्त्वे प्रतिबन्धासिद्धौ [४९२ख] लिङ्गस्याविनाभावाऽनिश्चये कुतो लिङ्गादनुमानम ? न कुतश्चित् । भवतु वा सन्निहिते प्रत्यक्षतः विषयीकृते प्रत्यभिज्ञानेन प्रत्यवमर्शः, तथापि साकल्येन तदभावान्नानुमानमिति दर्शयन्नाह-साकल्येन इत्यादि। च शब्दोऽत्र द्रष्टव्यः । १५ सामस्त्येन व्याप्त्यसिद्धेश्च कुतोऽनुमानम् ?
इन्द्रियजात् प्रत्यक्षात् तथा व्याप्तिसिद्धिः इत्येके । योगिप्रत्यक्षात इत्यपरे । मानसात् इत्यन्ये । अनुमानात् इति केचन । व्यापकानुपलब्धेः इत्यर्थः । तत्राह-प्रत्यक्षात् इत्यादि ।
[प्रत्यक्षात् कचिद् व्याप्तिरनुमानेनानवस्थितिः।
व्यापकानुपलम्भश्च व्याप्त्यसिद्धौ न सिध्यति ॥२०॥ २० यावान् 'इत्यविचारितेन नामात्मना प्रतिबन्धं व्यवस्थापयतीति सुव्यवस्थितः
(१) प्रत्यभिज्ञानका । (२) अननुभूते । (३) सामान्यलक्षणाप्रत्यासत्या अलौकिकप्रत्यक्षेण । (४) नैयायिकाः । “लिङ्गलिङ्गिसम्बन्धदर्शनमा प्रत्यक्षम् ।"-न्यायवा० पृ० ४४ । “भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयोः । ज्ञायते भेदहानेन क्वचिच्चापि विशेषयोः ।"-मी. श्लो० अनु० श्लो० १२ । “भूयोदर्शनबलादग्निधूमयोर्देशादिव्यभिचारेऽपि अव्यभिचारग्रहणम् ।"- प्रश० व्यो० पृ० ५७० । “तस्मादभिजातमणिभेदतत्त्ववत् भूयोदर्शनजनितसंस्कारसहितमिन्द्रियमेव धूमादीनां वह्नयादिभिः स्वाभाविकसम्बन्धग्राहीति युक्तमुत्पश्यामः ।"-न्यायवा० ता. पृ० १६७ । ता०प० पृ० ६९७ । प्रश० किरण. पृ० २९५ । प्रश. कन्द० पृ० २०९ । तत्त्वचि. अनु० पृ० २१०। (५) तुलना-"अन्ये तु व्याप्तिग्रहणकाले प्रतिपत्तुर्योगिन इवाशेषविषयं परिज्ञानमस्तीति ब्रुवते । अन्यथा हि सर्वो धूमोऽग्निं विना न भवतीति व्याप्तिस्मरणं न स्यात् ।"-प्रश० व्यो० पृ० ५७० । (६) "तस्य ग्रहणं प्रत्यक्षानुपलम्भसहायात् मानसात प्रत्यक्षात् । धूममग्निसहचरितमिन्द्रियेणोपलभ्य अनग्नेश्च जलादेावर्तमानमनुपलम्मेन ज्ञात्वा मनसा निश्चिनोति धूमोऽग्निं न व्यभिचरतीति ।"-न्यायकलि० पृ. ३ । न्यायम० पृ० १२१, १२३ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org